लोकपालोऽसि धर्मज्ञ सर्वशास्त्रविशारद । मन्यसे मद्वचः सत्यं तद् गच्छ भवनं विभो
व्यास उवाच - इति तस्य वचः श्रुत्वा दयावान् यादसां पतिः । ओमित्युक्त्वा ययावाशु प्रसन्नवदनो नृपः
गतेऽथ वरुणो राजा बभूवातिमुदान्वितः । सुखं प्राप्य सुतस्यैवं राजा मुदमवाप ह
चकार राजकार्याणि हरिश्चन्द्रस्तदा नृपः । कालेन व्रजता पुत्रो बभूव दशवार्षिकः
तस्योपवीतसामग्रीं विभूतिसदृशीं नृपः । चकार ब्राह्मणैः शिष्टैरन्वितः सचिवैस्तथा
एकादशे सुतास्याब्दे व्रतबन्धविधौ नृपः । विदधे विधिवत्कार्यं चित्ते चिन्तातुरः पुनः
वर्तमाने तथा कार्ये उपनीते कुमारके । आजगामाथ वरुणो विप्रवेषधरस्तदा
तं वीक्ष्य नृपतिस्तूर्णं प्रणम्य पुरतः स्थितः । कृताञ्जलिपुटः प्रीतः प्रत्युवाच सुरोत्तमम्
देव दत्तोपवीतोऽयं पशुयोग्योऽस्ति मे सुतः । प्रसादात्तव मे शोको गतो वन्ध्यापवादजः
कर्तुमिच्छाम्यहं यज्ञं प्रभूतवरदक्षिणम् । समये शृणु धर्मज्ञ सत्यमद्य ब्रवीम्यहम्
समावर्तनकर्मान्ते करिष्यामि तवेप्सितम् । ममोपरि दयां कृत्वा तावत्त्वं क्षन्तुमर्हसि
वरुण उवाच - प्रतारयसि मां राजन् पुत्रप्रेमाकुलो भृशम् । मुहुर्मुहुर्मतिं कृत्वा युक्तियुक्तां महामते
गच्छाम्यद्य महाराज वचसा तव नोदितः । आगमिष्यामि समये समावर्तनकर्मणि
इत्युक्त्वा प्रययौ पाशी तपापृच्छ्य विशांपते । राजा प्रमुदितः कार्यं चकार च यथोत्तरम्
आगतं वरुणं दृष्ट्वा कुमारोऽतिविचक्षणः । यज्ञस्य समयं ज्ञात्वा तदा चिन्तातुरोऽभवत्
शोकस्य कारणं राज्ञः पर्यपृच्छदितस्ततः । ज्ञात्वात्मवधमायुष्मन् गमनाय मतिं दधौ
निश्चयं परमं कृत्वा सम्मन्त्र्य सचिवात्मजैः । प्रययौ नगरात्तस्मान्निर्गत्य वनमप्यसौ
गते पुत्रे नृपः कामं दुःखितोऽभूद् भृशं तदा । प्रेरयामास दूतान्स्वांस्तस्यान्वेषणकाम्यया
एवं गतेऽथ कालेऽसौ वरुणस्तद्गृहं गतः । राजानं शोकसन्तप्तं कुरु यज्ञमिति ब्रुवन्
राजा प्रणम्य तं प्राह देवदेव करोमि किम् । न जाने क्वापि पुत्रो मे गतस्त्वद्य भयाकुलः
सर्वत्र गिरिदुर्गेषु मुनीनामाश्रमेषु च । अन्वेषितो मे दूतैस्तु न प्राप्तो यादसांपते
आज्ञापय महाराज किं करोमि गते सुते । न मे दोषोऽत्र सर्वज्ञ भाग्यदोषस्तु सर्वथा
व्यास उवाच - इति भूपवचः श्रुत्वा प्रचेताः कुपितो भृशम् । शशाप च नृपं क्रोधाद्वञ्चितस्तु पुनः पुनः
नृपतेऽहं त्वया यस्माद्वचसा च प्रवञ्चितः । तस्माज्जलोदरो व्याधिस्त्वां तुदत्वतिदारुणः
व्यास उवाच - इति शप्तो महीपालः कुपितेन प्रचेतसा । पीडितोऽभूत्तदा राजा व्याधिना दुःखदेन तु
एवं शप्त्वा नृपं पाशी जगाम निजमास्पदम् । राजा प्राप्य महाव्याधिं बभूवातीव दुःखितः
यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् व्यास उवाच - गतेऽथ वरुणे राजा रोगेणातीव पीडितः । दुःखाद्दुःखं परं प्राप्य व्यथितोऽभूद् भृशं तदा
कुमारोऽसौ वने श्रुत्वा पितरं रोगपीडितम् । गमनाय मतिं राजंश्चकार स्नेहयन्त्रितः
संवत्सरे व्यतीते तु पितरं द्रष्टुमादरात् । गन्तुकामं तु तं ज्ञात्वा शक्रस्तत्राजगाम ह
वासवस्तु तदा रूपं कृत्वा विप्रस्य सत्वरः । वारयामास युक्त्या वै कुमारं गन्तुमुद्यतम्