तस्मात्कथय भूपाल न दास्यामीति साम्प्रतम् । त्यक्त्वाऽऽशां महतीं कामं गच्छाम्यहमतः परम्
यथेष्टं व्रज राजेन्द्र भार्यापुत्रसमन्वितः । सुवर्णं नास्ति किं तुभ्यं ददामीति वदाधुना
गच्छन्वाक्यमिदं श्रुत्वा ब्राह्मणस्य च भूपतिः । प्रत्युवाच मुनिं ब्रह्मन् धैर्यं कुरु ददाम्यहम्
मम देहोऽस्ति भार्यायाः पुरस्य च ह्यनामयः । क्रीत्वा देहं तु तं नूनमृणं दास्यामि ते द्विज
ग्राहकं पश्य विप्रेन्द्र वाराणस्यां पुरि प्रभो । दासभावं गमिष्यामि सदारोऽहं सपुत्रकः
गृहाण काञ्चनं पूर्णं सार्धं भारद्वयं मुने । मौल्येन दत्त्वा सर्वान्नः सन्तुष्टो भव भूधर
इति ब्रुवञ्जगामाथ सह पत्न्या सुतान्वितः । उमया कान्तया सार्धं यत्रास्ते शङ्करः स्वयम्
तां दृष्ट्वा च पुरीं रम्यां मनसो ह्लादकारिणीम् । उवाच स कृतार्थोऽस्मि पुरीं पश्यन्सुवर्चसम्
ततो भागीरथीं प्राप्य स्नात्वा देवादितर्पणम् । देवार्चनं च निर्वर्त्य कृतवान् दिग्विलोकनम्
प्रविश्य वसुधापालो दिव्यां वाराणसीं पुरीम् । नैषा मनुष्यभुक्तेति शूलपाणेः परिग्रहः
जगाम पद्भ्यां दुःखार्तः सह पत्न्या समाकुलः । पुरीं प्रविश्य स नृपो विश्वासमकरोत्तदा
ददृशेऽथ मुनिश्रेष्ठं ब्राह्मणं दक्षिणार्थिनम् । तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत्
प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् । इमे प्राणाः सुतश्चायं प्रिया पत्नी मुने मम
येन ते कृत्यमस्त्याशु गृहाणाद्य द्विजोत्तम । यच्चान्यत्कार्यमस्माभिस्तन्ममाख्यातुमर्हसि
विश्वामित्र उवाच - पूर्णः स मासो भद्रं ते दीयतां मम दक्षिणा । पूर्वं तस्य निमित्तं हि स्मर्यते स्ववचो यदि
राजोवाच - ब्रह्मन्नाद्यापि सम्पूर्णो मासो ज्ञानतपोबल । तिष्ठत्येकदिनार्धं यत्तप्रतीक्षस्व नापरम्
विश्वामित्र उवाच - एवमस्तु महाराज आगमिष्याम्यहं पुनः । शापं तव प्रदास्यामि न चेदद्य प्रयच्छसि
इत्युक्त्वाथ ययौ विप्रो राजा चाचिन्तयत्तदा । कथमस्मै प्रयच्छामि दक्षिणा या प्रतिश्रुता
कुतः पुष्टानि मित्राणि कुत्रार्थः साम्प्रतं मम । प्रतिग्रहः प्रदुष्टो मे तत्र याञ्चा कथं भवेत्
राज्ञां वृत्तित्रयं प्रोक्तं धर्मशास्त्रेषु निश्चितम् । यदि प्राणान्विमुञ्चामि ह्यप्रदाय च दक्षिणाम्
ब्रह्मस्वहा कृमिः पापो भविष्याम्यधमाधमः । अथवा प्रेततां यास्ये वर एवात्मविक्रयः
सूत उवाच - राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् । प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा
त्यज चिन्तां महाराज स्वधर्ममनुपालय । प्रेतवद्वर्जनीयो हि नरः सत्यबहिष्कृतः
नातः परतरं धर्मं वदन्ति पुरुषस्य च । यादृशं पुरुषव्याघ्र स्वसत्यस्यानुपालनम्
अग्निहोत्रमधीतं च दानाद्याः सकलाः क्रियाः । भवन्ति तस्य वैफल्यं वाक्यं यस्यानृतं भवेत्
सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् । तारणायानृतं तद्वत्पातनायाकृतात्मनाम्
शताश्वमेधानादृत्य राजसूयं च पार्थिवः । कृत्वा राजा सकृत्स्वर्गादसत्यवचनाच्च्युतः
राजोवाच - वंशवृद्धिकरश्चायं पुत्रस्तिष्ठति बालकः । उच्यतां वक्तुकामासि यद्वाक्यं गजगामिनि
पत्न्युवाच - राजन् माभूदसत्यं ते पुंसां पुत्रफलाः स्त्रियः । तन्मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम्
व्यास उवाच - एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः । प्रतिलभ्य च संज्ञां वै विललापातिदुःखितः