मन्त्रितो वेदमन्त्रैश्च पुत्रार्थं तस्य भूपतेः । राजा तद्यज्ञसदनं प्रविष्टस्तृषितो निशि
विप्रान्दृष्ट्वा शयानान्स पपौ मन्त्रजलं स्वयम् । भार्यार्थं संस्कृतं विप्रैर्मन्त्रितं विधिनोद्धृतम्
पीतं राज्ञा तृषार्तेन तदज्ञानान्नृपोत्तम । व्युदकं कलशं दृष्ट्वा तदा विप्रा विशङ्किताः
पप्रच्छुस्ते नृपं केन पीतं जलमिति द्विजाः । राज्ञा पीतं विदित्वा ते ज्ञात्वा दैवबलं महत्
इष्टिं समापयामासुर्गतास्ते मुनयो गृहान् । गर्भं दधार नृपतिस्ततो मन्त्रबलादथ
ततः काले स उत्पन्नः कुक्षिं भित्त्वाऽस्य दक्षिणाम् । पुत्रं निष्कासमायासुर्मन्त्रिणस्तस्य भूपतेः
देवानां कृपया तत्र न ममार महीपतिः । कं धास्यति कुमारोऽयं मन्त्रिणश्चुक्रुशुर्भृशम्
तदेन्द्रो देशिनीं प्रादान्मां धातेत्यवदद्वचः । सोऽभवद्बलवान् राजा मान्धाता पृथिवीपतिः । तदुत्पत्तिस्तु भूपाल कथिता तव विस्तरात्
सत्यव्रताख्यानवर्णनम् व्यास उवाच मांधाता पृथिवीं सर्वामजयन्नृपतीश्वरः
दस्यवोऽस्य भयत्रस्ता ययुर्गिरिगुहासु च
तस्य बिंदुमती भार्या शशबिंदोः सुताऽभवत्
तस्यामुत्पादयामास मांधाता द्वौ सुतौ नृप
पुरुकुत्सात्ततोऽरण्यः पुत्रः परमधार्मिकः
हर्यश्वस्तस्य पुत्रोऽभूद्धार्मिकः परमार्थवित्
अरुणस्य सुतः श्रीमान्सत्यव्रत इति श्रुतः
स पापात्मा विप्रभार्यां हृतवान्काममोहितः
मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप
पप्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः 7.10.
तन्निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम्
ब्राह्मणा ऊचुः विवाहिता विप्रकन्या बलेन बलिनां वर
व्यास उवाच पुत्रमाह वृथा नाम कृतं ते दुष्टकर्मणा
गच्छ दूरं सुमंदात्मन्दुराचार गृहान्मम
कुपितं पितरं प्राह क्व गच्छामिति वै मुहुः
श्वपचस्य कृतं कर्म द्विजदारापहारणम्
नहि पुत्रेण पुत्रार्थी त्वया च कुलपांसना
स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः
सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते
यदा निष्कासितः पित्रा कुपितेन महात्मना 7.10.
तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः
केनचित्कारणेनाथ पिता तस्य महीपतिः