त्यक्त्वोरणौ गताः सर्वे गन्धर्वाः पथि पार्थिवः । नग्नो जग्राह तौ श्रान्तो जगाम स्वगृहं प्रति
तदोर्वशीं गतां दृष्ट्वा विललापातिदुःखितः । नग्नं वीक्ष्य पतिं नारी गता सा वरवर्णिनी
क्रन्दन्स देशदेशेषु बभ्राम नृपतिः स्वयम् । तच्चित्तो विह्वलः शोचन्विवशः काममोहितः
भ्रमन्वै सकलां पृथ्वीं कुरुक्षेत्रे ददर्श ताम् । दृष्ट्वा संहृष्टवदनः प्राह सूक्तं नृपोत्तमः
अये जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि । मां त्वं त्वन्मनसं कान्तं वशगं चाप्यनागसम्
स देहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया । खादन्त्येनं वृकाः काकास्त्वया त्यक्तं वरोरु यत्
एवं विलपमानं तं राजानं प्राह चोर्वशी । दुःखितं कृपणं श्रान्तं कामार्तं विवशं भृशम्
उर्वश्युवाच मूर्खोऽसि नृपशार्दूल ज्ञानं कुत्र गतं तव । क्वापि सख्यं न च स्त्रीणां वृकाणामिव पार्थिव
न विश्वासो हि कर्तव्यः स्त्रीषु चौरेषु पार्थिवैः । गृहं गच्छ सुखं भुंक्ष्व मा विषादे मनः कृथाः
इत्येवं बोधितो राजा न विवेदातिमोहितः । दुःखं च परमं प्राप्तः स्वैरिणीस्नेहयन्त्रितः
सूत उवाच इति सर्वं समाख्यातमुर्वशीचरितं महत् । वेदे विस्तरितं चैतत्संक्षेपात्कथितं मया
व्यासेन गृहस्थधर्मवर्णनम् सूत उवाच दृष्ट्वा तामसितापाङ्गीं व्यासश्चिन्तापरोऽभवत् । किं करोमि न मे योग्या देवकन्येयमप्सराः
एवं चिन्तयमानं तु दृष्ट्वा व्यासं तदाप्सराः । भयभीता हि सञ्जाता शापं मा विसृजेदयम्
सा कृत्वाथ शुकीरूपं निर्गता भयविह्वला । कृष्णस्तु विस्मयं प्राप्तो विहङ्गीं तां विलोकयन्
कामस्तु देहे व्यासस्य दर्शनादेव सङ्गतः । मनोऽतिविस्मितं जातं सर्वगात्रेषु विस्मितः
स तु धैर्येण महता निगह्णन्मानसं मुनिः । न शशाक नियन्तुं च स व्यासः प्रसृतं मनः
बहुशो गृह्यमाणं च घृताच्या मोहितं मनः । भावित्वान्नैव विधृतं व्यासस्यामिततेजसः
मन्धनं कुर्वतस्तस्य मुनेरग्निचिकीर्षया । अरण्यामेव सहसा तस्य शुक्रमथापतत्
सोऽविचिन्त्य तथा पातं ममन्थारणिमेव च । तस्माच्छुकः समुद्भूतो व्यासाकृतिमनोहरः
विस्मयं जनयन्बालः सञ्जातस्तदरण्यजः । यथाध्वरे समिद्धोऽग्निर्भाति हव्येन दीप्तिमान्
व्यासस्तु सुतमालोक्य विस्मयं परमं गतः । किमेतदिति सञ्चिन्त्य वरदानाच्छिवस्य वै
तेजोरूपी शुको जातोऽप्यरणीगर्भसम्भवः । द्वितीयोऽग्निरिवात्यर्थं दीप्यमानः स्वतेजसा
विलोकयामास तदा व्यासस्तु मुदितं सुतम् । दिव्येन तेजसा युक्तं गार्हपत्यमिवापरम्
गङ्गान्तः स्नापयामास समागत्य गिरेस्तदा । पुष्पवृष्टिस्तु खाज्जाता शिशोरुपरि तापसाः
जातकर्मादिकं चक्रे व्यासस्तस्य महात्मनः । देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः
जगुर्गन्धर्वपतयो मुदितास्ते दिदृक्षवः । विश्वावसुर्नारदश्च तुम्बुरुः शुकसम्भवे
तुष्टुवुर्मुदिताः सर्वे देवा विद्याधरास्तथा । दृष्ट्वा व्याससुतं दिव्यमरणीगर्भसम्भवम्
अन्तरिक्षात्पपातोर्व्यां दण्डः कृष्णाजिनं शुभम् । कमण्डलुस्तथा दिव्यः शुकस्यार्थे द्विजोत्तमाः
सद्यः स ववृधे बालो जातमात्रोऽतिदीप्तिमान् । तस्योपनयनं चक्रे व्यासो विद्याविधानवित्
उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः । उपतस्थुर्महात्मानं यथास्य पितरं तथा