व्यास उवाच - इत्युक्तस्तु प्रचेतास्तं प्रत्युवाच जनाधिपम् । स्वस्ति तेऽस्तु गमिष्यामि कुरु कार्याणि पार्थिव
आगमिष्यामि मासान्ते यष्टव्यं सर्वथा त्वया । कृत्वौत्थानिकमाचारं पुत्रस्य नृपसत्तम
इत्युक्त्वा श्लक्ष्णया वाचा राजानं यादसां पतिः । हरिश्चन्द्रो मुदं प्राप गते पाशिनि पार्थिवः
कोटिशः प्रददौ गास्ता घटोध्नीर्हेमपूरिताः । विप्रेभ्यो वेदविद्भ्यश्च तथैव तिलपर्वतान्
राजा पुत्रमुखं दृष्ट्वा सुखमाप महत्तरम् । नामास्य रोहितश्चेति चकार विधिपूर्वकम्
पूर्णे मासे ततः पाशी विप्रवेषेण भूपतेः । आजगाम गृहे सद्यो यजस्वेति ब्रुवन्मुहुः
वीक्ष्य तं नृपतिर्देवं निमग्नः शोकसागरे । प्रणिपत्य कृतातिथ्यं तमुवाच कृताञ्जलिः
दिष्ट्या देव त्वमायातो गृहं मे पावितं प्रभो । मखं करोमि वारीश विधिवद्वाञ्छितं तव
अदन्तो न पशुः श्लाघ्य इत्याहुर्वेदवादिनः । तस्माद्दन्तोद्भवे तेऽहं करिष्यामि महामखम्
व्यास उवाच - इत्युक्तस्तेन वरुणस्तथेत्युक्त्वा ययावथ । हरिश्चन्द्रो मुदं प्राप्य विजहार गृहाश्रमे
पुनर्दन्तोद्भवं ज्ञात्वा प्रचेता द्विजरूपवान् । आजगाम गृहे तस्य कुरु कार्यमिति ब्रुवन्
भूपालोऽपि जलाधीशं वीक्ष्य प्राप्तं द्विजाकृतिम् । प्रणम्यासनसम्मानैः पूजयामास सादरम्
स्तुत्वा प्रोवाच वचनं विनयानतकन्धरः । करोमि विधिवत्कामं मखं प्रबलदक्षिणम्
बालोऽप्यकृतचौलोऽयं गर्भकेशो न सम्मतः । यज्ञार्थे पशुकरणे मया वृद्धमुखाच्छ्रुतम्
तावत्क्षमस्व वारीश विधिं जानासि शाश्वतम् । कर्तव्यः सर्वथा यज्ञो मुण्डनान्ते शिशोः किल
तस्येति वचनं श्रुत्वा प्रचेताः प्राह तं पुनः । प्रतारयसि मां राजन् पुनः पुनरिदं ब्रुवन्
अपि ते सर्वसामग्री वर्तते नृपतेऽधुना । पुत्रस्नेहनिबद्धस्त्वं वञ्चयस्येव साम्प्रतम्
क्षौरकर्मविधिं कृत्वा न कर्तासि मखं यदि । तदाहं दारुणं शापं दास्ये कोपसमन्वितः
अद्य गच्छामि राजेन्द्र वचनात्तव मानद । न मृषा वचनं कार्यं त्वयेक्ष्वाकुकुलोद्भव
इत्याभाष्य ययावाशु प्रचेता नृपतेर्गृहात् । राजा परमसन्तुष्टो ननन्द भवने तदा
चूडाकरणकाले तु प्रवृत्ते परमोत्सवे । सम्प्राप्तस्तरसा पाशी भवनं नृपतेः पुनः
यदाङ्के सुतमादाय राज्ञी नृपतिसन्निधौ । उपविष्टा क्रियाकाले तदैव वरुणोऽभ्यगात्
कुरु कर्मेति विस्पष्टं वचनं कथयन्नृपम् । विप्ररूपधरः श्रीमान् प्रत्यक्ष इव पावकः
नृपतिस्त्वं समालोक्य बभूवातीव विह्वलः । नमश्चकार तं भीत्या कृताञ्जलिपुटः पुरः
विधिवत्पूजयित्वा तं राजोवाच विनीतवान् । स्वामिन् कार्यं करोम्यद्य मखस्य विधिपूर्वकम्
वक्तव्यमस्ति तत्रापि शृणुष्वैकमना विभो । युक्तं चेन्मन्यसे स्वामिंस्तद् ब्रवीमि तवाग्रतः
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । संस्कृताश्चान्यथा शूद्रा एवं वेदविदो विदुः
तस्मादयं सुतो मेऽद्य शुद्रवद्वर्तते शिशुः । उपनीतः क्रियार्हः स्यादिति वेदेषु निर्णयः
राज्ञामेकादशे वर्षे सदोपनयनं स्मृतम् । अष्टमे ब्राह्मणानां च वैश्यानां द्वादशे किल
दयसे यदि देवेश दीनं मां सेवकं तव । तदोपनीय कर्तास्मि पशुना यज्ञमुत्तमम्