वरदानं महादेव्या गर्गाचार्यसुखावहम् । श्रुत्वा सभार्यः संप्रीतः परं मुदमथागमत्
तदारभ्य परं जाने देवीमाहात्म्यमुत्तमम् । अधुनापि हि देवर्षे श्रुतं तव मुखांबुजात्
अतो भागवतं देव्यास्त्वमेव श्रावय प्रभो । मद्भाग्यादेव देवर्षे संप्राप्तोऽसि दयानिधे
वसुदेववचः श्रुत्वा नारदः प्रीतमानसः । सुदिने शुभनक्षत्रे कथारंभमथाकरोत्
कथाविघ्नविघातार्थं द्विजा जेपुर्नवाक्षरम् । मार्कण्डेयपुराणोक्तं पेठुर्देव्याः स्तवं तथा
प्रथमस्कंधमारभ्य श्रीनारदमुखोद्गतम् । शुश्राव वसुदेवश्व भक्त्या भागवतामृतम्
नवमेऽह्नि कथापूर्तौ पुस्तकं वाचकं तथा । प्रसन्न: पूजयामास वसुदेवो महामनाः
अथ तत्र बिलस्यांतः कृष्णजांबवतोर्मृधे । कृष्णमुष्टिविनिष्पातश्लथाङ्गो जांबवानभूत्
अथागतस्मृतिः सो हि भगवंतं प्रणम्य च । उवाच परया भक्त्या स्वापराधं क्षमापयन्
ज्ञातोऽसि रघुवर्यस्त्वं यद्रोषात्सरितां पतिः । क्षोभं जगाम लंकां च रावणः सानुगो हतः
स एवासि भवान्कृष्ण मद्दौरात्म्यं क्षमस्व भोः । ब्रूहि यत्करणीयं मे भृत्योऽहं तव सर्वथा
श्रुत्वा जांबवतो वाचमब्रवीज्जगदीश्वरः । मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम्
द्विजा भार्यया सहितं कृष्णं देवर्षिर्नारदश्वाथ ऋक्षराजस्ततः प्रीत्या कन्यां जाम्बवतीं निजाम्। ददौ कृष्णाय संपूज्य स्यमंतकमणिं तथा
स तां पत्नीं समादाय मणिं कंठे तथा दधत् । अभिमंत्र्यर्क्षराजञ्च प्रतस्थे द्वारकां प्रति
कथासमाप्तिदिवसे वसुदेव उदारधीः । ब्राह्मणान्भोजयामास दक्षिणाभिरतोषयत्
आशीर्वादं प्रयुञ्जाना द्विजा यत्समये हरिः । आजगाम क्षणे तस्मिन्पत्न्या सह मणिं दधत्
भार्यया सहितं कृष्णं वसुदेवपुरोगमाः । दृष्ट्वा हर्षाश्रुपूर्णाक्षाः समवापुः परां मुदम्
देवर्षिर्नारदश्चाथ कृष्णागमनहर्षितः । आमंत्र्य वसुदेवं च कृष्णो ब्रह्मसभां ययौ
हरिचरितमिदं यत्कीर्तितं दुर्यशोघ्नं पठति विमलभक्त्या शुद्धचित्तः शृणोति । स भवति सुखपूर्णः सर्वदा सिद्धिकामो जगति च वपुषोऽन्ते मुक्तिमार्गं लभेच्च
अध्यायः ३ सूत उवाच। अथेतिहासमन्यच्च शृणुध्वं मुनिसत्तमाः । देवीभागवतस्यास्य माहात्म्यं यत्र गीयते
एकदा कुंभयोनिस्तु लोपामुद्रापतिर्मुनिः । गत्वा कुमारमभ्यर्च्य पप्रच्छ विविधाः कथाः
स तस्मै भगवान्स्कन्दः कथयामास भूरिशः । दानतीर्थव्रतादीनां माहात्म्योपचिताः कथाः
वाराणस्याश्च माहात्म्यं मणिकर्णीभवं तथा । गंगायाश्चापि तीर्थानां वर्णितं बहुविस्तरम्
श्रुत्वाथ स मुनिः प्रीतः कुमारं भूरिवर्चसम् । पुनः पप्रच्छ लोकानां हितार्थं कुंभसंभवः
अगस्त्य उवाच। भगवंस्तारकाराते देवीभागवतस्य तु । माहात्म्यश्रवणे तस्य विधिं चापि वद प्रभो
देवीभागवतं नाम पुराणं परमोत्तमम् । त्रैलोक्यजननी साक्षाद्गीयते यत्र शाश्वती
स्कन्द उवाच। श्रीभागवतमाहात्म्यं को वक्तुं विस्तरात्क्षमः । शृणु संक्षेपतो ब्रह्मन्कथयिष्यामि सांप्रतम्
या नित्या सच्चिदानन्दरूपिणी जगदम्बिका । साक्षात्समाश्रिता यत्र भुक्तिमुक्तिप्रदायिनी
अतस्तद्वाङ्मयी मूर्तिर्देवीभागवते मुने । पठनाच्छ्रवणाद्यस्य न किंचिदिह दुर्लभम्
आसीद्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः । सोऽनपत्योऽकरोदिष्टिं वसिष्ठानुमतो नृपः