स्वयं राज्यं चकारासौ नृपाणां मदगर्वितः । मेदिनी चातिभारार्ता ब्रह्माणं शरणं गता
दुष्टराजन्यसैन्यायां भारेणातिसमाकुला । अंशावतरणं तत्र गदितं सुरसत्तमैः
वासुदेवः समुत्पन्नः कृष्णः कमललोचनः । देवक्यां देवरूपिण्यां योऽसौ नारायणो मुनिः
तपश्चचार दुःसाध्यं धर्मपुत्रः सनातनः । गङ्गातीरे नरसखः पुण्ये बदरिकाश्रमे
सोऽवतीर्णो यदुकुले वासुदेवोऽपि विश्रुतः । तेनासौ निहतः पापः कंसः कृष्णेन सत्तम
उग्रसेनाय राज्यं वै दत्तं हत्वा खलं सुतम् । कंसस्य श्वशुरः पापो जरासन्धो महाबलः
आगत्य मथुरां क्रोधाच्चकार सङ्गरं मुदा । कृष्णेनासौ जितः संख्ये जरासन्धो महाबलः
प्रेषयामास युद्धाय सबलं यवनं ततः । श्रुत्वाऽऽयान्तं महाशूरं ससैन्यं यवनाधिपम्
[कृष्णस्तु मथुरां त्यक्त्वा पुरीं द्वारावतीमगात् । प्रभग्नां तां पुरीं कृष्णः शिल्पिभिः सह सङ्गतैः ॥ कारयामास दुर्गाढ्यां हट्टशालाविमण्डिताम् । जीर्णोद्धारं पुरः कृत्वा वासुदेवः प्रतापवान् । उग्रसेनं च राजानं चकार वशवर्तिनम् ॥] यादवान्स्थापयामास द्वारवत्यां यदूत्तमः । वासुदेवस्तु तत्राद्य वर्तते बान्धवैः सह
तास्याग्रतः स विख्यातो बलदेवो हलायुधः । शेषांशो मुसली वीरो वरोऽस्तु तव सम्मतः
सङ्कर्षणाय देह्याशु कन्यां कमललोचनाम् । रेवतीं बलभद्राय विवाहविधिना ततः
दत्त्वा पुत्रीं नृपश्रेष्ठ गच्छ त्वं बदरिकाश्रमम् । तपस्तप्तुं सुरारामं पावनं कामदं नृणाम्
व्यास उवाच - इति राजा समादिष्टो ब्रह्मणा पद्मयोनिना । जगाम तरसा राजन् द्वारकां कन्ययान्वितः
ददौ तां बलदेवाय कन्यां वै शुभलक्षणाम् । ततस्तप्त्वा तपस्तीव्रं नृपतिः कालपर्यये
जगाम त्रिदशावासं त्यक्त्वा देहं सरित्तटे । राजोवाच - भगवन्महदाश्चर्यं भवता समुदाहृतम्
रेवतस्तु स्थितस्तत्र ब्रह्मलोके सुतार्थतः । युगानां तु गतं तत्र शतमष्टोत्तरं किल
कन्या वृद्धा न सञ्जाता राजा वातितरां नु किम् । एतावन्तं तथा कालमायुः पूर्णं तयोः कथम्
व्यास उवाच - न जरा क्षुपित्पासा वा न मृत्युर्न भयं पुनः । न तु ग्लानिः प्रभवति ब्रह्मलोके सदानघ
मेरुं गतस्य शर्यातेः सन्तती राक्षसैर्हता । गताः कुशस्थलीं त्यक्त्वा भयभीता इतस्ततः
मनोश्च क्षुवतः पुत्र उत्पन्नो वीर्यवत्तरः । इक्ष्वाकुरिति विख्यातः सूर्यवंशकरस्तु सः
वंशार्थं तप आतिष्ठद्देवीं ध्यात्वा निरन्तरम् । नारदस्योपदेशेन प्राप्य दीक्षामनुत्तमाम्
तस्य पुत्रशतं राजन्निक्ष्वाकोरिति विश्रुतम् । विकुक्षिः प्रथमस्तेषां बलवीर्यसमन्वितः
अयोध्यायां स्थितो राजा इक्ष्वाकुरिति विश्रुतः । शकुनिप्रमुखाः पुत्रा पञ्चाशद्बलवत्तराः
उत्तरापथदेशस्य रक्षितारः कृताः किल । दक्षिणस्यां तथा राजन्नादिष्टास्तेन ते सुताः
चत्वारिंशत्तथाष्टौ च रक्षणार्थं महात्मना । अन्यौ द्वौ संस्थितौ पार्श्वे सेवार्थं तस्य भूपतेः
मान्धातोत्पत्तिवर्णनम् व्यास उवाच - कदाचिदष्टकाश्राद्धे विकुक्षिं पृथिवीपतिः । आज्ञापयदसंमूढो मांसमानय सत्वरम्
मेध्यं श्राद्धार्थमधुना वने गत्वा सूतादरात् । उत्युक्तोऽसौ तथेत्याशु जगाम वनमस्त्रभृत्
गत्वा जघान बाणैः स वराहान्सूकरान्मृगान् । शशांश्चापि परिश्रान्तो बभूवाथ बुभूक्षितः
विस्मृता चाष्टका तस्य शशं चाददसौ वने । शेषं निवेदयामास पित्रे मांसमनुत्तमम्
प्रोक्षणाय समानीतं मांसं दृष्ट्वा गुरुस्तदा । अनर्हमिति तज्ज्ञात्वा चुकोप मुनिसत्तमः