विश्वामित्रस्तु जग्राह तं करे दक्षिणे तदा । एहि पुत्र गृहं मे त्वमित्युक्त्वा प्रेमपूरितः
शुनःशेपो जगामाशु तेनैव सह सत्वरः । वरुणस्तु प्रसन्नात्मा जगाम च स्वमालयम्
ऋत्विजश्च तथा सभ्याः स्वगृहान्निर्ययुस्तदा । राजापि रोगनिर्मुक्तो बभूवातिमुदान्वितः
प्रजास्तु पालयामास सुप्रसन्नेन चेतसा । रोहिताख्यस्तु तच्छ्रुत्वा वृत्तान्तं वरुणस्य ह
आजगाम गृहं प्रीतो दुर्गमाद्वनपर्वतात् । दूता राजानमभ्येत्य प्रोचुः पुत्रं समागतम्
मुदितोऽसौ जगामाशु सम्मुखः कोसलाधिपः । दृष्ट्वा पितरमायान्तं प्रेमोद्रिक्तः सुसम्भ्रमः
दण्डवत्पतितो भूमावश्रुपूर्णमुखः शुचा । राजापि तं समुत्थाप्य परिरभ्य मुदान्वितः
तमाघ्राय सुतं मूर्ध्नि पप्रच्छ कुशलं पुनः । उत्सङ्गे तं समारोप्य मुदितो मेदिनीपतिः
उष्णैर्नेत्रजलैः शीर्षण्यभिषेकमथाकरोत् । राज्यं शशास तेनासौ पुत्रेणातिप्रियेण च
वृत्तान्तं नरमेधस्य कथयामास विस्तरात् । राजसूयं क्रतुवरं चकार नृपसत्तमः
वसिष्ठं पूजयित्वाथ होतारमकरोद्विभुः । समाप्ते त्वथ यज्ञेशे वसिष्ठोऽतीव पूजितः
शक्रस्य सदनं रम्यं जगाम मुनिरादरात् । विश्वामित्रोऽपि तत्रैव वसिष्ठेन च सङ्गतः
मिलित्वा तौ स्थितौ देवसदने मुनिसत्तम । विश्वामित्रोऽपि पप्रच्छ वसिष्ठं प्रतिपूजितम्
वीक्ष्य विस्मयचित्तस्तं सभायां तु शचीपतेः । विश्वामित्र उवाच - क्वेयं पूजा त्वया प्राप्ता महती मुनिसत्तम
कृता केन महाभाग सत्यं ब्रूहि ममान्तिके । वसिष्ठ उवाच - यजमानोऽस्ति मे राजा हरिश्चन्द्रः प्रतापवान्
राजसूयः कृतस्तेन राज्ञा प्रवरदक्षिणः । नेदृशोऽस्ति नृपश्चान्यः सत्यवादी धृतव्रतः
दाता च धर्मशीलश्च प्रजारञ्जनतत्परः । तस्य यज्ञे मया पूजा प्राप्ता कौशिकनन्दन
[ किं पृच्छसि पुनः सत्यं ब्रवीम्यकृत्रिमं द्विज ] हरिश्चन्द्रसमो राजा न भूतो न भविष्यति । सत्यवादी तथा दाता शूरः परमधार्मिकः
व्यास उवाच इति तस्य वचः श्रुत्वा विश्वामित्रोऽतिकोपनः । बभूव क्रोधसंरक्तलोचनोऽप्यब्रवीच्च तम्
विश्वामित्र उवाच एवं स्तौषि नृपं मिथ्यावादिनं कपटप्रियम् । वञ्चितो वरुणो येन प्रतिश्रुत्य वरं पुनः
मम जन्मार्जितं पुण्यं तपसः पठितस्य च । त्वदीयं वातितपसो ग्लहं कुरु महामते
अहं चेत्तं नृपं सद्यो न करोम्यतिसंस्तुतम् । असत्यवादिनं काममदातारं महाखलम्
आजन्मसञ्चितं सर्वं पुण्यं मम विनश्यतु । अन्यथा त्वत्कृतं सर्वं पुण्यं त्विति पणावहे
ग्लहं कृत्वा ततस्तौ तु विवदन्तौ मुनी तदा । स्वाश्रमं स्वर्गलोकाच्च गतौ परमकोपनौ
हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् व्यास उवाच - कदाचित्तु हरिश्चन्द्रो मृगयार्थं वनं ययौ । अपश्यद्रुदतीं बालां सुन्दरीं चारुलोचनाम्
तामपृच्छन्महाराजझ् कामिनीं करुणापरः । पद्मपत्रविशालाक्षि किं रोदिषि वरानने
केनासि पीडितात्यर्थं किं ते दुःखं वदाशु मे । काच त्वं विजने घोरे कस्ते भर्ता पिताथवा
न बाधते च राज्ये मे राक्षसोऽपि पराङ्गनाम् । तं हन्मि तरसा कान्ते यस्त्वां सुन्दरि बाधते
ब्रूहि दुःखं वरारोहे स्वस्था भव कृशोदरि । विषये मम पापात्मा न तिष्ठति सुमध्यमे
इति तस्य वचः श्रुत्वा नारी तमब्रवीन्नृपम् । प्रमृज्याश्रूणि वदनाद्धरिश्चन्द्रं नृपोत्तमम्