उद्यतः श्रीमहादेव्या निषिद्धः संस्थितः पुनः । तस्माद् गच्छन्तु तं शीघ्रं ज्येष्ठपुत्रं महाबलम्
आश्वास्य वचनैरत्र तरसैवानयन्त्विह । अभिषिच्य सुतं राज्ये औरसं पालनक्षमम्
वनं यास्यामि शान्तोऽहं तपसे कृतनिश्चयः । इत्युक्त्वा मन्त्रिणः सर्वान्प्रेषयामास पार्थिवः
तस्यैवानयनार्थं हि प्रीतिप्रवणमानसः । ते गत्वा तं समाश्वास्य मन्त्रिणः पार्थिवात्मजम्
अयोध्यायां महात्मानं मानपूर्वं समानयन् । दृष्ट्वा सत्यव्रतं राजा दुर्बलं मलिनाम्बरम्
जटाजूटधरं क्रूरं चिन्तातुरमचिन्तयत् । किं कृतं निष्ठुरं कर्म मया पुत्रो विवासितः
राज्यार्हश्चातिमेधावी जानता धर्मनिश्चयम् । इति सञ्चिन्त्य मनसा तमालिङ्य महीपतिः
आसने स्वसमीपशे समाश्वास्योपवेशयत् । उपविष्टं सुतं राजा प्रेमपूर्वमुवाच ह
प्रेमगद्गदया वाचा नीतिशास्त्रविशारदः । राजोवाच - पुत्र धर्मे मतिः कार्या माननीया मुखोद्भवाः
न्यायागतं धनं ग्राह्यं रक्षणीयाः सदा प्रजाः । नासत्यं क्वापि वक्तव्यं नामार्गे गमनं क्वचित्
शिष्टप्रोक्तं प्रकर्तव्यं पूजनीयास्तपस्विनः । हन्तव्या दस्यवः क्रूरा इन्द्रियाणां तथा जयः
कर्तव्यं कार्यसिद्ध्यर्थं राज्ञा पुत्र सदैव हि । मन्त्रस्तु सर्वथा गोप्यः कर्तव्यः सचिवैः सह
नोपेक्ष्योऽल्पोऽपि कृतिना रिपुः सर्वात्मना सुत । न विश्वसेत्परासक्तं सचिवं च तथा नतम्
चाराः सर्वत्र योक्तव्याः शत्रुमित्रेषु सर्वथा । धर्मे मतिः सदा कार्या दानं दद्याच्च नित्यशः
शुष्कवादो न कर्तव्यो दुष्टसङ्गं च वर्जयेत् । यष्टव्या विविधा यज्ञाः पूजनीया महर्षयः
न विश्वसेत्स्त्रियं क्वापि स्त्रैणं द्यूतरतं नरम् । अत्यादरो न कर्तव्यो मृगयायां कदाचन
द्यूते मद्ये तथा गेये नूनं वारवधूषु च । स्वयं तद्विमुखो भूयात् प्रजास्तेभ्यश्च रक्षयेत्
ब्राह्मे मुहूर्ते कर्तव्यमुत्थानं सर्वथा सदा । स्नानादिकं सर्वविधिं विधाय विधिवद्यथा
पराशक्तेः परां पूजां भक्त्या कुर्यात्सुदीक्षितः । पुत्रैतज्जन्मसाफल्यं पराशक्तेः पदार्चनम्
सकृत्कृत्वा महापूजां दैवीपादजलं पिबन् । न जातु जननीगर्भे गच्छेदिति विनिश्चयः
सर्वं दृश्यं महादेवी द्रष्टा साक्षी च सैव हि । इति तद्भावभरितस्तिष्ठेन्निर्भयचेतसा
कृत्वा नित्यविधिं सम्यग्गन्तव्यं सदसि द्विजान् । समाहूय च प्रष्टव्यो धर्मशास्त्रविनिर्णयः
सम्पूज्य ब्राह्मणान्पूज्यान्वेदवेदान्तपारगान् । गोभूहिरण्यादिकं च देयं पात्रेषु सर्वदा
अविद्वान्ब्राह्मणः कोऽपि नैव पूज्यः कदाचन । आहारादधिकं नैव देयं मूर्खाय कर्हिचित्
न वा लोभात्त्वया पुत्र कर्तव्यं धर्मलङ्घनम् । अतः परं न कर्तव्यं क्वचिद्विप्रावमाननम्
ब्राह्मणा भूमिदेवाश्च माननीयाः प्रयत्नतः । कारणं क्षत्रियाणां च द्विजा एव न संशयः
अद्भ्योऽग्निर्ब्रह्मणः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
तस्माद्राज्ञा विशेषेण माननीया मुखोद्भवाः । दानेन विनयेनैव सर्वथा भूतिमिच्छता
दण्डनीतिः सदा कार्या धर्मशास्त्रानुसारतः । कोशस्य संग्रहः कार्यो नूनं न्यायागतस्य ह
त्रिशङ्कूपाख्यानवर्णनम् एवं प्रबोधितः पित्रा त्रिशङ्कुः प्रणतो नृपः । तथेति पितरं प्राह प्रेमगद्गदया गिरा