यदिच्छसि महाभाग तत्ते दास्यामि साम्प्रतम् । गावो भूमिर्हिरण्यं च गजाश्वरथवाहनम्
नादेयं मे किमप्यस्ति कृतमेतद्व्रतं पुरा । राजसूये मखश्रेष्ठे मुनीनां सन्निधावपि
तस्मात्त्वमिह सम्प्ताप्तस्तीर्थेऽस्मिन्प्रवरे मुने । यत्तेऽस्ति वाञ्छितं ब्रूहि ददामि अव वाञ्छितम्
विश्वामित्र उवाच - मया पूर्वं श्रुता राजन् कीर्तिस्ते विपुला भुवि । वसिष्ठेन च सम्प्रोक्ता दाता नास्ति महीतले
हरिश्चन्द्रो नृपश्रेष्ठः सूर्यवंशे महीपतिः । तादृशो नृपतिर्दाता न भूतो न भविष्यति
पृथिव्यां परमोदारस्त्रिशङ्कुतनयो यथा । अतस्त्वां प्रार्थयाम्यद्य विवाहो मेऽस्ति पार्थिवः
पुत्रस्य च महाभाग तदर्थं देहि मे धनम् । राजोवाच - विवाहं कुरु विप्रेन्द्र ददामि प्रार्थितं तव
यदिच्छसि धनं कामं दाता तस्यामि निश्चितम् । व्यास उवाच - इत्युक्तः कौशिकस्तेन वञ्चनातत्परो मुनिः
उद्भाव्य मायां गान्धर्वीं पार्थिवायाप्यदर्शयत् । कुमारः सुकामारश्च कन्या च दशवार्षिकी
एतयोः कार्यमप्यद्य कर्तव्यं नृपसत्तम । राजसूयाधिकं पुण्यं गृहस्थस्य विवाहतः
भविष्यति तवाद्यैव विप्रपुत्रविवाहितः । तच्छ्रुत्वा वचनं राजा मायया तस्य मोहितः
तथेति च प्रतिज्ञाय नोवाचाल्पं वचस्तथा । तेन दर्शितमार्गोऽसौ नगरं प्रति जग्मिवान्
विश्वामित्रोऽपि राजानं वञ्चयित्वाश्रमं ययौ । कृतोद्वाहविधिस्तावद्विश्वामित्रोऽब्रवीन्नृपम्
वेदीमध्ये नृपाद्य त्वं देहि दानं यथेप्सितम् । राजोवाच - किं तेऽभीष्टं द्विज ब्रूहि ददामि वाञ्छितं किल
अदेयमै संसरे यशः कामोऽस्मि साम्प्रतम् । व्यर्थं हि जीवितं तस्य विभवं प्राप्य येन वै
नोपार्जितं यशः शुद्धं परलोकसुखप्रदम् । विश्वामित्र उवाच - राज्यं देहि महाराज वराय सपरिच्छदम्
गजाश्वरथरत्नाढ्यं वेदीमध्येऽतिपावने । व्यास उवाच - मोहितो मायया तस्य श्रुत्वा वाक्यं मुनेर्नृपः
दत्तमित्युक्तवान् राज्यमविचार्य यदृच्छया । गृहीतमिति तं प्राह विश्वामित्रोऽतिनिष्ठुरः
दक्षिणां देहि राजेन्द्र दानयोग्यां महामते । दक्षिणारहितं दानं निष्फलं मनुरब्रवीत्
तस्माद्दानफलाय त्वं यथोक्तां देहि दक्षिणाम् । इत्युक्तस्तु तदा राजा तमुवाचातिविस्मितः
ब्रूहि कियद्धनं तुभ्यं देयं स्वामिन् मयाधुना । दक्षिणानिष्क्रयं साधो वद तावत्प्रमाणकम्
दानपूर्त्यै प्रदास्यामि स्वस्थो ब् हव तपोधन । विश्वामित्रस्तु तच्छ्रुत्वा तमाह मेदिनीपतिम्
हेमभारद्वयं सार्धं दक्षिणां देहि साम्प्रतम् । दास्यामीति प्रतिश्रुत्य तस्मै राजातिविस्मितः
तदैव सैनिकास्तस्य वीक्षमाणाः समागताः । दृष्ट्वा महीपतिं व्यग्रं तुष्टुवुस्ते मुदान्विताः
व्यास उवाच - श्रुत्वा तेषां वचो राजा नोक्त्वा किञ्चिच्छुभाशुभम् । चिन्तयन्स्वकृतं कर्म ययावन्तःपुरे ततः
किं मया स्वीकृतं दानं सर्वस्वं यत्समर्पितम् । वञ्चितोऽहं द्विजेनात्र वने पाटच्चरैरिव
राज्यं सोपस्करं तस्मै मया सर्वं रतिश्रुतम् । भारद्वयं सुवर्णस्य सार्धं च दक्षिणा पुनः
किं करोमि मतिर्भ्रष्टा न ज्ञातं कपटं मुनेः । प्रतारितोऽहं सहसा ब्राह्मणेन तपस्विना
न जाने दैवकार्यं वै हा दैव किं भविष्यति । इति चिन्तापरो राजा गृहं प्राप्तोऽतिविह्वलः
पतिं चिन्तापरं दृष्त्वा राज्ञी पप्रच्छ कारणम् । किं प्रभो विमना भासि का चिन्ता ब्रूहि साम्प्रतम्