याजय त्वं मखेनाशु तादृशेन महामुने । यथानेन शरीरेण वसे लोकं त्रिविष्टपम्
समर्थोऽसि मुनिश्रेष्ठ कुरु कार्यं ममाधुना । प्रापयाशु मखं कृत्वा देवलोकं दुरासदम्
वसिष्ठ उवाच - राजन् मानुषदेहेन स्वर्गे वासः सुदुर्लभः । मृतस्य हि ध्रुवं स्वर्गः कथितः पुण्यकर्मणा
तस्माद् बिभेमि सर्वज्ञ दुर्लभाच्च मनोरथात् । अप्सरोभिश्च संवासो जीवमानस्य दुर्लभः
कुरु यज्ञान्महाभाग मृतः स्वर्गमवाप्स्यसि । व्यास उवाच - इत्याकर्ण्य वचस्तस्य राजा परमदुर्मनाः
उवाच वचनं भूयो वसिष्ठं पूर्वरोषितम् । न त्वं याजयसे ब्रह्मन् गर्वावेशाच्च मां यदि
अन्यं पुरोहितं कृत्वा यक्ष्येऽहं किल साम्प्रतम् । तच्छ्रुत्वा वचनं तस्य वसिष्ठः कोपसंयुतः
शशाप भूपतिं चेति चाण्डालो भव दुर्मते । अनेन त्वं शरीरेण श्वपचो भव सत्वरम्
स्वर्गकृन्तन पापिष्ठ सुरभीवधदूषित । ब्रह्मपत्नीहरोच्छिन्न धर्ममार्गविदूषक
न ते स्वर्गगतिः पाप मृतस्यापि कथञ्चन । व्यास उवाच - इत्युक्तो गुरुणा राजंस्त्रिशङ्कुस्तत्क्षणादपि
तत्र तेन शरीरेण बभूव श्वपचाकृतिः । कुण्डलेऽश्ममये वापि जाते तस्य च तत्क्षणात्
देहे चन्दनगन्धश्च विगन्धो ह्यभवत्तदा । नीलवर्णेऽथ सञ्जाते दिव्ये पीताम्बरे तनौ
राजवर्णोऽभवद्देहः शापात्तस्य महात्मनः । शक्त्युपासकरोषेण फलमेतदभून्नृप
तस्माच्छ्रीशक्तिभक्तो हि नावमान्यः कदाचन । गायत्रीजपनिष्ठो हि वसिष्ठो मुनिसत्तमः
दृष्ट्वा निन्द्यं निजं देहं राजा दुःखमवाप्तवान् । न जगाम गृहे दीनो वनमेवाभितो ययौ
चिन्तयामास दुःखार्तास्त्रिशङ्कुः शोकविह्वलः । किं करोमि क्व गच्छामि देहो मेऽतीव निन्दितः
कर्तव्यं नैव पश्यामि येन मे दुःखसंक्षयः । गृहे गच्छामि चेत्पुत्रः पीडितोऽद्य भविष्यति
भार्यापि श्वपचं दृष्ट्वा नाङ्गीकारं करिष्यति । सचिवा नादरिष्यन्ति वीक्ष्य मामीदृशं पुनः
ज्ञातयो बन्धुवर्गश्च सङ्गतो न भजिष्यति । सर्वैस्तक्तस्य मे नूनं जीवितान्मरणं वरम्
विषं वा भक्षयित्वाद्य पतित्वा वा जलाशये । कृत्वा वा कण्ठपाशं च देहत्यागं करोम्यहम्
अग्नौ वा ज्वलिते देहं जुहोमि विधिवद् बलात् । कृत्वा वानशनं प्राणांस्त्यजामि दूषितान्भृशम्
आत्महत्या भवेन्नूनं पुनर्जन्मनि जन्मनि । श्वपचत्वं च शापश्च हत्यादोषाद्भवेदपि
पुनर्विचार्य भूपालश्चेतसा समचिन्तयत् । आत्महत्या न कर्तव्या सर्वथैव मयाधुना
भोक्तव्यं स्वकृतं कर्म देहेनानेन कानने । भोगेनास्य विपाकस्य भविता सर्वथा क्षयः
प्रारब्धकर्मणां भोगादन्यथा न क्षयो भवेत् । तस्मान्मयात्र भोक्तव्यं कृतं कर्म शुभाशुभम्
कुर्वन्पुण्याश्रमाभ्याशे तीर्थानां सेवनं तथा । स्मरणं चाम्बिकायास्तु साधूनां सेवनं तथा
एवं कर्मक्षयं नूनं करिष्यामि वने वसन् । भाग्ययोगात्कदाचित्तु भवेत्साधुसमागमः
इति सञ्चिन्त्य मनसा त्यक्त्वा स्वनगरं नृपः । गङ्गातीरे गतः कामं शोचंस्तत्रैव संस्थितः
हरिश्चन्द्रस्तदा ज्ञात्वा पितुः शापस्य कारणम् । दुःखितः सचिवांस्तत्र प्रेषयामास पार्थिवः
सचिवास्तत्र गत्वाऽऽशु तमूचुः प्रश्रयान्विताः । प्रणम्य श्वपचाकारं निःश्वसन्तं मुहुर्मुहुः