राजन् पुत्रेण ते नूनं प्रेषितान्समुपागतान् । अवेहि सचिवांस्त्वं नो हरिश्चन्द्राज्ञया स्थितान्
युवराजसुतः प्राह यत्तच्छृणु नराधिप । आनयध्वं नृपं यूयं सम्मान्य पितरं मम
तस्माद्राजन् समागच्छ राज्यं प्रति गतव्यथः । सेवां सर्वे करिष्यन्ति सचिवाश्च प्रजास्तथा
गुरुं प्रसादयिष्यामः स यथा तु दयेत वै । प्रसन्नोऽसौ महातेजा दुःखस्यान्तं करिष्यति
इति पुत्रेण ते राजन् कथितं बहुधा किल । तस्माद् गमनमेवाशु रोचतां निजसद्मनि
व्यास उवाच - इति तेषां नृपः श्रुत्वा भाषितं श्वपचाकृतिः । स्वगृहं गमनायासौ न मतिं कृतवानतः
तानुवाच तदा वाक्यं व्रजन्तु सचिवाः पुरम् । गत्वा पुरं महाभागा ब्रुवन्तु वचनाच्च मे
नागमिष्याम्यहं पुत्र कुरु राज्यमतन्द्रितः । मानयन्ब्राह्मणान्देवान्यजन्यज्ञैरनेकशः
नाहं श्वपचवेषेण गर्हितेन महात्मभिः । आगमिष्याम्ययोध्यायां सर्वे गच्छन्तु मा चिरम्
पुत्रं सिंहासने स्थाप्य हरिश्चन्द्रं महाबलम् । कुर्वन्तु राज्यकर्माणि यूयं तत्र ममाज्ञया
इत्यादिष्टास्ततस्ते तु रुरुदुश्चातुरा भृशम् । सचिवा निर्ययुस्तूर्णं नत्वा तं च वनाश्रमात्
अयोध्यायामुपागत्य पुण्येऽह्नि विधिपूर्वकम् । अभिषेकं तदा चक्रुर्हरिश्चन्द्रस्य मूर्ध्नि ते
अभिषिक्तस्तु तेजस्वी सचिवैश्च नृपाज्ञया । राज्यं चकार धर्मिष्ठः पितरं चिन्तयन्भृशम्
त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् राजोवाच - हरिश्चन्द्रः कृतो राजा सचिवैर्नृपशासनात् । त्रिशङ्कुस्तु कथं मुक्तस्तस्माच्चाण्डालदेहतः
मृतो वा वनमध्ये तु गङ्गातीरे परिप्लुतः । गुरुणा वा कृपां कृत्वा शापात्तस्माद्विमोचितः
एतद् वृत्तान्तमखिलं कथयस्व ममाग्रतः । चरितं तस्य नृपतेः श्रोतुकामोऽस्मि सर्वथा
व्यास उवाच - अभिषिक्तं सुतं कृत्वा राजा सन्तुष्टमानसः । कालातिक्रमणं तत्र चकार चिन्तयञ्छिवाम्
एवं गच्छति काले तु तपस्तप्त्वा समाहितः । द्रष्टुं दारान्सुतादींश्च तदागात्कौशिको मुनिः
आगत्य स्वजनं दृष्ट्वा सुस्थितं मुदमाप्तवान् । भार्यां पप्रच्छ मेधावी स्थितामग्रे सपर्यया
दुर्भिक्षे तु कथं कालस्तया नीतः सुलोचने । अन्नं विना त्विमे बालाः पालिता केन तद्वद
अहं तपसि सन्नद्धो नागतः शृणु सुन्दरि । किं कृतं तु त्वया कान्ते विना द्रव्येण शोभने
मया चिन्ता कृता तत्र श्रुत्वा दुर्भिक्षमद्भुतम् । नागतोऽहं विचार्यैवं किं करिष्यामि निर्धनः
अहमप्यति वामोरु पीडितः क्षुधया वने । प्रविष्टश्चौरभावेन कुत्रचिच्छ्वपचालये
श्वपचं निद्रितं दृष्ट्वा क्षुधया पीडितो भृशम् । महानसं परिज्ञाय भक्ष्यार्थं समुपस्थितः
यदा भाण्डं समुद्घाट्य पक्वं श्वतनुजामिषम् । गृह्णामि भक्षणार्थाय तदा दृष्टस्तु तेन वै
पृष्टः कस्त्वं कथं प्राप्तो गृहे मे निशि सादरम् । ब्रूहि कार्यं किमर्थं त्वमुद्घाटयसि भाण्डकम्
इत्युक्तः श्वपचेनाहं क्षुधया पीडितो भृशम् । तमवोचं सुकेशान्ते कामं गद्गदया गिरा
ब्राह्मणोऽहं महाभाग तापसः क्षुधयार्दितः । चौरभावमनुप्राप्तो भक्ष्यं पश्यामि भाण्डके
चौरभावेन सम्प्राप्तोऽस्म्यतिथिस्ते महामते । क्षुधितोऽस्मि ददस्वाज्ञां मांसमद्मि सुसंस्कृतम्
विश्वामित्र उवाच - श्वपचस्तु वचः श्रुत्वा मामुवाच सुनिश्चितम् । भक्षं मा कुरु वर्णाग्र्य जानीहि श्वपचालयम्