च्यवन उवाच - मावमंस्था महात्मानौ रूपद्रविणवर्चसा । यौ चक्रतुर्मां मघवन् वृन्दारकमिवापरम्
ऋते त्वां विबुधाश्चान्ये कथं वाददते ग्रहम् । अश्विनावपि देवेन्द्र देवौ विद्धि परन्तपौ
इन्द्र उवाच - भिषजौ नार्हतः कामं ग्रहं यज्ञे कथञ्चन । यदि दित्ससि मन्दात्मन् शिरश्छेत्स्यामि साम्प्रतम्
व्यास उवाच अनादृत्य तु तद्वाक्यं वासवस्य च भार्गवः । ग्रहं तु ग्राहयामास भर्त्सयन्निव तं भृशम्
सोमपात्रं यदा ताभ्यां गृहीतं तु पिपासया । समीक्ष्य बलभिद्देव इदं वचनमब्रवीत्
आभ्यमर्थाय सोमं त्वं ग्राहयिष्यसि चेत्स्वयम् । वज्रं तु प्रहरिष्यामि विश्वरूपमिवापरम्
वासवेनैवमुक्तस्तु भार्गवश्चातिगर्वितः । जग्राह विधिवत्सोममश्विभ्यामतिमन्युमान्
इन्द्रोऽपि प्राक्षिपत्कोपाद्वज्रमस्मै स्वमायुधम् । पश्यतां सर्वदेवानां सूर्यकोटिसमप्रभम्
प्रेरितं चाशनिं प्रेक्ष्य च्यवनस्तपसा ततः । स्तम्भयामास वज्रं स शक्रस्यामिततेजसः
कृत्यया स महाबाहुरिन्द्रं हन्तुमिहोद्यतः । जुहावाग्नौ श्रुतं हव्यं मन्त्रेण मुनिसत्तमः
तत्र कृत्या समुत्पन्ना च्यवनस्य तपोबलात् । प्रबलः पुरुषः क्रूरो बृहत्कायो महासुरः
मदो नाम महाघोरो भयदः प्राणिनामिह । शरीरे पर्वताकारस्तीक्ष्णदंष्ट्रो मयानकः
चतस्रश्चायता दंष्ट्रा योजनानां शतं शतम् । इतरे त्वस्य दशना बभूवुर्दशयोजनाः
बाहू पर्वतसंकाशावायतौ क्रूरदर्शनौ । जिह्वा तु भीषणा क्रूरा लेलिहाना नभस्तलम्
ग्रीवा तु गिरिशृङ्गाभा कठिना भीषणा भृशम् । नखा व्याघ्रनखप्रख्याः केशाश्चातीवभीषणाः
शरीरं कज्जलाभं च तस्य चास्यं भयानकम् । नेत्रे दावानलप्रख्ये भीषणेऽतिभयानके
हनुरेका स्थिता तस्य भूमावेका दिवं गता । एवंविधः समुत्पन्नो मदो नाम बृहत्तनुः
तं विलोक्य सुराः सर्वे भयमाजग्मुरंहसा । इन्द्रोऽपि भयसंत्रस्तो युद्धाय न मनो दधे
दैत्योऽपि वदने कामं वज्रमादाय संस्थितः । व्याप्तं नभो घोरदृष्टिर्ग्रसन्निव जगत्त्रयम्
स भक्ष्ययिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् । चक्रुशुश्च सुराः सर्वे हा हताः स्मेति संस्थिताः
इन्द्रः स्तम्भितबाहुस्तु मुमुक्षुर्वज्रमन्तिकात् । न शशाक पविं तस्मिन्प्रहर्तुं पाकशासनः
वज्रहस्तः सुरेशानस्तं वीक्ष्य कालसन्निभम् । सस्मार मनसा तत्र गुरुं समयकोविदम्
स्मरणादाजगामाशु बृहस्पतिरुदारधीः । गुरुस्तत्समयं दृष्ट्वा विपत्तिसदृशं महत्
विचार्य मनसा कृत्यं तमुवाच शचीपतिम् । दुःसाध्योऽयं महामन्त्रैस्त्वयं वज्रेण वासव
असुरो मदसंज्ञस्तु यज्ञकुण्डात्समुत्थितः । तपोबलमृषेः सम्यक् च्यवनस्य महाबलः
अनिवार्यो ह्ययं शत्रुस्त्वया देवैस्तथा मया । शरणं याहि देवेश च्यवनस्य महात्मनः
स निवारयिता नूनं कृत्यामात्मकृतां किल । न निवारयितुं शक्ताः शक्तिभक्तरुषं क्वचित्
व्यास उवाच - इत्युक्तो गुरुणा शक्रस्तदागच्छन्मुनिं प्रति । प्रणम्य शिरसा नम्रः तमुवाच भयान्वितः
क्षमस्व मुनिशार्दूल शमयासुरमुद्यतम् । प्रसन्नो भव सर्वज्ञ वचनं ते करोम्यहम्
सोमार्हावश्विनावेतावद्यप्रभृति भार्गव । भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे