प्रेषयामास तद्देशं विधाय सूकराकृतिम् । सोऽतिकायो महाकालः कुर्वन्नादं सुदारुणम्
राज्ञश्चोपवने प्राप्तस्त्रासयन् रक्षकांस्तदा । मालतीनां च खण्डानि कदम्बानां तथैव च
यूथिकानां च वृन्दानि कम्पयंश्च मुहुर्मुहुः । दन्तेन विलिखन्भूमिं समुन्मूलयते द्रुमान्
चम्पकान्केतकीखण्डान्मल्लिकानां च पादपान् । करवीरानुशीरांश्च निचखान शुभान्मृदून्
मुचुकुन्दानशोकांश्च बकुलांस्तिलकांस्तथा । उन्मूल्य कदनं तत्र चकार सूकरो वने
वाटिकारक्षकाः सर्वे दुद्रुवुः शस्त्रपाणयः । हाहेति चुक्रुशुस्तत्र मालाकारा भृशातुराः
बाणैः सन्ताड्यमानोऽपि यदा त्रस्तो न वै मृगः । रक्षकान्पीडयामास कोलः कालसमद्युतिः
ते तदातिभयाक्रान्ता राजानं शरणं ययुः । तमूचुस्त्राहि त्राहीति वेपमाना भयाकुलाः
तानागतान्समालोक्य भयार्तान्भूपतिस्तदा । पप्रच्छ किं भयं कस्मान्मां ब्रुवन्तु समागताः
नाहं बिभेमि देवेभ्यो राक्षसेभ्यश्च रक्षकाः । कस्माद्भयं समुत्पन्नं तद्ब्रुवन्तु ममाग्रतः
हन्मि चैकेन बाणेन तं शत्रुं दुर्भगं किल । यो मेऽरातिः समुत्पन्नो लोके पापमतिः खलः
देवो वा दानवो वापि तं निहन्मि शरैः शितैः । क्व तिष्ठति कियद्रूपः कियद्बलसमन्वितः
मालाकारा ऊचुः - न देवो न च दैत्योऽस्ति न यक्षो न च किन्नरः । कश्चित्कोलो महाकायो राजंस्तिष्ठति कानने
पुष्पवृक्षानतिमृदून्दन्तेनोन्मूलयत्यसौ । विदीर्णं तद्वनं सर्वं सूकरेणातिरंहसा
विशिखैस्ताडितोऽस्माभिर्दृषद्भिर्लकुटैस्तथा । न बिभेति महाराज हनुमस्मानुपाद्रवत्
व्यास उवाच - इत्याकर्ण्य वचस्तेषां राजा कोपसमाकुलः । अश्वामारुह्य तरसा जगामोपवनं प्रति
सैन्येन महता युक्तो गजाश्वरथसंयुतः । पदातिवृन्दसहितः प्रययौ वनमुत्तमम्
तत्रापश्यन्महाकोलं घुर्घुरन्तं भयानकम् । वनं भग्नं च संवीक्ष्य राजा क्रोधयुतोऽभवत्
चापे बाणं समारोप्य विकृष्य च शरासनम् । तं हन्तुं सूकरं पापं तरसा समुपाक्रमत्
समालोक्य च राजानं चापहस्तं रुषाकुलम् । सम्मुखोऽभ्यद्रवत्तूर्णं कुर्वञ्छब्दं सुदारुणम्
तमायान्तं समालोक्य वराहं विकृताननम् । मुमोच विशिखं तस्मिन्हन्तुकामो महीपतिः
गच्छन्तं तं समालोक्य राजा कोपसमन्वितः । मुमोच विशिखांस्तीक्ष्णांश्चापमाकृष्य यत्नतः
क्षणं दृष्टिपथं राज्ञः क्षणं चादर्शनं गतः । कुर्वन्बहुविधारावं सूकरं समुपाद्रवत्
हरिश्चन्द्रोऽतिकुपितो मृगस्यानुजगाम ह । अश्वेन वायुवेगेन विकृष्य च शरासनम्
इतस्ततस्तः सैन्यमगमच्च वनान्तरम् । एकाकी नृपतिः कोलं व्रजन्तं समुपाद्रवत्
मध्याह्नसमये राजा सम्प्राप्तो विजने वने । तृषितः क्षुधितोऽत्यर्थं बभूव श्रान्तवाहनः
सूकरोऽदर्शनं प्राप्तो राजा चिन्तातुरोऽभवत् । मार्गभ्रष्टोऽतिविपिने दारुणे दीनवत्स्थितः
किं करोमि क्व गच्छामि न सहायोऽस्ति मे वने । अज्ञातस्वपथः कुत्र व्रजामीति व्यचिन्तयत्
एवं विन्तयतस्तत्र विपिने जनवर्जिते । राज्ञा चिन्तातुरोऽपश्यन्नदीं सुविमलोदकाम्
वीक्ष्य तां मुदितो राजा पाययित्वा तुरङ्गकम् । अश्वादुत्तेर्य विमलं पपौ पानीयमुत्तमम्