मम जन्मार्जितं पुण्यं तपसः पठितस्य च । त्वदीयं वातितपसो ग्लहं कुरु महामते
अहं चेत्तं नृपं सद्यो न करोम्यतिसंस्तुतम् । असत्यवादिनं काममदातारं महाखलम्
आजन्मसञ्चितं सर्वं पुण्यं मम विनश्यतु । अन्यथा त्वत्कृतं सर्वं पुण्यं त्विति पणावहे
ग्लहं कृत्वा ततस्तौ तु विवदन्तौ मुनी तदा । स्वाश्रमं स्वर्गलोकाच्च गतौ परमकोपनौ
हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् व्यास उवाच - कदाचित्तु हरिश्चन्द्रो मृगयार्थं वनं ययौ । अपश्यद्रुदतीं बालां सुन्दरीं चारुलोचनाम्
तामपृच्छन्महाराजझ् कामिनीं करुणापरः । पद्मपत्रविशालाक्षि किं रोदिषि वरानने
केनासि पीडितात्यर्थं किं ते दुःखं वदाशु मे । काच त्वं विजने घोरे कस्ते भर्ता पिताथवा
न बाधते च राज्ये मे राक्षसोऽपि पराङ्गनाम् । तं हन्मि तरसा कान्ते यस्त्वां सुन्दरि बाधते
ब्रूहि दुःखं वरारोहे स्वस्था भव कृशोदरि । विषये मम पापात्मा न तिष्ठति सुमध्यमे
इति तस्य वचः श्रुत्वा नारी तमब्रवीन्नृपम् । प्रमृज्याश्रूणि वदनाद्धरिश्चन्द्रं नृपोत्तमम्
नार्युवाच - राजन् मां बाधतेत्यर्थं विश्वामित्रो महामुनिः । तपः करोति यद्घोरं मदर्थं कौशिको वने
तेनाहं दुःखिता राजन् विषये तव सुव्रत । विद्धि मां कमनां कान्तां पीडितां मुनिना भृशम्
राजोवाच - स्वस्था भव विशालाक्षि न ते दुःखं भविष्यति । तमहं वारयिष्यामि मुनिं तापपरायणम्
इत्याश्वास्य स्त्रियं राजा तरसा मुनिसन्निधौ । नत्वा प्रणम्य शिरसा तमुवाच महीपतिः
स्वामिन्किं क्रियतेऽत्यर्थं तपसा देहपीडनम् । किमर्थं ते समारम्भो ब्रूहि सत्यं महामते
वाञ्छितं तव गाधेय करोमि सफलं किल । उत्तिष्ठोत्तिष्ठ तरसा तपसालमतः परम्
विषये मम सर्वज्ञ न कर्तव्यं सुदारुणम् । लोकपीडाकरं घोरं तपः केनापि कर्हिचित्
इत्थं निषिध्य तं राजा विश्वामित्रं गृहं ययौ । मनसा क्रोधमाधाय गतोऽसौ कौशिको मुनिः
स गत्वा चिन्तयामास नृपकृत्यमसाम्प्रतम् । वसिष्ठस्य च संवादं तपसः प्रतिषेधनम्
कोपाविष्टेन मनसा प्रतीकारमथाकरोत् । विचिन्त्य बहुधा चित्ते दानवं घोरविग्रहम्
प्रेषयामास तद्देशं विधाय सूकराकृतिम् । सोऽतिकायो महाकालः कुर्वन्नादं सुदारुणम्
राज्ञश्चोपवने प्राप्तस्त्रासयन् रक्षकांस्तदा । मालतीनां च खण्डानि कदम्बानां तथैव च
यूथिकानां च वृन्दानि कम्पयंश्च मुहुर्मुहुः । दन्तेन विलिखन्भूमिं समुन्मूलयते द्रुमान्
चम्पकान्केतकीखण्डान्मल्लिकानां च पादपान् । करवीरानुशीरांश्च निचखान शुभान्मृदून्
मुचुकुन्दानशोकांश्च बकुलांस्तिलकांस्तथा । उन्मूल्य कदनं तत्र चकार सूकरो वने
वाटिकारक्षकाः सर्वे दुद्रुवुः शस्त्रपाणयः । हाहेति चुक्रुशुस्तत्र मालाकारा भृशातुराः
बाणैः सन्ताड्यमानोऽपि यदा त्रस्तो न वै मृगः । रक्षकान्पीडयामास कोलः कालसमद्युतिः
ते तदातिभयाक्रान्ता राजानं शरणं ययुः । तमूचुस्त्राहि त्राहीति वेपमाना भयाकुलाः
तानागतान्समालोक्य भयार्तान्भूपतिस्तदा । पप्रच्छ किं भयं कस्मान्मां ब्रुवन्तु समागताः
नाहं बिभेमि देवेभ्यो राक्षसेभ्यश्च रक्षकाः । कस्माद्भयं समुत्पन्नं तद्ब्रुवन्तु ममाग्रतः