चूडाकरणकाले तु प्रवृत्ते परमोत्सवे । सम्प्राप्तस्तरसा पाशी भवनं नृपतेः पुनः
यदाङ्के सुतमादाय राज्ञी नृपतिसन्निधौ । उपविष्टा क्रियाकाले तदैव वरुणोऽभ्यगात्
कुरु कर्मेति विस्पष्टं वचनं कथयन्नृपम् । विप्ररूपधरः श्रीमान् प्रत्यक्ष इव पावकः
नृपतिस्त्वं समालोक्य बभूवातीव विह्वलः । नमश्चकार तं भीत्या कृताञ्जलिपुटः पुरः
विधिवत्पूजयित्वा तं राजोवाच विनीतवान् । स्वामिन् कार्यं करोम्यद्य मखस्य विधिपूर्वकम्
वक्तव्यमस्ति तत्रापि शृणुष्वैकमना विभो । युक्तं चेन्मन्यसे स्वामिंस्तद् ब्रवीमि तवाग्रतः
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । संस्कृताश्चान्यथा शूद्रा एवं वेदविदो विदुः
तस्मादयं सुतो मेऽद्य शुद्रवद्वर्तते शिशुः । उपनीतः क्रियार्हः स्यादिति वेदेषु निर्णयः
राज्ञामेकादशे वर्षे सदोपनयनं स्मृतम् । अष्टमे ब्राह्मणानां च वैश्यानां द्वादशे किल
दयसे यदि देवेश दीनं मां सेवकं तव । तदोपनीय कर्तास्मि पशुना यज्ञमुत्तमम्
लोकपालोऽसि धर्मज्ञ सर्वशास्त्रविशारद । मन्यसे मद्वचः सत्यं तद् गच्छ भवनं विभो
व्यास उवाच - इति तस्य वचः श्रुत्वा दयावान् यादसां पतिः । ओमित्युक्त्वा ययावाशु प्रसन्नवदनो नृपः
गतेऽथ वरुणो राजा बभूवातिमुदान्वितः । सुखं प्राप्य सुतस्यैवं राजा मुदमवाप ह
चकार राजकार्याणि हरिश्चन्द्रस्तदा नृपः । कालेन व्रजता पुत्रो बभूव दशवार्षिकः
तस्योपवीतसामग्रीं विभूतिसदृशीं नृपः । चकार ब्राह्मणैः शिष्टैरन्वितः सचिवैस्तथा
एकादशे सुतास्याब्दे व्रतबन्धविधौ नृपः । विदधे विधिवत्कार्यं चित्ते चिन्तातुरः पुनः
वर्तमाने तथा कार्ये उपनीते कुमारके । आजगामाथ वरुणो विप्रवेषधरस्तदा
तं वीक्ष्य नृपतिस्तूर्णं प्रणम्य पुरतः स्थितः । कृताञ्जलिपुटः प्रीतः प्रत्युवाच सुरोत्तमम्
देव दत्तोपवीतोऽयं पशुयोग्योऽस्ति मे सुतः । प्रसादात्तव मे शोको गतो वन्ध्यापवादजः
कर्तुमिच्छाम्यहं यज्ञं प्रभूतवरदक्षिणम् । समये शृणु धर्मज्ञ सत्यमद्य ब्रवीम्यहम्
समावर्तनकर्मान्ते करिष्यामि तवेप्सितम् । ममोपरि दयां कृत्वा तावत्त्वं क्षन्तुमर्हसि
वरुण उवाच - प्रतारयसि मां राजन् पुत्रप्रेमाकुलो भृशम् । मुहुर्मुहुर्मतिं कृत्वा युक्तियुक्तां महामते
गच्छाम्यद्य महाराज वचसा तव नोदितः । आगमिष्यामि समये समावर्तनकर्मणि
इत्युक्त्वा प्रययौ पाशी तपापृच्छ्य विशांपते । राजा प्रमुदितः कार्यं चकार च यथोत्तरम्
आगतं वरुणं दृष्ट्वा कुमारोऽतिविचक्षणः । यज्ञस्य समयं ज्ञात्वा तदा चिन्तातुरोऽभवत्
शोकस्य कारणं राज्ञः पर्यपृच्छदितस्ततः । ज्ञात्वात्मवधमायुष्मन् गमनाय मतिं दधौ
निश्चयं परमं कृत्वा सम्मन्त्र्य सचिवात्मजैः । प्रययौ नगरात्तस्मान्निर्गत्य वनमप्यसौ
गते पुत्रे नृपः कामं दुःखितोऽभूद् भृशं तदा । प्रेरयामास दूतान्स्वांस्तस्यान्वेषणकाम्यया
एवं गतेऽथ कालेऽसौ वरुणस्तद्गृहं गतः । राजानं शोकसन्तप्तं कुरु यज्ञमिति ब्रुवन्
राजा प्रणम्य तं प्राह देवदेव करोमि किम् । न जाने क्वापि पुत्रो मे गतस्त्वद्य भयाकुलः