सर्वत्र गिरिदुर्गेषु मुनीनामाश्रमेषु च । अन्वेषितो मे दूतैस्तु न प्राप्तो यादसांपते
आज्ञापय महाराज किं करोमि गते सुते । न मे दोषोऽत्र सर्वज्ञ भाग्यदोषस्तु सर्वथा
व्यास उवाच - इति भूपवचः श्रुत्वा प्रचेताः कुपितो भृशम् । शशाप च नृपं क्रोधाद्वञ्चितस्तु पुनः पुनः
नृपतेऽहं त्वया यस्माद्वचसा च प्रवञ्चितः । तस्माज्जलोदरो व्याधिस्त्वां तुदत्वतिदारुणः
व्यास उवाच - इति शप्तो महीपालः कुपितेन प्रचेतसा । पीडितोऽभूत्तदा राजा व्याधिना दुःखदेन तु
एवं शप्त्वा नृपं पाशी जगाम निजमास्पदम् । राजा प्राप्य महाव्याधिं बभूवातीव दुःखितः
यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् व्यास उवाच - गतेऽथ वरुणे राजा रोगेणातीव पीडितः । दुःखाद्दुःखं परं प्राप्य व्यथितोऽभूद् भृशं तदा
कुमारोऽसौ वने श्रुत्वा पितरं रोगपीडितम् । गमनाय मतिं राजंश्चकार स्नेहयन्त्रितः
संवत्सरे व्यतीते तु पितरं द्रष्टुमादरात् । गन्तुकामं तु तं ज्ञात्वा शक्रस्तत्राजगाम ह
वासवस्तु तदा रूपं कृत्वा विप्रस्य सत्वरः । वारयामास युक्त्या वै कुमारं गन्तुमुद्यतम्
इन्द्र उवाच - राजपुत्र न जानासि राजनीतिं सुदुर्लभाम् । अतः करोषि मूढस्त्वं गमनाय मतिं वृथा
पिता तव महाभाग ब्राह्मणैर्वेदपारगैः । कारयिष्यति होमं ते ज्वलितेऽथ विभावसौ
आत्मा हि वल्लभस्तात सर्वेषां प्राणिनां खलु । तदर्थे वल्लभाः सन्ति पुत्रदारधनादयः
आत्मनो देहरक्षार्थं हत्वा त्वां वल्लभं सुतम् । हवनं कारयित्वासौ रोगमुक्तो भविष्यति
तस्मात्त्वया न गन्तव्यं राजपुत्र पितुर्गृहे । मृते पितरि गन्तव्यं राज्यार्थे सर्वथा पुनः
एवं निषेधितस्तत्र वासवेन नृपात्मजः । वनमध्ये स्थितः कामं पुनः संवत्सरं नृप
अत्यन्तं दुःखितं श्रुत्वा हरिश्चन्द्रं तदाऽऽत्मजः । गमनाय मतिं चक्रे मरणे कृतनिश्चयः
तुषाराड् द्विजरूपेण तत्रागत्य च रोहितम् । निवारयामास सुतं युक्तिवाक्यैः पुनः पुनः
हरिश्चन्द्रोऽतिदुःखार्तो वसिष्ठं स्वपुरोहितम् । पप्रच्छ रोगनाशाय तत्रोपायं सुनिश्चितम्
तमाह ब्रह्मणः पुत्रो यज्ञं कुरु नृपोत्तम । क्रयक्रीतेन पुत्रेण शापमोक्षो भविष्यति
पुत्रा दशविधां प्रोक्ता ब्राह्मणैर्वेदपारगैः । द्रव्येणानीय तस्मात्त्वं पुत्रं कुरु नृपोत्तम
वरुणोऽपि प्रसन्नः सन्सुखकारी भविष्यति । लोभात्कोऽपि द्विजः पुत्रं प्रदास्यति स्वराष्ट्रजः
एवं प्रमोदितो राजा वसिष्ठेन महामना । प्रधानं प्रेरयामास तदन्वेषणकाम्यया
अजीगर्तो द्विजः कश्चिद्विषये तस्य भूपतेः । तस्यासंश्च त्रयः पुत्रा निर्धनस्य विशेषतः
प्रधानेनाप्यसौ पृष्टः पुत्रार्थं दुर्बलो द्विजः । गवां शतं ददामीति देहि पुत्रं मखाय वै
शुनःपुच्छः शुनःशेपः शुनोलांगूल इत्यमी । तेषामेकतमं देहि ददामि तु गवां शतम्
अजीगर्तस्तु तच्छ्रुत्वा क्षुधया पीडितो भृशम् । पुत्रं च कतमं तेभ्यो विक्रेतुं वै मनो दधे
कार्याधिकारिणं ज्येष्ठं मत्वा नासावदादमुम् । कनिष्ठं नाप्यदान्माता ममैष इति वादिनी
मध्यमं च शुनःशेपं ददौ गवां शतेन च । आनिनाय पशुं चक्रे नरमेधे नराधिपः
रुदन्तं दुःखितं दीनं वेपमानं भृशातुरम् । यूपे बद्धं निरीक्ष्यामुं चुक्रुशुर्मुनयस्तदा