हृदयं कठिनं कृत्वा संचिंत्य मनसा सती
मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्
दृष्टा सत्यव्रतेनाऽऽर्ता तापसी शोकसंयुता
रुदंतं बालकं कंठे बद्ध्वा नयसि काऽधुना
ऋषिपत्न्युवाच विक्रेतुमौरसं कामं गमिष्ये विषमेऽ सुतम्
अन्नं नास्ति पतिर्मुक्त्वा गतस्तप्तं नृप क्वचित्
राजोवाच तावदेव पतिस्तेऽत्र वनाच्चैवाऽऽगमिष्यति
वृक्षे तवाऽऽश्रमाभ्याशे भक्ष्यं किंचिन्निरंतरम् 7.10.
इत्युक्ता सा तदा तेन राज्ञा कौशिककामिनी
सोऽभवद्गालवो नाम गलबंधान्महातपाः
सत्यव्रतस्तु भक्त्या च कृपया च परिप्लुतः
वने स्थितान्मृगान्हत्वा वराहान्महिषांस्तथा
ऋषिपत्नी गृहीत्वा तन्मांसं पुत्रानदा त्ततः
अयोध्यां चैव राज्यं च तथैवांतः पुरं मुनिः
सत्यव्रतोऽपि धर्मात्मा ह्यतिष्ठन्नगराद्बहिः
सत्यव्रतो ह्यकस्माच्च कस्यचित्कारणान्नृपः
त्याज्यमानं वने पित्रा धर्मिष्ठं च प्रियं सुतम्
पाणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे 7.10.
कस्मिंश्चिद्दिवसेऽरण्ये मृगाभावं महीपतिः
तां जघान क्षुधार्तस्य क्रोधान्मोहाच्च दस्युवत्
ऋषिषत्नी सुतान्सर्वान्भोजयामास तत्तदा
वसिष्ठस्तु हतां दोग्ध्रीं ज्ञात्वा कुद्धस्तमब्रवीत्
एवं ते शंकवः क्रूरा पतंतु त्वरितास्त्रयः
त्रिशंकुरिति नाम्ना वै भुवि ख्यातो भविष्यसि
व्यास उवाच चचार च तपस्तीव्रं तस्मिन्नेवाऽऽश्रमे थितः
कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मंत्रमनुत्तमम्
सत्यव्रताय राजनीत्युपदेशवर्णनम् जनमेजय उवाच - वसिष्ठेन च शप्तोऽसौ त्रिशङ्कुर्नृपतेः सुतः । कथं शापाद्विनिर्मुक्तस्तन्मे ब्रूहि महामते
व्यास उवाच - सत्यव्रतस्तथा शप्तः पिशाचत्वमवाप्तवान् । तस्मिन्नेवाश्रमे तस्थौ देवीभक्तिपरायणः
कदाचिन्नृपतिस्तत्र जप्त्वा मन्त्रं नवाक्षरम् । होमार्थं ब्राह्मणान्गत्वा प्रणम्योवाच भक्तितः
भूमिदेवाः शृणुध्वं वै वचनं प्रणतस्य मे । ऋत्विजो मम सर्वेऽत्र भवन्तः प्रभवन्तु ह