हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् व्यास उवाच - प्रवृत्ते सदने तस्य राज्ञः पुत्रमहोत्सवे । आजगाम तदा पाशी विप्रवेषधरः शुभः
स्वस्तीत्युक्त्वा नृपं प्राह वरुणोऽहं निशामय । पुत्रो जातस्तवाधीश यजानेन नृपाशु माम्
सत्यं कुरु वचो राजन् यत्प्रोक्तं भवतः पुरा । वन्ध्यत्वं तु गतं तेऽद्य वरदानेन मे किल
इति तस्य वचः श्रुत्वा राजा चिन्तां चकार ह । कथं हन्मि सुतं जातं जलजेन समाननम्
लोकपालः समायातो विप्रवेषेण वीर्यवान् । न देवहेलनं कार्यं सर्वथा शुभमिच्छता
पुत्रस्नेहः सुदुश्छेद्यः सर्वथा प्राणिभिः सदा । किं करोमि कथं मे स्यात्सुखं सन्ततिसम्भवम्
धैर्यमालम्ब्य भूपालस्तं नत्वा प्रतिपूज्य च । उवाच वचनं श्लक्ष्णं युक्तं विनयपूर्वकम्
राजोवाच - देवदेव तवानुज्ञां करोमि करुणानिधे । वेदोक्तेन विधानेन मखं च बहुदक्षिणम्
पुत्रे जाते दशाहेन कर्मयोग्यो भवेत्पिता । मासेन शुध्येज्जननी दम्पती तत्र कारणम्
सर्वज्ञोऽसि प्रचेतस्त्वं धर्मं जानासि शाश्वतम् । कृपां कुरु त्वं वारीश क्षमस्व परमेश्वर
व्यास उवाच - इत्युक्तस्तु प्रचेतास्तं प्रत्युवाच जनाधिपम् । स्वस्ति तेऽस्तु गमिष्यामि कुरु कार्याणि पार्थिव
आगमिष्यामि मासान्ते यष्टव्यं सर्वथा त्वया । कृत्वौत्थानिकमाचारं पुत्रस्य नृपसत्तम
इत्युक्त्वा श्लक्ष्णया वाचा राजानं यादसां पतिः । हरिश्चन्द्रो मुदं प्राप गते पाशिनि पार्थिवः
कोटिशः प्रददौ गास्ता घटोध्नीर्हेमपूरिताः । विप्रेभ्यो वेदविद्भ्यश्च तथैव तिलपर्वतान्
राजा पुत्रमुखं दृष्ट्वा सुखमाप महत्तरम् । नामास्य रोहितश्चेति चकार विधिपूर्वकम्
पूर्णे मासे ततः पाशी विप्रवेषेण भूपतेः । आजगाम गृहे सद्यो यजस्वेति ब्रुवन्मुहुः
वीक्ष्य तं नृपतिर्देवं निमग्नः शोकसागरे । प्रणिपत्य कृतातिथ्यं तमुवाच कृताञ्जलिः
दिष्ट्या देव त्वमायातो गृहं मे पावितं प्रभो । मखं करोमि वारीश विधिवद्वाञ्छितं तव
अदन्तो न पशुः श्लाघ्य इत्याहुर्वेदवादिनः । तस्माद्दन्तोद्भवे तेऽहं करिष्यामि महामखम्
व्यास उवाच - इत्युक्तस्तेन वरुणस्तथेत्युक्त्वा ययावथ । हरिश्चन्द्रो मुदं प्राप्य विजहार गृहाश्रमे
पुनर्दन्तोद्भवं ज्ञात्वा प्रचेता द्विजरूपवान् । आजगाम गृहे तस्य कुरु कार्यमिति ब्रुवन्
भूपालोऽपि जलाधीशं वीक्ष्य प्राप्तं द्विजाकृतिम् । प्रणम्यासनसम्मानैः पूजयामास सादरम्
स्तुत्वा प्रोवाच वचनं विनयानतकन्धरः । करोमि विधिवत्कामं मखं प्रबलदक्षिणम्
बालोऽप्यकृतचौलोऽयं गर्भकेशो न सम्मतः । यज्ञार्थे पशुकरणे मया वृद्धमुखाच्छ्रुतम्
तावत्क्षमस्व वारीश विधिं जानासि शाश्वतम् । कर्तव्यः सर्वथा यज्ञो मुण्डनान्ते शिशोः किल
तस्येति वचनं श्रुत्वा प्रचेताः प्राह तं पुनः । प्रतारयसि मां राजन् पुनः पुनरिदं ब्रुवन्
अपि ते सर्वसामग्री वर्तते नृपतेऽधुना । पुत्रस्नेहनिबद्धस्त्वं वञ्चयस्येव साम्प्रतम्
क्षौरकर्मविधिं कृत्वा न कर्तासि मखं यदि । तदाहं दारुणं शापं दास्ये कोपसमन्वितः
अद्य गच्छामि राजेन्द्र वचनात्तव मानद । न मृषा वचनं कार्यं त्वयेक्ष्वाकुकुलोद्भव
इत्याभाष्य ययावाशु प्रचेता नृपतेर्गृहात् । राजा परमसन्तुष्टो ननन्द भवने तदा