दुर्लभं खलु मानुष्यं तत्रापि च द्विजन्मता । द्विजत्वे ब्राह्मणत्वं च दुर्लभं वेत्सि किं न हि
दुष्टाहारो न कर्तव्यः सर्वथा लोकमिच्छता । अग्राह्या मनुना प्रोक्ताः कर्मणा सप्त चान्त्यजाः
त्याज्योऽहं कर्मणा विप्र श्वपचो नात्र संशयः । निवारयामि भक्ष्यात्त्वां न लोभेनाञ्जसा द्विज
वर्णसङ्करदोषोऽयं मा यातु त्वां द्विजोत्तम । विश्वामित्र उवाच सत्यं वदसि धर्मज्ञ मतिस्ते विशदान्त्यज
तथाप्यापदि धर्मस्य सूक्ष्ममार्गं ब्रवीम्यहम् । देहस्य रक्षणं कार्यं सर्वथा यदि मानद
पापस्यान्ते पुनः कार्यं प्रायश्चित्तं विशुद्धये । दुर्गतिस्तु भवेत्पापादनापदि न चापदि
मरणात्क्षुधितस्याथ नरको नात्र संशयः । तस्मात्क्षुधापहरणं कर्तव्यं शुभमिच्छता
तेनाहं चौर्यधर्मेण देहं रक्षेऽप्यथान्त्यज । अवर्षणे च चौर्येण यत्पापं कथितं बुधैः
यो न वर्षति पर्जन्यस्तत्तु तस्मै भविष्यति । इत्युक्ते वचने कान्ते पर्जन्यः सहसापतत्
गगनाद्धस्तिहस्ताभिर्धाराभिरभिकाङ्क्षितः । मुदितोऽहं घनं वीक्ष्य वर्षन्तं विद्युता सह
तदाहं तद्गृहं त्यक्त्वा निःसृतः परया मुदा । कथय त्वं वरारोहे कालो नीतस्त्वया कथम्
कान्तारे परमः क्रूरः क्षयकृत्प्राणिनामिह । व्यास उवाच - इति तस्य वचः श्रुत्वा पतिमाह प्रियंवदा
यथा शृणु मया नीतः कालः परमदारुणः । गते त्वयि मुनिश्रेष्ठ दुर्भिक्षं समुपागतम्
अन्नार्थं पुत्रकाः सर्वे बभूवुश्चातिदुःखिताः । क्षुधितान्बालकान्वीक्ष्य नीवारार्थं वने वने
भ्रान्ताहं चिन्तयाऽऽविष्टा किञ्चित्प्राप्तं फलं तदा । एवं च कतिचिन्मासा नीवारेणातिवाहिताः
तदभावे मया कान्त चिन्तितं मनसा पुनः । न भिक्षा किल दुर्भिक्षे नीवारा नापि कानने
न वृक्षेषु फलान्यासुर्न मूलानि धरातले । क्षुधया पीडिता बाला रुदन्ति भृशमातुराः
किं करोमि क्व गच्छामि किं ब्रवीमि क्षुधार्तितान् । एवं विचिन्त्य मनसा निश्चयस्तु मया कृतः
पुत्रमेकं ददाम्यद्य कस्मैचिद्धनिने किल । गृहीत्वा तस्य मौल्यं तु तेन द्रव्येण बालकान्
पालयेऽहं क्षुधार्तांस्तु नान्योपायोऽस्ति पालने । इति सञ्चिन्त्य मनसा पुत्रोऽयं प्रहितो मया
विक्रयार्थं महाभाग क्रन्दमानो भृशातुरः । क्रन्दमानं गृहीत्वैनं निर्गताहं गतत्रपा
तदा सत्यव्रतो मार्गे मामुद्वीक्ष्य भृशातुराम् । पप्रच्छ स च राजर्षिः कस्माद्रोदिति बालकः
तदाहं तमुवाचेदं वचनं मुनिसत्तम । विक्रयार्थं नीयतेऽसौ बालकोऽद्य मया नृप
श्रुत्वा मे वचनं राजा दयार्द्रहृदयस्ततः । मामुवाच गृहं याहि गृहीत्वैनं कुमारकम्
भोजनार्थे कुमाराणामामिषं विहितं तव । प्रापयिष्याम्यहं नित्यं यावन्मुनिसमागमः
अहन्यहनि भूपालो वृक्षेऽस्मिन्मृगसूकरान् । विन्यस्य याति हत्वासौ प्रत्यहं दययान्वितः
तेनैव बालकाः कान्त पालिता वृजिनार्णवात् । वसिष्ठेनाथ शप्ताऽसौ भूपतिर्मम कारणात्
कस्मिंश्चिद्दिवसे मांसं न प्राप्तं तेन कानने । हता दोग्ध्री वसिष्ठस्य तेनासौ कुपितो मुनिः
त्रिशङ्कुरिति भूपस्य कृतं नाम महात्मना । कुपितेन वधाद्धेतोश्चाण्डालश्च कृतो नृपः
तेनाहं दुःखिता जाता तस्य दुःखेन कौशिक । श्वपचत्वमसौ प्राप्तो मत्कृते नृपनन्दनः