येन केनाप्युपायेन भवता नृपतेः किल । तस्माद्रक्षा प्रकर्तव्या तपसा प्रबलेन ह
व्यास उवाच - इति भार्यावचः श्रुत्वा कौशिको मुनिसत्तमः । तामाह कामिनीं दीनां सान्त्वपूर्वमरिन्दम
विश्वामित्र उवाच - मोचयिष्यामि तं शापान्नृपं कमललोचने । उपकारः कृतो येन कान्ताराद्रक्षितासि वै
विद्यातपोबलेनाहं करिष्ये दुःखसंक्षयम् । इत्याश्वास्य प्रियां तत्र कौशिकः परमार्थवित्
चिन्तयामास नृपतेः कथं स्याद्दुःखनाशनम् । संविमृश्य मुनिस्तत्र जगाम यत्र पार्थिवः
त्रिशङ्कुः पक्वणे दीनः संस्थितः श्वपचाकृतिः । आगच्छन्तं मुनिं दृष्ट्वा विस्मितोऽसौ नराधिपः
दण्डवन्निपपातोर्व्यां पादयोस्तरसा मुनेः । गृहीत्वा तं करे भूपं पतितं कौशिकस्तदा
उत्थाप्योवाच वचनं सान्त्वपूर्वं द्विजोत्तमः । मत्कृते त्वं महीपाल शप्तोऽसि मुनिना यतः
वाञ्छितं ते करिष्यामि ब्रूहि किं करवाण्यहम् । राजोवाच - मया सम्प्रार्थितः पूर्वं वसिष्ठो मखहेतवे
मां याजय मुनिश्रेष्ठ करोमि मखमुत्तमम् । यथेष्टं कुरु विप्रेन्द्र यथा स्वर्गं व्रजाम्यहम्
अनेनैव शरीरेण शक्रलोकं सुखालयम् । कोपं कृत्वा वसिष्ठोऽसौ मामाहेति सुदुर्मते
मानुषेण हि देहेन स्वर्गवासः कुतस्तव । पुनर्मयोक्तो भगवान्स्वर्गलुब्धेन चानघ
अन्यं पुरोहितं कृत्वा यक्ष्येऽहं यज्ञमुत्तमम् । तदा तेनैव शप्तोऽहं चाण्डालो भव पामर
इत्येतत्कथितं सर्वं कारणं शापसम्भवम् । मम दुःखविनाशाय समर्थोऽसि मुनीश्वर
इत्युक्त्वा विररमासौ राजा दुःखरुजार्दितः । कौशिकोऽपि निराकर्तुं शापं तस्य व्यचिन्तयत्
वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् व्यास उवाच - विचिन्त्य मनसा कृत्यं गाधिसूनुर्महातपाः । प्रकल्प्य यज्ञसम्भारान्मुनीनामन्त्रयत्तदा
मुनयस्तं मखं ज्ञात्वा विश्वामित्रनिमन्त्रिताः । नागताः सर्व एवैते वसिष्ठेन निवारिताः
गाधिसूनुस्तदाज्ञाय विमनाश्चातिदुःखितः । आजगामाश्रमं तत्र यत्रासौ नृपतिः स्थितः
तमाह कौशिकः क्रुद्धो वसिष्ठेन निवारिताः । नागताः ब्राह्मणाः सर्वे यज्ञार्थं नृपसत्तम
पश्य मे तपसः सिद्धिं यथा त्वां सुरसद्मनि । प्रापयामि महाराज वाञ्छितं ते करोम्यहम्
इत्युक्त्वा जलमादाय हस्तेन मुनिसत्तमः । ददौ पुण्यं तदा तस्मै गायत्रीजपसम्भवम्
दत्त्वाथ सुकृतं राज्ञे तमुवाच महीपतिम् । यथेष्टं गच्छ राजर्षे त्रिविष्टपमतन्द्रितः
पुण्येन मम राजेन्द्र बहुकालार्जितेन च । याहि शक्रपुरीं प्रीतः स्वस्ति तेऽस्तु सुरालये
व्यास उवाच - इत्युक्तवति विप्रेन्द्रे त्रिशङ्कुस्तरसा ततः । उत्पपात यथा पक्षी वेगवांस्तपसो बलात्
उत्पत्य गगने राजा गतः शक्रपुरीं यदा । दृष्टो देवगणैस्तत्र क्रूरश्चाण्डालवेषभाक्
कथितोऽसौ सुरेन्द्राय कोऽयमायाति सत्वरः । गगने देववद्वा यो दुर्दर्शः श्वपचाकृतिः
सहसोत्थाय शक्रस्तमपश्यत्पुरुषाधमम् । ज्ञात्वा त्रिशङ्कुमपि स निर्भर्त्स्य तरसाब्रवीत्
श्वपच क्व समायासि देवलोके जुगुप्सितः । याहि शीघ्रं ततो भूमौ नात्र स्थातुं त्वयोचितम्
इत्युक्तः स्खलितः स्वर्गाच्छक्रेणामित्रकर्शन । निपपात तदा राजा क्षीणपुण्यो यथामरः
पुनश्चुक्रोश भूपालो विश्वामित्रेति चासकृत् । पतामि रक्ष दुःखार्तं स्वर्गाच्चलितमाशुगम्