व्यास उवाच पुत्रमाह वृथा नाम कृतं ते दुष्टकर्मणा
गच्छ दूरं सुमंदात्मन्दुराचार गृहान्मम
कुपितं पितरं प्राह क्व गच्छामिति वै मुहुः
श्वपचस्य कृतं कर्म द्विजदारापहारणम्
नहि पुत्रेण पुत्रार्थी त्वया च कुलपांसना
स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः
सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते
यदा निष्कासितः पित्रा कुपितेन महात्मना 7.10.
तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः
केनचित्कारणेनाथ पिता तस्य महीपतिः
न ववर्ष तदा तस्मिन्विषये पाकशासनः
विश्वामित्रस्तदा दारांस्तस्मिंस्तु विषये नृप
कातरा तत्र संजाता भार्या कौशिकस्य ह
बालकान्क्षुधयाऽऽक्रांतान्रुदतः पश्यती भृशम्
चिंतयामास दुःखार्ता तोकान्वीक्ष्य क्षुधाऽऽतुरान्
न मे त्राताऽस्ति पुत्राणां पतिर्मे नास्ति सन्निधौ
धनहीना च मां त्यक्त्वा तपस्तप्तं गतः पतिः
बालानां भरणं केन करोमि पतिना विना 7.10.
एकं सुतं तु विक्रीय द्रव्येण कियता पुनः
सर्वेषां मारणं नाद्धा युक्तं मम विपर्यये
हृदयं कठिनं कृत्वा संचिंत्य मनसा सती
मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्
दृष्टा सत्यव्रतेनाऽऽर्ता तापसी शोकसंयुता
रुदंतं बालकं कंठे बद्ध्वा नयसि काऽधुना
ऋषिपत्न्युवाच विक्रेतुमौरसं कामं गमिष्ये विषमेऽ सुतम्
अन्नं नास्ति पतिर्मुक्त्वा गतस्तप्तं नृप क्वचित्
राजोवाच तावदेव पतिस्तेऽत्र वनाच्चैवाऽऽगमिष्यति
वृक्षे तवाऽऽश्रमाभ्याशे भक्ष्यं किंचिन्निरंतरम् 7.10.
इत्युक्ता सा तदा तेन राज्ञा कौशिककामिनी
सोऽभवद्गालवो नाम गलबंधान्महातपाः