धुन्धुर्नामा हतो दैत्यस्तेनासौ पृथिवीतले । धुन्धुमारेति विख्यातं नाम प्रापातिविश्रुतम्
पुत्रस्तस्य दृढाश्वस्तु पालयामास मेदिनीम् । दृढाश्वस्य सुतः श्रीमान्हर्यश्व इति कीर्तितः
निकुम्भस्तत्सुतः प्रोक्तो बभूव पृथिवीपतिः । बर्हणाश्वो निकुम्भस्य कुशाश्वस्तस्य वै सुतः
प्रसेनजित्कृशाश्वस्य बलवान्सत्यविक्रमः । तस्य पुत्रो महाभागो यौवनाश्वेति विश्रुतः
यौवनाश्वसुतः श्रीमान्मान्धातेति महीपतिः । अष्टोत्तरसहस्रं तु प्रासादा येन निर्मिताः
भगवत्यास्तु तुष्ट्यर्थं महातीर्थेषु मानद । मातृगर्भे न जातोऽसावुत्पन्नो जनकोदरे
निःसारितस्ततः पुत्रः कुक्षिं भित्त्वा पितुः पुनः । राजोवाच - न श्रुतं न च दृष्टं वा भवता तदुदाहृतम्
असंभाव्यं महाभाग तस्य जन्म यथोदितम् । विस्तरेण वदस्वाद्य मान्धातुर्जन्मकारणम्
राजोदरे यथोत्पन्नः पुत्रः सर्वाङ्गसुन्दरः । व्यास उवाच - यौवनाश्वोऽनपत्योऽभूद्राजा परमधार्मिकः
भार्याणां च शतं तस्य बभूव नृपतेर्नृप । राजा चिन्तापरः प्रायश्चिन्तयामास नित्यशः
अपत्यार्थे यौवनाश्वो दुःखितस्तु वनं गतः । ऋषीणामाश्रमे पुण्ये निर्विण्णः स च पार्थिवः
मुमोच दुःखितः श्वासांस्तापसानां च पश्यताम् । दृष्ट्वा तु दुःखितं विप्रा बभूवुश्च कृपालवः
तमूचुर्ब्राह्मणा राजन्कस्माच्छोचसि पार्थिव । किं ते दुःखं महाराज ब्रूहि सत्यं मनोगतम्
प्रतीकारं करिष्यामो दुःखस्य तव सर्वथा । यौवनाश्व उवाच - राज्यं धनं सदश्वाश्च वर्तन्ते मुनयो मम
भार्याणां च शतं शुद्धं वर्तते विशदप्रभम् । नारातिस्त्रिषु लोकेषु कोऽप्यस्ति बलवान्मम
आज्ञाकरास्तु सामन्ता वर्तन्ते मन्त्रिणस्तथा । एकं सन्तानजं दुःखं नान्यत्पश्यामि तापसाः
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्माच्छोचामि विप्रेन्द्राः सन्तानार्थं भृशं ततः
वेदशास्त्रार्थतत्त्वज्ञास्तापसाश्च कृतश्रमाः । इष्टिं सन्तानकामस्य युक्तां ज्ञात्वा दिशन्तु मे
कुर्वन्तु मम कार्यं वै कृपा चेदस्ति तापसाः । व्यास उवाच - तच्छ्रुत्वा वचनं राज्ञः कृपया पूर्णमानसाः
कारयामासुरव्यग्रास्तस्येष्टिमिन्द्रदेवताम् । कलशः स्थापितस्तत्र जलपूर्णस्तु वाडवैः
मन्त्रितो वेदमन्त्रैश्च पुत्रार्थं तस्य भूपतेः । राजा तद्यज्ञसदनं प्रविष्टस्तृषितो निशि
विप्रान्दृष्ट्वा शयानान्स पपौ मन्त्रजलं स्वयम् । भार्यार्थं संस्कृतं विप्रैर्मन्त्रितं विधिनोद्धृतम्
पीतं राज्ञा तृषार्तेन तदज्ञानान्नृपोत्तम । व्युदकं कलशं दृष्ट्वा तदा विप्रा विशङ्किताः
पप्रच्छुस्ते नृपं केन पीतं जलमिति द्विजाः । राज्ञा पीतं विदित्वा ते ज्ञात्वा दैवबलं महत्
इष्टिं समापयामासुर्गतास्ते मुनयो गृहान् । गर्भं दधार नृपतिस्ततो मन्त्रबलादथ
ततः काले स उत्पन्नः कुक्षिं भित्त्वाऽस्य दक्षिणाम् । पुत्रं निष्कासमायासुर्मन्त्रिणस्तस्य भूपतेः
देवानां कृपया तत्र न ममार महीपतिः । कं धास्यति कुमारोऽयं मन्त्रिणश्चुक्रुशुर्भृशम्
तदेन्द्रो देशिनीं प्रादान्मां धातेत्यवदद्वचः । सोऽभवद्बलवान् राजा मान्धाता पृथिवीपतिः । तदुत्पत्तिस्तु भूपाल कथिता तव विस्तरात्
सत्यव्रताख्यानवर्णनम् व्यास उवाच मांधाता पृथिवीं सर्वामजयन्नृपतीश्वरः
दस्यवोऽस्य भयत्रस्ता ययुर्गिरिगुहासु च