वनात्पुत्रः समायातो राजसूयः कृतः पुरा । कस्माच्छोचसि राजेन्द्र शोकस्य कारणं वद
नारातिर्विद्यते क्वापि बलवान्दुर्बलोऽपि वा । वरुणोऽपि सुसन्तुष्टः कृतकृत्योऽसि भूतले
विन्तया क्षीयते देहो नास्ति चिन्तासमा मृतिः । त्यज्यतां नृपशार्दूल स्वस्थो भव विचक्षण
तन्निशम्य प्रियावाक्यं प्रीतिपूर्वं नराधिपः । प्रोवाच किञ्चिच्चिन्तायाः कारणं च शुभाशुभम्
भोजनं न चकाराऽसौ चिन्ताविष्टस्तथा नृपः । सुप्त्वापि शयने शुभ्रे लेभे निद्रां न भूमिपः
प्रातरुत्थाय चिन्तार्तो यावत्सन्ध्यादिकाः क्रियाः । करोति नृपतिस्तावद्विश्वामित्रः समागतः
क्षत्रा निवेदितो राज्ञे मुनिः सर्वस्वहारकः । आगत्योवाच राजानं प्रणमन्तं पुनः पुनः
विश्वामित्र उवाच - राजंस्त्यज स्वराज्यं मे देहि वाचा प्रतिश्रुतम् । सुवर्णं स्पृश राजेन्द्र सत्यवाग्भव साम्प्रतम्
हरिश्चन्द्र उवाच - स्वामिन् राज्यं तवेदं मे मया दत्तं किलाधुना । त्यक्त्वान्यत्र गमिष्यामि मा चिन्ता कुरु कौशिक
सर्वस्वं मम ते ब्रह्मन् गृहीतं विधिवद्विभो । सुवर्णदक्षिणां दातुमशक्तोऽस्म्यधुना द्विज
दानं ददामि ते तावद्यावन्मे स्याद्धनागमः । पुनश्चेत्कालयोगेन तदा दास्यामि दक्षिणाम्
इत्युक्त्वा नृपतिः प्राह पुत्रं भार्यां च माधवीम् । राज्यमस्मै प्रदत्तं वै मया वेद्यां सुविस्तरम्
हस्त्यश्वरथसंयुक्तं रत्नहेमसमन्वितम् । त्यक्त्वा त्रीणि शरीराणि सर्वं चास्मै समर्पितम्
त्यक्त्वायोध्यां गमिष्यामि कुत्रचिद्वनगह्वरे गृह्णात्विदं मुनिः सम्यग्राज्यं सर्वसमृद्धिमत्
इत्याभाष्य सुतं भार्यां हरिश्चन्द्रः स्वमन्दिरात् । विनिर्गतः सुधर्मात्मा मानयंस्तं द्विजोत्तमम्
व्रजन्तं भूपतिं वीक्ष्य भार्यापुत्रावुभावपि । चिन्तातुरौ सुदीनास्यौ जग्मतुः पृष्ठतस्तदा
हाहाकारो महानासीन्नगरे वीक्ष्य तांस्तथा । चुक्रुशुः प्राणिनः सर्वे साकेतपुरवासिनः
हा राजन् किं कृतं कर्म कुतः क्लेशः समागतः । वञ्चितोऽसि महाराज विधिनापण्डितेन ह
सर्वे वर्णास्तदा दुःखमाप्नुयुस्तं महीपतिम् । विलोक्य भार्यया सार्धं पुत्रेण च महात्मना
निनिन्दुर्ब्राह्मणं तं तु दुराचारं पुरौकसः । धूर्तोऽयमिति भाषन्तो दुःखार्ता ब्राह्मणादयः
निर्गत्य नगरात्तस्माद्विश्वामित्रः क्षितीश्वरम् । गच्छन्तं तमुवाचेदं समेत्य निष्ठुरं वचः
दक्षिणायाः सुवर्णं मे दत्त्वा गच्छ नराधिप । नाहं दास्यामि वा ब्रूहि मया त्यक्तं सुवर्णकम्
राज्यं गृहाण वा सर्वं लोभश्चेद्धृति वर्तते । दत्तं चेन्मन्यसे राजन् देहि यत्तत्प्रतिश्रुतम्
एवं ब्रुवन्तं गाधेयं हरिश्चन्द्रो महीपतिः । प्रणिपत्य सुदीनात्मा कृताञ्जलिपुटोऽब्रवीत्
हरिश्चन्द्रोपाख्यानवर्णनम् हरिश्चन्द्र उवाच - अदत्त्वा ते हिरण्यं वै न करिष्यामि भोजनम् । प्रतिज्ञा मे मुनिश्रेष्ठ विषादं त्यज सुव्रत
सूर्यवंशसमुद्भूतः क्षत्रियोऽहं महीपतिः । राजसूयस्य यज्ञस्य कर्ता वाञ्छितदो नृषु
कथं करोमि नाकारं स्वामिन्दत्त्वा यदृच्छया । अवश्यमेव दातव्यमृणं ते द्विजसत्तम
स्वस्थो भव प्रदास्यामि सुवर्णं मनसेप्सितम् । कञ्चित्कालं प्रतीक्षस्व यावत्प्राप्स्याम्यहं धनम्
विश्वामित्र उवाच - कुतस्ते भविता राजन् धनप्राप्तिरतः परम् । गतं राज्यं तथा कोशो बलं चैवार्थसाधनम्
वृथाशा ते महीपाल धनार्थे किं करोम्यहम् । निर्धनं त्वां च लोभेन पीडयामि कथं नृप