लज्जमानस्तदा शक्रः प्रेरितो हरिणा भृशम् । बभूव वृषभस्तूर्णं रुद्रस्येवापरो महान्
तमारुरोह राजासौ संग्रामगमनाय वै । स्थितः ककुदि येनास्य ककुत्स्थस्तेन चाभवत्
इन्द्रो वाहः कृतो येन तेन नाम्नेन्द्रवाहकः । पुरं जितं तु दैत्यानां तेनाभूच्च पुरञ्जयः
जित्वा दैत्यान्महाबाहुर्धनं तेषां प्रदत्तवान् । पप्रच्छ चैवं राजर्षेरिति सख्यं बभूव ह
ककुत्स्थश्चातिविख्यातो नृपतिस्तस्य वंशजाः । काकुत्स्था भुवि राजानो बभूवुर्बहुविश्रुताः
ककुत्स्थस्याभवत्पुत्रो धर्मपत्न्यां महाबलः । अनेना विश्रुतस्तस्य पृथुः पुत्रश्च वीर्यवान्
विष्णोरंशः स्मृतः साक्षात्पराशक्तिपदार्चकः । विश्वरन्धिस्तु विज्ञेयः पृथोः पुत्रो नराधिपः
चन्द्रस्तस्य सुतः श्रीमान् राजा वंशकरः स्मृतः । तत्सुतो युवनाश्वस्तु तेजस्वी बलवत्तरः
शावन्तो युवनाश्वस्य जज्ञे परमधार्मिकः । शावन्ती निर्मिता तेन पुरी शक्रपुरीसमा
बृहदश्वस्तु पुत्रोऽभूच्छावन्तस्य महात्मनः । कुवलयाश्वः सुतस्तस्य बभूव पृथिवीपतिः
धुन्धुर्नामा हतो दैत्यस्तेनासौ पृथिवीतले । धुन्धुमारेति विख्यातं नाम प्रापातिविश्रुतम्
पुत्रस्तस्य दृढाश्वस्तु पालयामास मेदिनीम् । दृढाश्वस्य सुतः श्रीमान्हर्यश्व इति कीर्तितः
निकुम्भस्तत्सुतः प्रोक्तो बभूव पृथिवीपतिः । बर्हणाश्वो निकुम्भस्य कुशाश्वस्तस्य वै सुतः
प्रसेनजित्कृशाश्वस्य बलवान्सत्यविक्रमः । तस्य पुत्रो महाभागो यौवनाश्वेति विश्रुतः
यौवनाश्वसुतः श्रीमान्मान्धातेति महीपतिः । अष्टोत्तरसहस्रं तु प्रासादा येन निर्मिताः
भगवत्यास्तु तुष्ट्यर्थं महातीर्थेषु मानद । मातृगर्भे न जातोऽसावुत्पन्नो जनकोदरे
निःसारितस्ततः पुत्रः कुक्षिं भित्त्वा पितुः पुनः । राजोवाच - न श्रुतं न च दृष्टं वा भवता तदुदाहृतम्
असंभाव्यं महाभाग तस्य जन्म यथोदितम् । विस्तरेण वदस्वाद्य मान्धातुर्जन्मकारणम्
राजोदरे यथोत्पन्नः पुत्रः सर्वाङ्गसुन्दरः । व्यास उवाच - यौवनाश्वोऽनपत्योऽभूद्राजा परमधार्मिकः
भार्याणां च शतं तस्य बभूव नृपतेर्नृप । राजा चिन्तापरः प्रायश्चिन्तयामास नित्यशः
अपत्यार्थे यौवनाश्वो दुःखितस्तु वनं गतः । ऋषीणामाश्रमे पुण्ये निर्विण्णः स च पार्थिवः
मुमोच दुःखितः श्वासांस्तापसानां च पश्यताम् । दृष्ट्वा तु दुःखितं विप्रा बभूवुश्च कृपालवः
तमूचुर्ब्राह्मणा राजन्कस्माच्छोचसि पार्थिव । किं ते दुःखं महाराज ब्रूहि सत्यं मनोगतम्
प्रतीकारं करिष्यामो दुःखस्य तव सर्वथा । यौवनाश्व उवाच - राज्यं धनं सदश्वाश्च वर्तन्ते मुनयो मम
भार्याणां च शतं शुद्धं वर्तते विशदप्रभम् । नारातिस्त्रिषु लोकेषु कोऽप्यस्ति बलवान्मम
आज्ञाकरास्तु सामन्ता वर्तन्ते मन्त्रिणस्तथा । एकं सन्तानजं दुःखं नान्यत्पश्यामि तापसाः
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्माच्छोचामि विप्रेन्द्राः सन्तानार्थं भृशं ततः
वेदशास्त्रार्थतत्त्वज्ञास्तापसाश्च कृतश्रमाः । इष्टिं सन्तानकामस्य युक्तां ज्ञात्वा दिशन्तु मे
कुर्वन्तु मम कार्यं वै कृपा चेदस्ति तापसाः । व्यास उवाच - तच्छ्रुत्वा वचनं राज्ञः कृपया पूर्णमानसाः
कारयामासुरव्यग्रास्तस्येष्टिमिन्द्रदेवताम् । कलशः स्थापितस्तत्र जलपूर्णस्तु वाडवैः