अयोध्याधिपतिः क्रीडां चकार सह भार्यया । रूपयौवनचातुर्ययुक्तया प्रीतिसंयुतः
अतीतकाले युवती न सा गर्भवती ह्यभूत् । तदा चिन्तातुरो राजा बभूवातीव दुःखितः
वसिष्टस्याश्रमं गत्वा प्रणम्य शिरसा मुनिम् । अनपत्यत्वजां चिन्तां गुरवे समवेदयत्
दैवज्ञोऽसि भवान्कामं मन्त्रविद्याविशारदः । उपायं कुरु धर्मज्ञ सन्ततेर्मम मानद
अपुत्रस्य गतिर्नास्ति जानासि द्विजसत्तम । कस्मादुपेक्षसे जानन् दुःखं मम च शक्तिमान्
कलविंकास्त्विमे धन्या ये शिशुं लालयन्ति हि । मन्दभाग्योऽहमनिशं चिन्तयामि दिवानिशम्
व्यास उवाच - इत्याकर्ण्य मुनिस्तस्य निर्वेदमिश्रितं वचः । सञ्चिन्त्य मनसा सम्यक् तमुवाच विधेः सुतः
वसिष्ठ उवाच - सत्यं ब्रूहि महाराज संसारेऽस्मिन्न विद्यते । अनपत्यत्वजं दुःखं यत्तथा दुःखमद्भुतम्
तस्मात्त्वमपि राजेन्द्र वरुणं यादसां पतिम् । समाराधय यत्नेन स ते कार्यं करिष्यति
वरुणादधिको नास्ति देवः सन्तानदायकः । तमाराधय धर्मिष्ठ कार्यसिद्धिर्भविष्यति
दैवं पुरुषकारश्च माननीयाविमौ नृभिः । उद्यमेन विना कार्यसिद्धिः सञ्जायते कथम्
न्यायतस्तु नरैः कार्य उद्यमस्तत्त्वदर्शिभिः । कृते तस्मिन्भवेत्सिद्धिर्नान्यथा नृपसत्तम
इति तस्य वचः श्रुत्वा गुरोरमिततेजसः । प्रणम्य निर्ययौ राजा तपसे कृतनिश्चयः
गङ्गातीरे शुभे स्थाने कृतपद्मासनो नृपः । ध्यायन्पाशधरं चित्ते चचार दुश्चरं तपः
एवं तपस्यतस्तस्य प्रचेता दृष्टिगोचरः । कृपयाभून्महाराज प्रसन्नमुखपङ्कजः
हरिश्चन्द्रमुवाचेदं वचनं यादसां पतिः । वरं वरय धर्मज्ञ तुष्टोऽस्मि तपसा तव
राजोवाच - अनपत्योऽस्मि देवेश पुत्रं देहि सुखप्रदम् । ऋणत्रयापहारार्थमुद्यमोऽयं मया कृतः
नृपस्य वचनं श्रुत्वा प्रगल्भं दुःखितस्य च । स्मितपूर्वं ततः पाशी तमाह पुराः स्थितम्
वरुण उवाच - पुत्रो यदि भवेद्राजन् गुणी मनसि वाञ्छितः । सिद्धे कार्ये ततः पश्चात्किं करिष्यसि मे प्रियम्
यदि त्वं तेन पुत्रेण मां यजेथा विशङ्कितः । पशुबन्धेन तेनैव ददामि नृपते वरम्
राजोवाच - देव मे मास्तु वन्ध्यत्वं यजिष्येऽहं जलाधिप । पशुं कृत्वा सुतं पुत्रं सत्यमेतद्ब्रवीमि ते
वन्ध्यत्वे परमं दुःखमसह्यं भुवि मानद । शोकाग्निशमनं नॄणां तस्माद्देहि सुतं शुभम्
वरुण उवाच - भविष्यति सुतः कामं राजन् गच्छ गृहाय वै । सत्यं तद्वचनं कार्यं यद्ब्रवीषि ममाग्रतः
व्यास उवाच - इत्युक्तो वरुणेनासौ हरिश्चन्द्रो गृहं ययौ । भार्यायै कथयामास वृत्तान्तं वरदानजम्
तस्य भार्याशतं पूर्णं बभूवातिमनोहरम् । पट्टराज्ञी शुभा शैव्या धर्मपत्नी पतिव्रता
काले गतेऽथ सा गर्भं दधार वरवर्णिनी । बभूव मुदितो राजा श्रुत्वा दोहदचेष्टितम्
कारयामास विधिवत्संस्कारान्नृपतिस्तदा । मासेऽथ दशमे पूर्णे सुषुवे सा शुभे दिने
ताराग्रहबलोपेते पुत्रं देवसुतोपमम् । पुत्रे जाते नृपः स्नात्वा ब्राह्मणैः परिवेष्टितः
चकार जातकर्मादौ ददौ दानानि भूरिशः । राज्ञश्चातिप्रमोदोऽभूत्पुत्रजन्मसमुद्भवः
बभूव परमोदारो धनधान्यसमन्वितः । विशेषदानसंयुक्तो गीतवादित्रसंकुलः