वंशार्थं तप आतिष्ठद्देवीं ध्यात्वा निरन्तरम् । नारदस्योपदेशेन प्राप्य दीक्षामनुत्तमाम्
तस्य पुत्रशतं राजन्निक्ष्वाकोरिति विश्रुतम् । विकुक्षिः प्रथमस्तेषां बलवीर्यसमन्वितः
अयोध्यायां स्थितो राजा इक्ष्वाकुरिति विश्रुतः । शकुनिप्रमुखाः पुत्रा पञ्चाशद्बलवत्तराः
उत्तरापथदेशस्य रक्षितारः कृताः किल । दक्षिणस्यां तथा राजन्नादिष्टास्तेन ते सुताः
चत्वारिंशत्तथाष्टौ च रक्षणार्थं महात्मना । अन्यौ द्वौ संस्थितौ पार्श्वे सेवार्थं तस्य भूपतेः
मान्धातोत्पत्तिवर्णनम् व्यास उवाच - कदाचिदष्टकाश्राद्धे विकुक्षिं पृथिवीपतिः । आज्ञापयदसंमूढो मांसमानय सत्वरम्
मेध्यं श्राद्धार्थमधुना वने गत्वा सूतादरात् । उत्युक्तोऽसौ तथेत्याशु जगाम वनमस्त्रभृत्
गत्वा जघान बाणैः स वराहान्सूकरान्मृगान् । शशांश्चापि परिश्रान्तो बभूवाथ बुभूक्षितः
विस्मृता चाष्टका तस्य शशं चाददसौ वने । शेषं निवेदयामास पित्रे मांसमनुत्तमम्
प्रोक्षणाय समानीतं मांसं दृष्ट्वा गुरुस्तदा । अनर्हमिति तज्ज्ञात्वा चुकोप मुनिसत्तमः
भुक्तशेषं तु न श्राद्धे प्रोक्षणीयमिति स्थितिः । राज्ञे निवेदयामास वसिष्ठः पाकदूषणम्
पुत्रस्य कर्म तज्ज्ञात्वा भूपतिर्गुरुणोदितम् । चुकोप विधिलोपात्तं देशान्निःसारयत्ततः
शशाप इति विख्यातो नाम्ना जातो नृपात्मजः । गतो वने शशादस्तु पितृकोपादसम्भ्रमः
वन्येन वर्तयन्कालं नीतवान् धर्मतत्परः । पितर्युपरते राज्यं प्राप्तं तेन महात्मना
शशादस्त्वकरोद्राज्यमयोध्यायाः पतिः स्वयम् । यज्ञाननेकशः पूर्णांश्चकार सरयूतटे
शशादस्याभवत्पुत्रः ककुत्स्थ इति विश्रुतः । तस्यैव नामभेदाद्वै इन्द्रवाहः पुरञ्जयः
जनमेजय उवाच - नामभेदः कथं जातो राजपुत्रस्य चानघ । कारणं ब्रूहि मे सर्वं कर्मणा येन चाभवत्
व्यास उवाच - शशादे स्वर्गते राजा ककुत्स्थ इति चाभवत् । [राज्यं चकार धर्मज्ञः पितृपैतामहं बलात् ।] एतस्मिन्नन्तरे देवा दैत्यैः सर्वे पराजिताः
जग्मुस्त्रिलोकाधिपतिं विष्णुं शरणमव्ययम् । तान्प्रोवाच महाविष्णुस्तदा देवान्सनातनः
विष्णुरुवाच - पार्ष्णिग्राहं महीपालं प्रार्थयन्तु शशादजम् । स हनिष्यति वै दैत्यान्संग्रामे सुरसत्तमाः
आगमिष्यति धर्मात्मा साहाय्यार्थं धनुर्धरः । पराशक्तेः प्रसादेन सामर्थ्यं तस्य चातुलम्
हरेः सुवचनाद्देवा ययुः सर्वे सवासवाः । अयोध्यायां महाराज शशादतनयं प्रति
तानागतान् सुरान् राजा पूजयामास धर्मतः । पप्रच्छागमने राजा प्रयोजनमतन्द्रितः
राजोवाच - धन्योऽहं पावितश्चास्मि जीवितं सफलं मम । यदागत्य गृहे देवा ददुश्च दर्शनं महत्
ब्रुवन्तु कृत्यं देवेशा दुःसाध्यमपि मानवैः । करिष्यामि महत्कार्यं सर्वथा भवतां महत्
देवा ऊचुः - साहाय्यं कुरु राजेन्द्र सखा भव शचीपतेः । संग्रामे जय दैत्येन्द्रान्दुर्जयांस्त्रिदशैरपि
पराशक्तिप्रसादेन दुर्लभं नास्ति ते क्वचित् । विष्णुना प्रेरिताश्चैवमागतास्तव सन्निधौ
राजोवाच - पार्ष्णिग्राहो भवाम्यद्य देवानां सुरसत्तमाः । इन्द्रो मे वाहनं तत्र भवेद्यदि सुराधिपः
संग्रामं तु करिष्यामि दैत्यैर्देवकृतेऽधुना । आरुह्येन्द्रं गमिष्यामि सत्यमेतद्ब्रवीम्यहम्
तदोचुर्वासवं देवाः कर्तव्यं कार्यमद्भुतम् । पत्रं भव नरेन्द्रस्य त्यक्त्वा लज्जां शचीपते