इक्ष्वाकुवंशवर्णनम् जनमेजय उवाच - संशयोऽयं महान् ब्रह्मन् वर्तते मम मानसे । ब्रह्मलोकं गतो राजा रेवतीसंयुतः स्वयम्
मया पूर्वं श्रुतं कृत्स्नं ब्राह्मणेभ्यः कथान्तरे । ब्राह्मणो ब्रह्मविच्छान्तो ब्रह्मलोकमवाप्नुयात्
राजा कथं गतस्तत्र रेवतीसंयुतः स्वयम् । सत्यलोकेऽतिदुष्प्रापे भूर्लोकादिति संशयः
मृतः स्वर्गमवाप्नोति सर्वशास्त्रेषु निर्णयः । (मानुषेण तु देहेन ब्रह्मलोके गतिः कथम् । ) स्वर्गात्पुनः कथं लोके मानुषे जायते गतिः
एतन्मे संस्ययं विद्वंश्छेत्तुमर्हसि साम्प्रतम् । यथा राजा गतस्तत्र प्रष्टुकामः प्रजापतिम्
व्यास उवाच - मेरोस्तु शिखरे राजन् सर्वे लोकाः प्रतिष्ठिताः । इन्द्रलोको वह्निलोको या च संयमिनी पुरी
तथैव सत्यलोकश्च कैलासश्च तथा पुनः । वैकुण्ठश्च पुनस्तत्र वैष्णवं पदमुच्यते
यथार्जुनः शक्रलोके गतः पार्थो धनुर्धरः । पञ्चवर्षाणि कौन्तेयः स्थितस्तत्र सुरालये
मानुषेणैव देहेन वासवस्य च सन्निधौ । तथैवान्येऽपि भूपालाः ककुत्स्थप्रमुखाः किल
स्वर्लोकगतयः पश्चाद्दैत्याश्चापि महाबलाः । जित्वेन्द्रसदनं प्राप्य संस्थितास्तत्र कामतः
महाभिषः पुरा राजा ब्रह्मलोकं गतः स्वराट् । आगच्छन्तीं नृपो गङ्गामपश्यच्चातिसुन्दरीम्
वायुनाम्बरमस्यास्तु दैवादपहृतं नृप । किञ्चिन्नग्ना नृपेणाथ दृष्टा सा सुन्दरी तथा
स्मितं चकार कामार्तः सा च किञ्चिज्जहास वै । ब्रह्मणा तौ तदा दृष्टौ शप्तौ जातौ वसुन्धराम्
वैकुण्ठेऽपि सुराः सर्वे पीडिता दैत्यदानवैः । गत्वा हरिं जगन्नाथमस्तुवन्कमलापतिम्
सन्देहो नात्र कर्तव्यः सर्वथा नृपसत्तम । गम्याः सर्वेऽपि लोकाः स्युर्मानवानां नराधिप
अवश्यं कृतपुण्यानां तापसानां नराधिप । पुण्यसद्भाव एवात्र गमने कारणं नृप
तथैव यजमानानां यज्ञेन भावितात्मनाम् । जनमेजय उवाच - रेवतो रेवतीं कन्यां गृहीत्वा चारुलोचनाम्
ब्रह्मलोकं गतः पश्चात्किं कृतं तेने भूभुजा । ब्रह्मणा किं समादिष्टं कस्मै दत्ता सुता पुनः
तत्सर्वं विस्तराद्बह्मन् कथय त्वं ममाधुना । व्यास उवाच - निशामय महीपाल राजा रेवतकः किल
पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं गतो यदा । आवर्तमाने गान्धर्वे स्थितो लब्धक्षणः क्षणम्
शृण्वन्नतृप्यद्धृष्टात्मा सभायां तु सकन्यकः । समाप्ते तत्र गान्धर्वे प्रणम्य परमेश्वरम्
दर्शयित्वा सुतां तस्मै स्वाभिप्रायं न्यवेदयत् । राजोवाच - वरं कथय देवेश कन्येयं मम पुत्रिका
देया कस्मै मया ब्रह्मन् प्रष्टुं त्वां समुपागतः । बहवो राजपुत्रा मे वीक्षिताः कुलसम्भवाः
तदाज्ञापय सर्वज्ञ योग्यं राजसुतं वरम् । कुलीनं बलवन्तं च सर्वलक्षणसंयुतम्
दातारं धर्मशीलं च राजपुत्रं समादिश । व्यास उवाच - तदाकर्ण्य जगत्कर्ता वचनं नृपतेस्तदा
तमुवाच हसन्वाक्यं दृष्ट्वा कालस्य पर्ययम् । ब्रह्मोवाच - राजपुत्रास्त्वया राजन् वरा ये हृदये कृताः
ग्रस्ताः कालेन ते सर्वे सपितृपौत्रबान्धवाः । सप्तविंशतिमोऽद्यैव द्वापरस्तु प्रवर्तते
वंशजास्ते मृताः सर्वे पुरी दैत्यैर्विलुण्ठिता । सोमवंशोद्भवस्तत्र राजा राज्यं प्रशास्ति हि
उग्रसेन इति ख्यातो मथुराधिपतिः किल । ययातिवंशसम्भूतो राजा माथुरमण्डले
उग्रसेनात्मजः कंसः सुरद्वेषी महाबलः । दैत्यांशः पितरं सोऽपि कारागारं न्यवेशयत्