अनेनैव शरीरेण शक्रलोकं सुखालयम् । कोपं कृत्वा वसिष्ठोऽसौ मामाहेति सुदुर्मते
मानुषेण हि देहेन स्वर्गवासः कुतस्तव । पुनर्मयोक्तो भगवान्स्वर्गलुब्धेन चानघ
अन्यं पुरोहितं कृत्वा यक्ष्येऽहं यज्ञमुत्तमम् । तदा तेनैव शप्तोऽहं चाण्डालो भव पामर
इत्येतत्कथितं सर्वं कारणं शापसम्भवम् । मम दुःखविनाशाय समर्थोऽसि मुनीश्वर
इत्युक्त्वा विररमासौ राजा दुःखरुजार्दितः । कौशिकोऽपि निराकर्तुं शापं तस्य व्यचिन्तयत्
वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् व्यास उवाच - विचिन्त्य मनसा कृत्यं गाधिसूनुर्महातपाः । प्रकल्प्य यज्ञसम्भारान्मुनीनामन्त्रयत्तदा
मुनयस्तं मखं ज्ञात्वा विश्वामित्रनिमन्त्रिताः । नागताः सर्व एवैते वसिष्ठेन निवारिताः
गाधिसूनुस्तदाज्ञाय विमनाश्चातिदुःखितः । आजगामाश्रमं तत्र यत्रासौ नृपतिः स्थितः
तमाह कौशिकः क्रुद्धो वसिष्ठेन निवारिताः । नागताः ब्राह्मणाः सर्वे यज्ञार्थं नृपसत्तम
पश्य मे तपसः सिद्धिं यथा त्वां सुरसद्मनि । प्रापयामि महाराज वाञ्छितं ते करोम्यहम्
इत्युक्त्वा जलमादाय हस्तेन मुनिसत्तमः । ददौ पुण्यं तदा तस्मै गायत्रीजपसम्भवम्
दत्त्वाथ सुकृतं राज्ञे तमुवाच महीपतिम् । यथेष्टं गच्छ राजर्षे त्रिविष्टपमतन्द्रितः
पुण्येन मम राजेन्द्र बहुकालार्जितेन च । याहि शक्रपुरीं प्रीतः स्वस्ति तेऽस्तु सुरालये
व्यास उवाच - इत्युक्तवति विप्रेन्द्रे त्रिशङ्कुस्तरसा ततः । उत्पपात यथा पक्षी वेगवांस्तपसो बलात्
उत्पत्य गगने राजा गतः शक्रपुरीं यदा । दृष्टो देवगणैस्तत्र क्रूरश्चाण्डालवेषभाक्
कथितोऽसौ सुरेन्द्राय कोऽयमायाति सत्वरः । गगने देववद्वा यो दुर्दर्शः श्वपचाकृतिः
सहसोत्थाय शक्रस्तमपश्यत्पुरुषाधमम् । ज्ञात्वा त्रिशङ्कुमपि स निर्भर्त्स्य तरसाब्रवीत्
श्वपच क्व समायासि देवलोके जुगुप्सितः । याहि शीघ्रं ततो भूमौ नात्र स्थातुं त्वयोचितम्
इत्युक्तः स्खलितः स्वर्गाच्छक्रेणामित्रकर्शन । निपपात तदा राजा क्षीणपुण्यो यथामरः
पुनश्चुक्रोश भूपालो विश्वामित्रेति चासकृत् । पतामि रक्ष दुःखार्तं स्वर्गाच्चलितमाशुगम्
तस्य तत्क्रन्दितं राजन् पतितः कौशिको मुनिः । श्रुत्वा तिष्ठेति होवाच पतन्तं वीक्ष्य भूपतिम्
वचनात्तस्य तत्रैव स्थितोऽसौ गगने नृपः । मुनेस्तपःप्रभावेण चलितोऽपि सुरालयात्
विश्वामित्रोऽप्यपः स्पृष्ट्वा चकारेष्टिं सुविस्तराम् । विधातुं नूतनां सृष्टिं स्वर्गलोकं द्वितीयकम्
तस्योद्यमं तथा ज्ञात्वा त्वरितस्तु शचीपतिः । तत्राजगाम सहसा मुनिं प्रति तु गाधिजम्
किं ब्रह्मन् क्रियते साधो कस्मात्कोपसमाकुलः । अलं सृष्ट्या मुनिश्रेष्ठ ब्रूहि किं करवाणि ते
विश्वामित्र उवाच - स्वं निवासं महीपालं च्युतं त्वद्भुवनाद् विभो । नयस्व प्रीतियोगेन त्रिशङ्कुं चातिदुःखितम्
व्यास उवाच - तस्य तं निश्चयं ज्ञात्वा तुराषाडतिशङ्कितः । तपोबलं विदित्वोग्रमोमित्योवाच वासवः
दिव्यदेहं नृपं कृत्वा विमानवरसंस्थितम् । आपृच्छ्य कौशिकं शक्रोऽगमन्निजपुरीं तदा
गते शक्रे तु वै स्वर्गं त्रिशङ्कुसहिते ततः । विश्वामित्रः सुखं प्राप्य स्वाश्रमे सुस्थिरोऽभवत्
हरिश्चन्द्रोऽथ तच्छ्रुत्वा विश्वामित्रोपकारकम् । पितुः स्वर्गमनं कामं मुदितो राज्यमन्वशात्