ऋषिषत्नी सुतान्सर्वान्भोजयामास तत्तदा
वसिष्ठस्तु हतां दोग्ध्रीं ज्ञात्वा कुद्धस्तमब्रवीत्
एवं ते शंकवः क्रूरा पतंतु त्वरितास्त्रयः
त्रिशंकुरिति नाम्ना वै भुवि ख्यातो भविष्यसि
व्यास उवाच चचार च तपस्तीव्रं तस्मिन्नेवाऽऽश्रमे थितः
कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मंत्रमनुत्तमम्
सत्यव्रताय राजनीत्युपदेशवर्णनम् जनमेजय उवाच - वसिष्ठेन च शप्तोऽसौ त्रिशङ्कुर्नृपतेः सुतः । कथं शापाद्विनिर्मुक्तस्तन्मे ब्रूहि महामते
व्यास उवाच - सत्यव्रतस्तथा शप्तः पिशाचत्वमवाप्तवान् । तस्मिन्नेवाश्रमे तस्थौ देवीभक्तिपरायणः
कदाचिन्नृपतिस्तत्र जप्त्वा मन्त्रं नवाक्षरम् । होमार्थं ब्राह्मणान्गत्वा प्रणम्योवाच भक्तितः
भूमिदेवाः शृणुध्वं वै वचनं प्रणतस्य मे । ऋत्विजो मम सर्वेऽत्र भवन्तः प्रभवन्तु ह
जपस्य च दशांशेन होमः कार्यो विधानतः । भवद्भिः कार्यसिद्ध्यर्थं वेदविद्भिः कृपापरैः
सत्यव्रतोऽहं नृपतेः पुत्रो ब्रह्मविदांवराः । कार्यं मम विधातव्यं सर्वथा सुखहेतवे
तच्छ्रुत्वा ब्राह्मणास्तत्र तमूचुर्नृपतेः सुतम् । शप्तस्त्वं गुरुणा प्राप्तं पिशाचत्वं त्वयाधुना
न यागार्होऽसि तस्मात्त्वं वेदेष्वनधिकारतः । पिशाचत्वमनुप्राप्तं सर्वलोकेषु गर्हितम्
व्यास उवाच - तन्निशम्य वचस्तेषां राजा दुःखमवाप ह । धिग्जीवितमिदं मेऽद्य किं करोमि वने स्थितः
पित्रा चाहं परित्यक्तः शप्तश्च गुरुणा भृशम् । राज्याद्भ्रष्टः पिशाचत्वमनुप्राप्तः करोमि किम्
तदा पृथुतरां कृत्वा चितां काष्ठैर्नृपात्मजः । सस्मार चण्डिकां देवीं प्रवेशमनुचिन्तयन्
स्मृता देवीं महामायां चितां प्रज्वलितां पुरः । कृत्वा स्नात्वा प्रवेशार्थं स्थितः प्राञ्जलिरग्रतः
ज्ञात्वा भगवती तं तु मर्तुकामं महीपतिम् । आजगाम तदाऽऽकाशं प्रत्यक्षं तस्य चाग्रतः
दत्त्वाथ दर्शनं देवी तमुवाच नृपात्मजम् । सिंहारूढा महाराज मेघगम्भीरया गिरा
देव्युवाच - किं ते व्यवसितं साधो हुताशे मा तनुं त्यज । स्थिरो भव महाभाग पिता ते जरसान्वितः
राज्यं दत्त्वा वने तुभ्यं गन्तास्ति तपसे किल । विषादं त्यज हे वीर परश्वोऽहनि भूपते
नेतुं त्वामागमिष्यन्ति सचिवाश्व पितुस्तव । मत्प्रसादात्पिता च त्वामभिषिच्य नृपासने
जित्वा कामं ब्रह्मलोकं गमिष्येत्येष निश्चयः । व्यास उवाच - इत्युक्त्वा तं तदा देवी तत्रैवान्तरधीयत
राजपुत्रो विरमितो मरणात्पावकात्ततः । अयोध्यायां तदाऽऽगत्य नारदेन महात्मना
वृत्तान्तः कथितः सर्वो राज्ञे सत्वरमादितः । श्रुत्वा राजाथ पुत्रस्य तं तथा मरणोद्यमम्
खेदमाधाय मनसि शुशोच बहुधा नृपः । सचिवानाह धर्मात्मा पुत्रशोकपरिप्लुतः
ज्ञातं भवद्भिरत्युग्रं पुत्रस्य मम चेष्टितम् । त्यक्तो मया वने धीमान्पुत्रः सत्यव्रतो मम
आज्ञयासौ गतः सद्यो राज्यार्हः परमार्थवित् । स्थितस्तत्रैव विज्ञाने धनहीनः क्षमान्वितः
वसिष्ठेन तथा शप्तः पिशाचसदृशः कृतः । सोऽद्य दुःखेन सन्तप्तः प्रवेष्टुञ्च हुताशनम्