ब्रह्मस्वहा कृमिः पापो भविष्याम्यधमाधमः । अथवा प्रेततां यास्ये वर एवात्मविक्रयः
सूत उवाच - राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् । प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा
त्यज चिन्तां महाराज स्वधर्ममनुपालय । प्रेतवद्वर्जनीयो हि नरः सत्यबहिष्कृतः
नातः परतरं धर्मं वदन्ति पुरुषस्य च । यादृशं पुरुषव्याघ्र स्वसत्यस्यानुपालनम्
अग्निहोत्रमधीतं च दानाद्याः सकलाः क्रियाः । भवन्ति तस्य वैफल्यं वाक्यं यस्यानृतं भवेत्
सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् । तारणायानृतं तद्वत्पातनायाकृतात्मनाम्
शताश्वमेधानादृत्य राजसूयं च पार्थिवः । कृत्वा राजा सकृत्स्वर्गादसत्यवचनाच्च्युतः
राजोवाच - वंशवृद्धिकरश्चायं पुत्रस्तिष्ठति बालकः । उच्यतां वक्तुकामासि यद्वाक्यं गजगामिनि
पत्न्युवाच - राजन् माभूदसत्यं ते पुंसां पुत्रफलाः स्त्रियः । तन्मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम्
व्यास उवाच - एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः । प्रतिलभ्य च संज्ञां वै विललापातिदुःखितः
महद्दुखःमिदं भद्रे यत्त्वमेवं ब्रवीषि मे । किं तव स्मितसंल्लापा मम पापस्य विस्मृताः
हा हा त्वया कथं योग्यं वक्तुमेतच्छुचिस्मिते । दुर्वाच्यमेतद्वचनं कथं वदसि भामिनि
इत्युक्त्वा नृपतिश्रेष्ठो न धीरो दारविक्रये । निपपात महीपृष्ठे मूर्च्छयातिपरिप्लुतः
शयानं भुवि तं दृष्ट्वा मूर्च्छयापि महीपतिम् । उवाचेदं सुकरुणं राजपुत्री सुदुःखिता
हा महाराज कस्येदमपध्यानादुपागतम् । यस्त्वं निपतितो भूमौ रङ्कवच्छरणोचितः
येनैव कोटिशो वित्तं विप्राणामपवर्जितम् । स एव पृथिवीनाथो भुवि स्वपिति मे पतिः
हा कष्टं किं तवानेन कृतं दैव महीक्षिता । यदिन्द्रोपेन्द्रतुल्योऽयं नीतः पापामिमां दशाम्
इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह । भर्तुर्दुःखमहाभारेणासह्येनातिपीडिता
शिशुर्दृष्ट्वा क्षुधाविष्टः प्राह वाक्यं सुदुःखितः । तात तात प्रदेह्यन्नं मातर्मे देहि भोजनम्
क्षुन्मे बलवती जाता जिह्वाग्रे मेऽतिशुष्यति
एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः । अन्तकेन समः क्रुद्धो धनं स्वं याचितुं हृदा
तमालोक्य हरिश्चन्द्रः पपात भुवि मूर्च्छितः । स वारिणा तमभ्युक्ष्य राजानमिदमब्रवीत्
उत्तिष्ठोत्तिष्ठ राजेन्द्र स्वां ददस्वेष्टदक्षिणाम् । ऋणं धारयतां दुःखमहन्यहनि वर्धते
आप्यायमानः स तदा हिमशीतेन वारिणा । अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च
पुनर्मोहं समापेदे ह्यथ क्रोधं ययौ मुनिः समाश्वास्य च राजानं वाक्यमाह द्विजोत्तमः
विश्वामित्र उवाच - दीयतां दक्षिणा सा मे यदि धैर्यमवेक्षसे । सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी
सत्ये प्रोक्तः परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः । अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेकं विशिष्यते । अथवा किं ममैतेन प्रोक्तेनास्ति प्रयोजनम्
मदीयां दक्षिणां राजन्न दास्यति भवान्यदि । अस्ताचलगते ह्यर्के शप्स्यामि त्वामतो ध्रुवम्
इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः । दुःखीभूतोऽवनौ निःस्वो नृशंसमुनिनार्दितः