येनामुं हन्तुकामस्त्वं द्विजपुत्रं निरागसम् । यो यं हन्ति विना वैरं स्वकामः सततं पुनः
हन्तारं हन्ति तं प्राप्य जननं जननान्तरे । जनकोऽस्य सुदुष्टात्मा येनासौ ते समर्पितः
स्वात्मजो धनलोभेन पापाचारः सुदुर्मतिः । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
यजेत चाश्वमेधेन नीलं वा वृषमुत्सृजेत् । देशमध्ये च यः कश्चित्पापकर्म समाचरेत्
षष्ठांशस्तस्य पापस्य राजा भुङ्क्ते न संशयः । निषेधनीयो राज्ञासौ पापं कर्तुं समुद्यतः
न निषिद्धस्त्वया कस्मात्पुत्रं विक्रेतुमुद्यतः । सूर्यवंशे समुत्पन्नस्त्रिशङ्कुतनयः शुभः
आर्यस्त्वनार्यवत्कर्म कर्तुमिच्छसि पार्थिव । मोचनान्मुनिपुत्रस्य करणाद्वचनस्य मे
तव देहे सुखं राजन् भविष्यत्यविचारणात् । पिता ते शापयोगेन चाण्डालत्वमुपागतः
मयासौ तेन देहेन स्वर्लोकं प्रापितः किल । तेनैव प्रीतियोगेन कुरु मे वचनं नृप
मुञ्चैनं बालकं दीनं रुदन्तं भृशमातुरम् । याचितोऽसि मया नूनं यज्ञेऽस्मिन् राजसूयके
प्रार्थनाभङ्गजं दोषं कथं त्वं नावबुध्यसे । प्रार्थितं सर्वदा देयं मखेऽस्मिन्नृपसत्तम
अन्यथा पापमेव स्यात्तव राजन्न संशयः । व्यास उवाच - इति तस्य वचः श्रुत्वा कौशिकस्य नृपोतमः
प्रत्युवाच महाराज कौशिकं मुनिसत्तमम् । जलोदरेण गाधेय दुःखितोऽहं भृशं मुने
तस्मान्न मोचयाम्येनमन्यत्प्रार्थय कौशिक । न त्वया विग्रहः कार्यः कार्येऽस्मिन्मम सर्वथा
तच्छ्रुत्वा वचनं राज्ञो विश्वामित्रोऽतिकोपनः । बभूव दुःखसन्तप्तो वीक्ष्य दीनं द्विजात्मजम्
वसिष्ठविश्वामित्रपणवर्णनम् व्यास उवाच - रुदन्तं बालकं वीक्ष्य विश्वामित्रो दयातुरः । शुनःशेपमुवाचेदं गत्वा पार्श्वेऽतिदुःखितम्
मन्त्रं प्रचेतसः पुत्र मयोक्तं मनसा स्मरन् । जपतस्तव कल्याणं भविष्यति ममाज्ञया
विश्वामित्रवचः श्रुत्वा शुनःशेपः शुचाऽऽकुलः । मन्त्रं जजाप मनसा कौशिकोक्तं स्फुटाक्षरम्
जपतस्तत्र तस्याशु प्रचेतास्तु कृपाकरः । प्रादुर्बभूव सहसा प्रसन्नो नृप बालके
दृष्ट्वा तमागतं सर्वे विस्मयं परमं गताः । तुष्टुवुर्वरुणं देवं मुदिता दर्शनेन ते
राजातिविस्मितः पादौ प्रणनाम रुजातुरः । बद्धाञ्जलिपुटो देवं तुष्टाव पुरतः स्थितम्
हरिश्चन्द्र उवाच - देवदेव कृपासिन्धो पापात्माहं सुमन्दधीः । कृतापराधः कृपणः पावितः परमेष्ठिना
मया ते पुत्रकामेन दुःखसंस्थेन हेलनम् । कृतं क्षमाप्यं प्रभुणा कोऽपराधः सुदुर्मतेः
अर्थी दोषं न जानाति तस्मात्पुत्रार्थिना मया । वञ्चितस्त्वं देवदेव भीतेन नरकाद्विभो
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । भीतोऽहं तेन वाक्येन तस्मात्ते हेलनं कृतम्
नाज्ञस्य दूषणं चिन्त्यं नूनं ज्ञानवता विभो । दुःखितोऽहं रुजाक्रान्तो वञ्चितः स्वसुतेन ह
न जानेऽहं महाराज पुत्रो मे क्व गतः प्रभो । वञ्चयित्वा वने भीतो मरणान्मां कृपानिधे
प्रययौ द्रविणं दत्वा गृहीतो द्विजबालकः । यज्ञोऽयं क्रीतपुत्रेण प्रारब्धस्तव तुष्टये
दर्शनं तव सम्प्राप्य गतं दुःखं ममाद्भुतम् । जलोदरकृतं सर्वं प्रसन्ने त्वयि साम्प्रतम्
व्यास उवाच - इति तस्य वचः श्रुत्वा राज्ञो रोगातुरस्य च । दयावान्देवदेवेशः प्रत्युवाच नृपोत्तमम्