पुत्रा दशविधां प्रोक्ता ब्राह्मणैर्वेदपारगैः । द्रव्येणानीय तस्मात्त्वं पुत्रं कुरु नृपोत्तम
वरुणोऽपि प्रसन्नः सन्सुखकारी भविष्यति । लोभात्कोऽपि द्विजः पुत्रं प्रदास्यति स्वराष्ट्रजः
एवं प्रमोदितो राजा वसिष्ठेन महामना । प्रधानं प्रेरयामास तदन्वेषणकाम्यया
अजीगर्तो द्विजः कश्चिद्विषये तस्य भूपतेः । तस्यासंश्च त्रयः पुत्रा निर्धनस्य विशेषतः
प्रधानेनाप्यसौ पृष्टः पुत्रार्थं दुर्बलो द्विजः । गवां शतं ददामीति देहि पुत्रं मखाय वै
शुनःपुच्छः शुनःशेपः शुनोलांगूल इत्यमी । तेषामेकतमं देहि ददामि तु गवां शतम्
अजीगर्तस्तु तच्छ्रुत्वा क्षुधया पीडितो भृशम् । पुत्रं च कतमं तेभ्यो विक्रेतुं वै मनो दधे
कार्याधिकारिणं ज्येष्ठं मत्वा नासावदादमुम् । कनिष्ठं नाप्यदान्माता ममैष इति वादिनी
मध्यमं च शुनःशेपं ददौ गवां शतेन च । आनिनाय पशुं चक्रे नरमेधे नराधिपः
रुदन्तं दुःखितं दीनं वेपमानं भृशातुरम् । यूपे बद्धं निरीक्ष्यामुं चुक्रुशुर्मुनयस्तदा
शामित्राय पशुं चक्रे नरमेधे नराधिपः । शमिता नाददे शस्त्रं तमालम्भयितुं शिशुम्
नाहं द्विजसुतं दीनं रुदन्तं करुणं भृशम् । हनिष्यामि स्वलोभार्थमित्युवाचाप्यसौ तदा
इत्युक्त्वा विररामासौ कर्मणो दुष्करादथ । राजा आभासदः प्राह किं कर्तव्यमिति द्विजाः
जातः किलकिलाशब्दो जनानां क्रोशतां तदा । क्रन्दमाने शुनःशेपे सभायां भृशमद्भुतम्
अजीगर्तस्तदोत्थाय तमुवाच नृपोत्तमम् । राजन् कार्यं करिष्यामि तवाहं सुस्थिरो भव
वेतनं द्विगुणं देहि हनिष्यामि पशुं किल । कर्तव्यं मखकार्यं वै मया तेऽद्य धनार्थिना
दुःखितस्य धनार्थस्य सदासूया प्रसूयते । व्यास उवाच - तच्छ्रुत्वा वचनं तस्य हरिश्चन्द्रो मुदान्वितः
तमुवाच ददाम्यद्य गवां शतमनुत्तमम् । तदाकर्ण्य पिता तस्य पुत्रं हन्तुं समुद्यतः
लोभेनाकुलचित्तोऽसौ शामित्रे कृतनिश्चयः । समुद्यतं च तं दृष्ट्वा जनाः सर्वे सभासदः
चुक्रुशुर्भृशदुःखार्ता हाहेति जगदुर्वचः । पिशाचोऽयं महापापी क्रूरकर्मा द्विजाकृतिः
यत्स्वयं स्वसुतं हन्तुमुद्यतः कुलपांसनः । धिक्चाण्डाल किमेतत्ते पापकर्म चिकीर्षितम्
हत्वा सुतं धनं प्राप्य किं सुखं ते भविष्यति । आत्मा वै जायते पुत्र अङ्गाद्वै वेदभाषितम्
तत्कथं पापबुद्धे त्वमात्मानं हन्तुमिच्छसि । एवं कोलाहले तत्र जाते कुशिकनन्दनः
समीपं नृपतेर्गत्वा तमुवाच दयापरः । विश्वामित्र उवाच - राजन्नमुं शुनःशेपं रुदन्तं भृशदुःखितम्
क्रतुस्ते भविता पूर्णो रोगनाशश्च सर्वथा । दयासमं नास्ति पुण्यं पापं हिंसासमं नहि
रागिणां रोचनार्थाय नोदनेयं विचारय । आत्मदेहस्य रक्षार्थं परदेहनिकृन्तनम्
न कर्तव्यं महाराज सर्वतः शुभमिच्छता । दयया सर्वभूतेषु सन्तुष्टो येन केन च
सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जगत्पतिः । आत्मवत्सर्वभूतेषु चिन्तनीयं नृपोत्तम
जीवितव्यं प्रियं नूनं सर्वेषां सर्वदा किल । त्वमिच्छसि सुखं कर्तुं देहे हत्वा त्वमुं द्विजम्
कथं नेच्छेदसौ देहं रक्षितुं स्वसुखास्पदम् । पूर्वजन्मकृतं वैरं नानेन सह ते नृप