विप्रानाहूय मन्त्रज्ञान्वेदशास्त्रविशारदान् । अभिषेकाय सम्भारान् कारयामास सत्वरम्
सलिलं सर्वतीर्थानां समानाय्य विशांपतिः । प्रकृतीश्च समाहूय सामन्तान्भूपतींस्तथा
पुण्येऽह्नि विधिवत्तस्मै ददावासनमुत्तमम् । अभिषिच्य सुतं राज्ये त्रिशङ्कुं विधिवत्पिता
तृतीयमाश्रमं पुण्यं जग्राह भार्यया युतः । वने त्रिपथगाकूले चचार दुश्चरं तपः
काले प्राप्ते ययौ स्वर्गं पूजितस्त्रिदशैरपि । इन्द्रासनसमीपस्थो रराज रविवत्सदा
राजोवाच पूर्वं भगवता प्रोक्तं कथायोगेन साम्प्रतम् । सत्यव्रतो वसिष्ठेन शप्तो दोग्ध्रीवधात्किल
कुपितेने पिशाचत्वं प्रापितो गुरुणा ततः । कथं मुक्तः पिशाचत्वादित्येतत्संशयः प्रभो
न सिंहासनयोग्यो हि भवेच्छापसमन्वितः । मुनिना मोचितः शापात्केनान्येन च कर्मणा
एतन्मे ब्रूहि विप्रर्षे शापमोक्षणकारणम् । आनीतस्तु कथं पित्रा स्वगृहे तादृशाकृतिः
व्यास उवाच - वसिष्ठेन च शप्तोऽसौ सद्यः पैशाचतां गतः । दुर्वेषश्चातिदुर्धर्षः सर्वलोकभयङ्करः
यदैवोपासिता देवी भक्त्या सत्यव्रतेन ह । तया प्रसन्नया राजन् दिव्यदेहः कृतः क्षणात्
पिशाचत्वं गतं तस्य पापं चैव क्षयं गतम् । विपाप्मा चातितेजस्वी सम्भूतस्तत्कृपामृतात्
वसिष्ठोऽपि प्रसन्नात्मा जातः शक्तिप्रसादतः । पितापि च बभूवास्य प्रेमयुक्तस्त्वनुग्रहात्
राज्यं शशास धर्मात्मा मृते पितरि पार्थिवः । ईजे च विविधैर्यज्ञैर्देवदेवीं सनातनीम्
तस्य पुत्रो बभूवाथ हरिश्चन्द्रः सुशोभनः । लक्षणैः शास्त्रनिर्दिष्टैः संयुतश्चातिसुन्दरः
युवराजं सुतं कृत्वा त्रिशङ्कुः पृथिवीपतिः । मानुषेण शरीरेण स्वर्गं भोक्तुं मनो दधे
वसिष्ठस्याश्रमं गत्वा प्रणम्य विधिवन्नृपः । उवाच वचनं प्रीतः कृताञ्जलिपुटस्तदा
राजोवाच - ब्रह्मपुत्र महाभाग सर्वमन्त्रविशारद । विज्ञप्तिं मे सुमनसा श्रोतुमर्हसि तापस
इच्छा मेऽद्य समुत्पन्ना स्वर्गलोकसुखाय च । अनेनैव शरीरेण भोगान्भोक्तुममानुषान्
अप्सरोभिश्च संवासः क्रीडितुं नन्दने वने । देवगन्धर्वगानं च श्रोतव्यं मधुरं किल
याजय त्वं मखेनाशु तादृशेन महामुने । यथानेन शरीरेण वसे लोकं त्रिविष्टपम्
समर्थोऽसि मुनिश्रेष्ठ कुरु कार्यं ममाधुना । प्रापयाशु मखं कृत्वा देवलोकं दुरासदम्
वसिष्ठ उवाच - राजन् मानुषदेहेन स्वर्गे वासः सुदुर्लभः । मृतस्य हि ध्रुवं स्वर्गः कथितः पुण्यकर्मणा
तस्माद् बिभेमि सर्वज्ञ दुर्लभाच्च मनोरथात् । अप्सरोभिश्च संवासो जीवमानस्य दुर्लभः
कुरु यज्ञान्महाभाग मृतः स्वर्गमवाप्स्यसि । व्यास उवाच - इत्याकर्ण्य वचस्तस्य राजा परमदुर्मनाः
उवाच वचनं भूयो वसिष्ठं पूर्वरोषितम् । न त्वं याजयसे ब्रह्मन् गर्वावेशाच्च मां यदि
अन्यं पुरोहितं कृत्वा यक्ष्येऽहं किल साम्प्रतम् । तच्छ्रुत्वा वचनं तस्य वसिष्ठः कोपसंयुतः
शशाप भूपतिं चेति चाण्डालो भव दुर्मते । अनेन त्वं शरीरेण श्वपचो भव सत्वरम्
स्वर्गकृन्तन पापिष्ठ सुरभीवधदूषित । ब्रह्मपत्नीहरोच्छिन्न धर्ममार्गविदूषक
न ते स्वर्गगतिः पाप मृतस्यापि कथञ्चन । व्यास उवाच - इत्युक्तो गुरुणा राजंस्त्रिशङ्कुस्तत्क्षणादपि