वरुण उवाच - मुञ्च राजञ्छुनःशेपं स्तुवन्तं मां भृशातुरम् । यज्ञोऽयं परिपूर्णस्ते रोगमुक्तो भवात्मना
इत्युक्त्वा वरुणस्तूर्णं राजानं विरुजं तथा । चकार पश्यतां तत्र सदस्यानां सुसंस्थितम्
विमुक्तोऽसौ द्विजः पाशाद्वरुणेन महात्मना । जयशब्दस्ततस्तत्र सञ्जातो मखमण्डपे
राजा प्रमुदितः सद्यो रोगान्मुक्तः सुदारुणात् । यूपान्मुक्तः शुनःशेपो बभूवातीव संस्थितः
राजा त्विमं मखं पूर्णं चकार विनयान्वितः । शुनःशेपस्तदा सभ्यानित्युवाच कृताञ्जलिः
भो भोः सभ्या सुधर्मज्ञाः ब्रुवन्तु धर्मनिर्णयम् । वेदशास्त्रानुसारेण यथार्थवादिनः किल
पुत्रोऽहं कस्य सर्वज्ञाः पिता के कोऽग्रतः परम् । भवतां वचनात्तस्य शरणं प्रव्रजाम्यहम्
इत्युक्ते वचने तत्र सभ्याः प्रोचुः परस्परम् । सभ्या ऊचूः - अजीगर्तस्य पुत्रोऽयं कस्यान्यस्य भवेदसौ
अङ्गादङ्गात्समुद्भूतः पालितस्तेन भक्तितः । अन्यस्य कस्य पुत्रोऽसौ प्रभवेदिति निश्चयः
तच्छ्रुत्वा वामदेवस्तु तानुवाच सभासदः । विक्रीतस्तेन तातेन द्रव्यलोभात्सुतः किल
पुत्रोऽयं धनदातुश्च राज्ञस्तत्र न संशयः । अथवा वरुणस्यैष पाशान्मुक्तोऽस्त्यनेन वै
अन्नदाता भयत्राता तथा विद्याप्रदश्च यः । तथा वित्तप्रदश्चैव पञ्चैते पितरः स्मृताः
तदा केचित्पितुः प्राहुः केचिद्राज्ञस्तथापरे । वरुणस्येति संवादे निर्णयं न ययुश्च ते
इत्थं सन्देहमापन्ने वसिष्ठो वाक्यमब्रवीत् । सभ्यान्विवदतस्तत्र सर्वज्ञः सर्वपूजितः
शृणुध्वं भो महाभागा निर्णयं श्रुतिसम्मतम् । निःस्नेहेन यदा पित्रा विक्रीतोऽयं सुतः शिशुः
सम्बन्धस्तु गतस्तस्य तदैव धनसंग्रहात् । हरिश्चन्द्रस्य सञ्जातः पुत्रोऽसौ क्रीत एव च
यूपे बद्धो यदा राज्ञा तदा तस्य न वै सुतः । वरुणस्तु स्तुतोऽनेन तेन तुष्टेन मोचितः
तस्मान्नायं महाभागा ह्यसौ पुत्रः प्रचेतसः । यो यं स्तौति महामन्त्रैः सोऽपि तुष्टो ददाति च
धनं प्राणान्पशून् राज्यं तथा मोक्षं किलेप्सितम् । कौशिकस्य सुतश्चायमरिष्टे येन रक्षितः
मन्त्रं दत्त्वा महावीर्यं वरुणस्यातिसङ्कटे । व्यास उवाच - श्रुत्वा वाक्यं वसिष्ठस्य बाढमूचुः सभासदः
विश्वामित्रस्तु जग्राह तं करे दक्षिणे तदा । एहि पुत्र गृहं मे त्वमित्युक्त्वा प्रेमपूरितः
शुनःशेपो जगामाशु तेनैव सह सत्वरः । वरुणस्तु प्रसन्नात्मा जगाम च स्वमालयम्
ऋत्विजश्च तथा सभ्याः स्वगृहान्निर्ययुस्तदा । राजापि रोगनिर्मुक्तो बभूवातिमुदान्वितः
प्रजास्तु पालयामास सुप्रसन्नेन चेतसा । रोहिताख्यस्तु तच्छ्रुत्वा वृत्तान्तं वरुणस्य ह
आजगाम गृहं प्रीतो दुर्गमाद्वनपर्वतात् । दूता राजानमभ्येत्य प्रोचुः पुत्रं समागतम्
मुदितोऽसौ जगामाशु सम्मुखः कोसलाधिपः । दृष्ट्वा पितरमायान्तं प्रेमोद्रिक्तः सुसम्भ्रमः
दण्डवत्पतितो भूमावश्रुपूर्णमुखः शुचा । राजापि तं समुत्थाप्य परिरभ्य मुदान्वितः
तमाघ्राय सुतं मूर्ध्नि पप्रच्छ कुशलं पुनः । उत्सङ्गे तं समारोप्य मुदितो मेदिनीपतिः
उष्णैर्नेत्रजलैः शीर्षण्यभिषेकमथाकरोत् । राज्यं शशास तेनासौ पुत्रेणातिप्रियेण च
वृत्तान्तं नरमेधस्य कथयामास विस्तरात् । राजसूयं क्रतुवरं चकार नृपसत्तमः