वाञ्छत्यहो हरिरशोक इवातिकामं पादाहतिं प्रमुदितः पुरुषः पुराणः । तां त्वं करोषि रुषिता प्रणतं च पादे दृष्ट्वा पतिं सकलदेवनुतं स्मरार्तम्
वक्षःस्थले वससि देवि सदैव तस्य पर्यङ्कवत्सुचरिते विपुलेऽतिशान्ते । सौदामिनीव सुघने सुविभूषिते च किं ते न वाहनमसौ जगदीश्वरोऽपि
त्वं चेज्जहासि मधुसूदनमम्ब कोपा- न्नैवार्चितोऽपि स भवेत्किल शक्तिहीनः । प्रत्यक्षमेव पुरुषं स्वजनास्त्वजन्ति शान्तं श्रियोज्झितमतीव गुणैर्वियुक्तम्
ब्रह्मादयः सुरगणा न तु किं युवत्यो ये त्वत्पदाम्बुजमहर्निशमाश्रयन्ति । मन्ये त्वयैव विहिताः खलु ते पुमांसः किं वर्णयामि तव शक्तिमनन्तवीर्ये
त्वं नापुमान्न च पुमानिति मे विकल्पो याकासि देवि सगुणा ननु निर्गुणा वा । तां त्वां नमामि सततं किल भावयुक्तो वाञ्छामि भक्तिमचलां त्वयि मातरं तु
सूत उवाच इति स्तुत्वा महीपालो जगाम शरणं तदा । परितुष्टा ददौ देवी तत्र सायुज्यमात्मनि
सुद्युम्नस्तु ततः प्राप पदं परमकं स्थिरम् । तस्या देव्याः प्रसादेन मुनीनामपि दुर्लभम्
पुरूरवस उर्वश्याश्च चरित्रवर्णनम् सूत उवाच सुद्युने तु दिवं याते राज्यं चक्रे पुरूरवाः । सगुणश्च सुरूपश्च प्रजारञ्जनतत्परः
प्रतिष्ठाने पुरे रम्ये राज्यं सर्वनमस्कृतम् । चकार सर्वधर्मज्ञः प्रजारक्षणतत्परः
मन्त्रः सुगुप्तस्तस्यासीत्परत्राभिज्ञता तथा । सदैवोत्साहशक्तिश्च प्रभुशक्तिस्तथोत्तमा
सामदानादयः सर्वे वशगास्तस्य भूपतेः । वर्णाश्रमान्स्वधर्मस्थान्कुर्वन् राज्यं शशास ह
यज्ञांश्च विविधांश्चक्रे स राजा बहुदक्षिणान् । दानानि च पवित्राणि ददावथ नराधिपः
तस्य रूपगुणौदार्यशीलद्रविणविक्रमान् । श्रुत्वोर्वशी वशीभूता चकमे तं नराधिपम्
ब्रह्मशापाभितप्ता सा मानुषं लोकमास्थिता । गुणिनं तं नृपं मत्वा वरयामास मानिनी
समयं चेदृशं कृत्वा स्थिता तत्र वराङ्गना । एतावुरणकौ राजन्न्यस्तौ रक्षस्व मानद
घृतं मे भक्षणं नित्यं नान्यत्किञ्चिन्नृपाशनम् । नेक्षे त्वां च महाराज नग्नमन्यत्र मैथुनात्
भाषाबन्धस्त्वयं राजन् यदि भग्नो भविष्यति । तदा त्यक्त्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम्
अङ्गीकृतं च तद्राज्ञा कामिन्या भाषितं तु यत् । स्थिता भाषणबन्धेन शापानुगहकाम्यया
रेमे तदा स भूपालो लीनो वर्षगणान्बहून् । धर्मकर्मादिकं त्यक्त्वा चोर्वश्या मदमोहितः
एकचित्तस्तु सञ्जातस्तन्मनस्को महीपतिः । न शशाक तया हीनः क्षणमप्यतिमोहितः
एवं वर्षगणान्ते तु स्वर्गस्थः पाकशासनः । उर्वशीं नागतां दृष्ट्वा गन्धर्वानाह देवराट्
उर्वशीमानयध्वं भो गन्धर्वाः सर्व एव हि । हृत्वोरणौ गृहात्तस्य भूपतेः समये किल
उर्वशीरहितं स्थानं मदीयं नातिशोभते । येन केनाप्युपायेन तामानयत कामिनीम्
इत्युक्तास्तेऽथ गन्धर्वा विश्वावसुपुरोगमाः । ततो गत्वा महागाढे तमसि प्रत्युपस्थिते
जह्रुस्तावुरणौ देवा रममाणं विलोक्य तम् । चक्रन्दतुस्तदा तौ तु ह्रियमाणौ विहायसा
उर्वशी तदुपाकर्ण्य क्रन्दितं सुतयोरिव । कुपितोवाच राजानं समयोऽयं कृतो मया
नष्टाहं तव विश्वासाद्धृतौ चोरैर्ममोरणौ । राजन्पुत्रसमावेतौ त्वं किं शेषे स्त्रिया समः
हतास्म्यहं कुनाथेन नपुंसा वीरमानिना । उरणौ मे गतौ चाद्य सदा प्राणप्रियौ मम
एवं विलप्यमानां तां दृष्ट्वा राजा विमोहितः । नग्न एव ययौ तूर्णं पृष्ठतः पृथिवीपतिः
विद्युत्प्रकाशिता तत्र गन्धर्वैर्नृपवेश्मनि । नग्नभूतस्तया दृष्टो भूपतिर्गन्तुकामया