स्त्रीभिः परिवृतां तां तु दृष्ट्वा कान्तां मनोरमाम् । हावभावकलायुक्तां चकमे भगवाम्बुधः
सापि तं चकमे कान्तं बुधं सोमसुतं पतिम् । संयोगस्तत्र सञ्जातस्तयोः प्रेम्णा परस्परम्
स तस्यां जनयामास पुरूरवसमात्मजम् । इलायां सोमपुत्रस्तु चक्रवर्तिनमुत्तमम्
सा प्रासूत सुतं बाला चिन्ताविष्टा वने स्थिता । सस्मार स्वकुलाचार्यं वसिष्ठं मुनिसत्तमम्
स तदास्य दशां दृष्ट्वा सुद्युम्नस्य कृपान्वितः । अतोषयन्महादेवं शङ्करं लोकशङ्करम्
तस्मै स भगवांस्तुष्टः प्रददौ वाञ्छितं वरम् । वसिष्ठः प्रार्थयामास पुंस्त्वं राज्ञः प्रियस्य च
शङ्करस्तु निजां वाचमृतां कुर्वन्नुवाच ह । मासं पुमांस्तु भविता मासं स्त्री भूपतिः किल
इत्थं प्राप्य वरं राजा जगाम स्वगृहं पुनः । चक्रे राज्यं स धर्मात्मा वसिष्ठस्याप्यनुग्रहात्
स्त्रीत्वे तिष्ठति हर्म्येषु पुंस्त्वे राज्यं प्रशास्ति च । प्रजास्तस्मिन्समुद्विग्ना नाभ्यनन्दन्महीपतिम्
काले तु यौवनं प्राप्तः पुत्रः पुरूरवास्तदा । प्रतिष्ठां नृपतिस्तस्मै दत्त्वा राज्यं वनं ययौ
गत्वा तस्मिन्वने रम्ये नानाद्रुमसमाकुले । नारदान्मन्त्रमासाद्य नवाक्षरमनुत्तमम्
जजाप मन्त्रमत्यर्थं प्रेमपूरितमानसः । परितुष्टा तदा देवी सगुणा तारिणी शिवा
सिंहारूढा स्थिता चाग्रे दिव्यरूपा मनोरमा । वारुणीपानसम्मत्ता मदाघूर्णितलोचना
दृष्ट्वा तां दिव्यरूपां च प्रेमाकुलितलोचनः । प्रणम्य शिरसा प्रीत्या तुष्टाव जगदम्बिकाम्
इलोवाच दिव्यं च ते भगवति प्रथितं स्वरूपं दृष्टं मया सकललोकहितानुरूपम् । वन्दे त्वदंघ्रिकमलं सुरसङ्घसेव्यं कामप्रदं जननि चापि विमुक्तिदं च
को वेत्ति तेऽम्ब भुवि मर्त्यतनुर्निकामं मुह्यन्ति यत्र मुनयश्च सुराश्च सर्वे । ऐश्वर्यमेतदखिलं कृपणे दयां च दृष्ट्वैव देवि सकलं किल विस्मयो मे
शम्भुर्हरिः कमलजो मघवा रविश्च वित्तेशवह्निवरुणाः पवनश्च सोमः । जानन्ति नैव वसवोऽपि हि ते प्रभावं बुध्येत्कथं तव गुणानगुणो मनुष्यः
जानाति विष्णुरमितद्युतिरम्ब साक्षा- त्त्वां सात्त्विकीमुदधिजां सकलार्थदां च । को राजसीं हर उमां किल तामसीं त्वां वेदाम्बिके न तु पुनः खलु निर्गुणां त्वाम्
क्वाहं सुमन्दमतिरप्रतिमप्रभावः क्वायं तवातिनिपुणो मयि सुप्रसादः । जाने भवानि चरितं करुणासमेतं यत्सेवकांश्च दयसे त्वयि भावयुक्तान्
वृत्तस्त्वया हरिरसौ वनजेशयापि नैवाचरत्यपि मुदं मधुसूदनश्च । पादौ तवादिपुरुषः किल पावकेन कृत्वा करोति च करेण शुभौ पवित्रौ
वाञ्छत्यहो हरिरशोक इवातिकामं पादाहतिं प्रमुदितः पुरुषः पुराणः । तां त्वं करोषि रुषिता प्रणतं च पादे दृष्ट्वा पतिं सकलदेवनुतं स्मरार्तम्
वक्षःस्थले वससि देवि सदैव तस्य पर्यङ्कवत्सुचरिते विपुलेऽतिशान्ते । सौदामिनीव सुघने सुविभूषिते च किं ते न वाहनमसौ जगदीश्वरोऽपि
त्वं चेज्जहासि मधुसूदनमम्ब कोपा- न्नैवार्चितोऽपि स भवेत्किल शक्तिहीनः । प्रत्यक्षमेव पुरुषं स्वजनास्त्वजन्ति शान्तं श्रियोज्झितमतीव गुणैर्वियुक्तम्
ब्रह्मादयः सुरगणा न तु किं युवत्यो ये त्वत्पदाम्बुजमहर्निशमाश्रयन्ति । मन्ये त्वयैव विहिताः खलु ते पुमांसः किं वर्णयामि तव शक्तिमनन्तवीर्ये
त्वं नापुमान्न च पुमानिति मे विकल्पो याकासि देवि सगुणा ननु निर्गुणा वा । तां त्वां नमामि सततं किल भावयुक्तो वाञ्छामि भक्तिमचलां त्वयि मातरं तु
सूत उवाच इति स्तुत्वा महीपालो जगाम शरणं तदा । परितुष्टा ददौ देवी तत्र सायुज्यमात्मनि
सुद्युम्नस्तु ततः प्राप पदं परमकं स्थिरम् । तस्या देव्याः प्रसादेन मुनीनामपि दुर्लभम्
पुरूरवस उर्वश्याश्च चरित्रवर्णनम् सूत उवाच सुद्युने तु दिवं याते राज्यं चक्रे पुरूरवाः । सगुणश्च सुरूपश्च प्रजारञ्जनतत्परः
प्रतिष्ठाने पुरे रम्ये राज्यं सर्वनमस्कृतम् । चकार सर्वधर्मज्ञः प्रजारक्षणतत्परः
मन्त्रः सुगुप्तस्तस्यासीत्परत्राभिज्ञता तथा । सदैवोत्साहशक्तिश्च प्रभुशक्तिस्तथोत्तमा