जलं पीत्वा नृपस्तत्र सुखमाप महीपतिः । इत्येष नगरं गन्तुं दिग्भ्रमेणातिमोहितः
विश्वामित्रस्तु सम्प्राप्तो वृद्धब्राह्मणरूपधृक् । ननाम वीक्ष्य राजा तं प्रीतिपूर्वं द्विजोत्तमम्
तमुवाच गाधिराजः प्रणमन्तं नृपोत्तमम् । स्वस्ति तेऽस्तु महाराज किमर्थमिह चागतः
एकाकी विजने राजन् किं चिकीर्षितमत्र ते । ब्रूहि सर्वं स्थिरो भूत्वा कारणं नृपसत्तम
राजोवाच - सूकरोऽतिमहाकायो बलवान्पुष्पकाननम् । समुपेत्य ममर्दाशु कोमलान्पुष्पपादपान्
तं निवारयितुं दुष्टं करे कृत्वा च कार्मुकम् । ससैन्योऽहं स्वनगरान्निर्गतो मुनिसत्तम
गतोऽसौ दृक्पथात्पापो मायावी क्वापि वेगवान् । पृष्ठतोऽहमपि प्राप्तः सैन्यं क्वापि गतं मम
क्षुधितस्तृषितश्चाहं सैन्यभ्रष्टस्त्विहागतः । न जाने पुरमार्गं च तहा सैन्यगतिं मुने
पन्थानं दर्शय विभो व्रजामि नगरं प्रति । ममात्र भाग्ययोगेन प्राप्तस्त्वं विजने वने
अयोध्यादिपतिश्चाहं हरिश्चन्द्रोऽतिविश्रुतः । राजसूयस्य कर्ता च वाञ्छितार्थप्रदः सदा
धनेच्छा यदि ते ब्रह्मन् यज्ञार्थं द्विजसत्तम । आगन्तव्यमयोध्यायां दास्यामि विपुलं धनम्
कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् व्यास उवाच - इति तस्य वचः श्रुत्वा भूपतेः कौशिको मुनिः । प्रहस्य प्रत्युवाचेदं हरिश्चन्द्रं तथा नृप
राजंस्तीर्थमिदं पुण्यं पावनं पापनाशनम् । स्नानं कुरु महाभाग पितॄणां तर्पणं तथा
कालः शुभतमोऽस्तीह तीर्थे स्नात्वा विशांपते । दानं ददस्व शक्त्यात्र पुण्यतीर्थेऽतिपावने
प्राप्य तीर्थं महापुण्यमस्नात्वा यस्तु गच्छति । स भवेदात्महा भूय इति स्वायम्भुवोऽब्रवीत्
तस्मात्तीर्थवरे राजन् कुरु पुण्यं स्वशक्तितः । दर्शयिष्यामि मार्गं ते गन्तासि नगरं ततः
आगमिष्यामहं मार्गदर्सनार्थं तवानघ । त्वया सहाद्य काकुत्स्थ तव दानेन तोषितः
तच्छ्रुत्वा वचनं राजा मुनेः कपटमण्डितम् । वासांस्युत्तार्य विधिवत्स्नातुमभ्याययौ नदीम्
बन्धयित्वा हयं वृक्षे मुनिवाक्येन मोहितः । अवश्यंभावियोगेन तद्वशस्तु तदाभवत्
राजा स्नानविधिं कृत्वा सन्तर्प्य पितृदेवताः । विश्वामित्रमुवाचेदं स्वामिन् दानं ददामि ते
यदिच्छसि महाभाग तत्ते दास्यामि साम्प्रतम् । गावो भूमिर्हिरण्यं च गजाश्वरथवाहनम्
नादेयं मे किमप्यस्ति कृतमेतद्व्रतं पुरा । राजसूये मखश्रेष्ठे मुनीनां सन्निधावपि
तस्मात्त्वमिह सम्प्ताप्तस्तीर्थेऽस्मिन्प्रवरे मुने । यत्तेऽस्ति वाञ्छितं ब्रूहि ददामि अव वाञ्छितम्
विश्वामित्र उवाच - मया पूर्वं श्रुता राजन् कीर्तिस्ते विपुला भुवि । वसिष्ठेन च सम्प्रोक्ता दाता नास्ति महीतले
हरिश्चन्द्रो नृपश्रेष्ठः सूर्यवंशे महीपतिः । तादृशो नृपतिर्दाता न भूतो न भविष्यति
पृथिव्यां परमोदारस्त्रिशङ्कुतनयो यथा । अतस्त्वां प्रार्थयाम्यद्य विवाहो मेऽस्ति पार्थिवः
पुत्रस्य च महाभाग तदर्थं देहि मे धनम् । राजोवाच - विवाहं कुरु विप्रेन्द्र ददामि प्रार्थितं तव
यदिच्छसि धनं कामं दाता तस्यामि निश्चितम् । व्यास उवाच - इत्युक्तः कौशिकस्तेन वञ्चनातत्परो मुनिः
उद्भाव्य मायां गान्धर्वीं पार्थिवायाप्यदर्शयत् । कुमारः सुकामारश्च कन्या च दशवार्षिकी
एतयोः कार्यमप्यद्य कर्तव्यं नृपसत्तम । राजसूयाधिकं पुण्यं गृहस्थस्य विवाहतः