इन्द्रः स्तम्भितबाहुस्तु मुमुक्षुर्वज्रमन्तिकात् । न शशाक पविं तस्मिन्प्रहर्तुं पाकशासनः
वज्रहस्तः सुरेशानस्तं वीक्ष्य कालसन्निभम् । सस्मार मनसा तत्र गुरुं समयकोविदम्
स्मरणादाजगामाशु बृहस्पतिरुदारधीः । गुरुस्तत्समयं दृष्ट्वा विपत्तिसदृशं महत्
विचार्य मनसा कृत्यं तमुवाच शचीपतिम् । दुःसाध्योऽयं महामन्त्रैस्त्वयं वज्रेण वासव
असुरो मदसंज्ञस्तु यज्ञकुण्डात्समुत्थितः । तपोबलमृषेः सम्यक् च्यवनस्य महाबलः
अनिवार्यो ह्ययं शत्रुस्त्वया देवैस्तथा मया । शरणं याहि देवेश च्यवनस्य महात्मनः
स निवारयिता नूनं कृत्यामात्मकृतां किल । न निवारयितुं शक्ताः शक्तिभक्तरुषं क्वचित्
व्यास उवाच - इत्युक्तो गुरुणा शक्रस्तदागच्छन्मुनिं प्रति । प्रणम्य शिरसा नम्रः तमुवाच भयान्वितः
क्षमस्व मुनिशार्दूल शमयासुरमुद्यतम् । प्रसन्नो भव सर्वज्ञ वचनं ते करोम्यहम्
सोमार्हावश्विनावेतावद्यप्रभृति भार्गव । भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे
मिथ्या ते नोद्यमो ह्येष भवत्येव तपोधन । जाने त्वमपि धर्मज्ञ मिथ्या नैव करिष्यसि
सोमपावश्विनावेतौ त्वत्कृतौ च सदैवे हि । भविष्यतश्च शर्यातेः कीर्तिस्तु विपुला भवेत्
मया यद्धि कृतं कर्म सर्वथा मुनिसत्तम । परीक्षार्थं तु विज्ञेयं तव वीर्यप्रकाशनम्
प्रसादं कुरु मे ब्रह्मन् मदं संहर चोत्थितम् । कल्याणं सर्वदेवानां तथा भूयो विधीयताम्
एवमुक्तस्तु शक्रेण च्यवनः परमार्थवित् । संजहार तपः कोपं समुत्पन्नं विरोधजम्
देवमाश्वास्य संविग्नं भार्गवस्तु मदं ततः । व्यभजत्स्त्रीषु पानेषु द्यूतेषु मृगयासु च
मदं विभज्य देवेन्द्रमाश्वास्य चकितं भिया । संस्थाप्य च सुरान्सर्वान्मखं तस्य न्यवर्तयत्
ततस्तु संस्कृतं सोमं वासवाय महात्मने । अश्विभ्यां सर्वधर्मात्मा पाययामास भार्गवः
एवं तौ च्यवनेनार्यावश्विनौ रविपुत्रकौ । विहितौ सोमपौ राजन् सर्वथा तपसो बलात्
सरस्तदपि विख्यातं जातं यूपविमण्डितम् । आश्रमस्तु मुनेः सम्यक् पृथिव्यां विश्रुतोऽभवत्
शर्यातिरपि सन्तुष्टो ह्यभवत्तेन कर्मणा । यज्ञं समाप्य नगरे जगाम सचिवैर्वृतः
राज्यं चकार धर्मज्ञो मनुपुत्रः प्रतापवान् । आनर्तस्तस्य पुत्रोऽभूदानर्ताद्रेवतोऽभवत्
सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् । आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दमः
तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् । पुत्री च रेवती नाम्ना सुन्दरी शुभलक्षणा
वरयोग्या यदा जाता तदा राजा च रेवतः । चिन्तयामास राजेन्द्रो राजपुत्रान्कुलोद्भवान्
रैवतं नाम च गिरिमाश्रितः पृथिवीपतिः । चकार राज्यं बलवानानर्तेषु नराधिपः
विचिन्त्य मनसा राजा कस्मै देया मया सुता । गत्वा पृच्छामि ब्रह्माणं सर्वज्ञं सुरपूजितम्
इति सञ्चिन्त्य भूपालः सुतामादाय रेवतीम् । ब्रह्मलोकं जगामाशु प्रष्टुकामः पितामहम्
यत्र देवाश्च यज्ञाश्च छन्दांसि पर्वतास्तथा । अब्धयः सिद्धगन्धर्वाः दिव्यरूपधराः स्थिताः
ऋषयः सिद्धगन्धर्वाः पन्नगाश्चारणास्तथा । तस्थुः प्राञ्जलयः सर्वे स्तुवन्तश्च पुरातनाः