इन्द्र उवाच - राजपुत्र न जानासि राजनीतिं सुदुर्लभाम् । अतः करोषि मूढस्त्वं गमनाय मतिं वृथा
पिता तव महाभाग ब्राह्मणैर्वेदपारगैः । कारयिष्यति होमं ते ज्वलितेऽथ विभावसौ
आत्मा हि वल्लभस्तात सर्वेषां प्राणिनां खलु । तदर्थे वल्लभाः सन्ति पुत्रदारधनादयः
आत्मनो देहरक्षार्थं हत्वा त्वां वल्लभं सुतम् । हवनं कारयित्वासौ रोगमुक्तो भविष्यति
तस्मात्त्वया न गन्तव्यं राजपुत्र पितुर्गृहे । मृते पितरि गन्तव्यं राज्यार्थे सर्वथा पुनः
एवं निषेधितस्तत्र वासवेन नृपात्मजः । वनमध्ये स्थितः कामं पुनः संवत्सरं नृप
अत्यन्तं दुःखितं श्रुत्वा हरिश्चन्द्रं तदाऽऽत्मजः । गमनाय मतिं चक्रे मरणे कृतनिश्चयः
तुषाराड् द्विजरूपेण तत्रागत्य च रोहितम् । निवारयामास सुतं युक्तिवाक्यैः पुनः पुनः
हरिश्चन्द्रोऽतिदुःखार्तो वसिष्ठं स्वपुरोहितम् । पप्रच्छ रोगनाशाय तत्रोपायं सुनिश्चितम्
तमाह ब्रह्मणः पुत्रो यज्ञं कुरु नृपोत्तम । क्रयक्रीतेन पुत्रेण शापमोक्षो भविष्यति
पुत्रा दशविधां प्रोक्ता ब्राह्मणैर्वेदपारगैः । द्रव्येणानीय तस्मात्त्वं पुत्रं कुरु नृपोत्तम
वरुणोऽपि प्रसन्नः सन्सुखकारी भविष्यति । लोभात्कोऽपि द्विजः पुत्रं प्रदास्यति स्वराष्ट्रजः
एवं प्रमोदितो राजा वसिष्ठेन महामना । प्रधानं प्रेरयामास तदन्वेषणकाम्यया
अजीगर्तो द्विजः कश्चिद्विषये तस्य भूपतेः । तस्यासंश्च त्रयः पुत्रा निर्धनस्य विशेषतः
प्रधानेनाप्यसौ पृष्टः पुत्रार्थं दुर्बलो द्विजः । गवां शतं ददामीति देहि पुत्रं मखाय वै
शुनःपुच्छः शुनःशेपः शुनोलांगूल इत्यमी । तेषामेकतमं देहि ददामि तु गवां शतम्
अजीगर्तस्तु तच्छ्रुत्वा क्षुधया पीडितो भृशम् । पुत्रं च कतमं तेभ्यो विक्रेतुं वै मनो दधे
कार्याधिकारिणं ज्येष्ठं मत्वा नासावदादमुम् । कनिष्ठं नाप्यदान्माता ममैष इति वादिनी
मध्यमं च शुनःशेपं ददौ गवां शतेन च । आनिनाय पशुं चक्रे नरमेधे नराधिपः
रुदन्तं दुःखितं दीनं वेपमानं भृशातुरम् । यूपे बद्धं निरीक्ष्यामुं चुक्रुशुर्मुनयस्तदा
शामित्राय पशुं चक्रे नरमेधे नराधिपः । शमिता नाददे शस्त्रं तमालम्भयितुं शिशुम्
नाहं द्विजसुतं दीनं रुदन्तं करुणं भृशम् । हनिष्यामि स्वलोभार्थमित्युवाचाप्यसौ तदा
इत्युक्त्वा विररामासौ कर्मणो दुष्करादथ । राजा आभासदः प्राह किं कर्तव्यमिति द्विजाः
जातः किलकिलाशब्दो जनानां क्रोशतां तदा । क्रन्दमाने शुनःशेपे सभायां भृशमद्भुतम्
अजीगर्तस्तदोत्थाय तमुवाच नृपोत्तमम् । राजन् कार्यं करिष्यामि तवाहं सुस्थिरो भव
वेतनं द्विगुणं देहि हनिष्यामि पशुं किल । कर्तव्यं मखकार्यं वै मया तेऽद्य धनार्थिना
दुःखितस्य धनार्थस्य सदासूया प्रसूयते । व्यास उवाच - तच्छ्रुत्वा वचनं तस्य हरिश्चन्द्रो मुदान्वितः
तमुवाच ददाम्यद्य गवां शतमनुत्तमम् । तदाकर्ण्य पिता तस्य पुत्रं हन्तुं समुद्यतः
लोभेनाकुलचित्तोऽसौ शामित्रे कृतनिश्चयः । समुद्यतं च तं दृष्ट्वा जनाः सर्वे सभासदः
चुक्रुशुर्भृशदुःखार्ता हाहेति जगदुर्वचः । पिशाचोऽयं महापापी क्रूरकर्मा द्विजाकृतिः