नाहं तव सुता तात तथा स्यां पापकारिणी । यथा त्वं मन्यसे राजन् विमूढो रूपसंशये
प्रणम त्वं मुनिं राजन् भार्गवं च्यवनं पितः । आपृच्छ कारणं सर्वं कथियिष्यति विस्तरम्
इति श्रुत्वा वचं पुत्र्या शर्यातिस्त्वरितस्तदा । प्रणनाम मुनिं तत्र गत्वा पप्रच्छ सादरम्
राजोवाच - कथयस्व स्ववृत्तान्तं भार्गवाशु यथोचितम् । नयने च कथं प्राप्ते क्व गता ते जरा पुनः
संशयोऽयं महान्मेऽस्ति रूपं दृष्ट्वातिसुन्दरम् । वद विस्तरतो ब्रह्मन् श्रुत्वाहं सुखमाप्नुयाम्
च्यवन उवाच - नासत्यावत्र सम्प्राप्तौ देवानां भिषजावुभौ । उपकारः कृतस्ताभ्यां कृपया नृपसत्तम
मया ताभ्यां वरो दत्त उपकारस्य हेतवे । करिष्यामि मखे राज्ञो भवन्तौ सोमपायिनौ
एवं मया वयः प्राप्तं लोचने विमले तथा । स्वस्थो भव महाराज संविशस्वासने शुभे
इत्युक्तः स तु विप्रेण सभार्यः पृथिवीपतिः । सुखोपविष्टः कल्याणीः कथाश्चक्रे महात्मना
अथैनं भार्गवं प्राह राजानं परिसान्त्वयन् । याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय
मया प्रतिश्रुतं ताभ्यां कर्तव्यौ सोमपौ युवाम् । तत्कर्तव्यं नृपश्रेष्ठ तव यज्ञेऽतिविस्तरे
इन्द्रं निवारयिष्यामि क्रुद्धं तेजोबलेन वै । पाययिष्यामि राजेन्द्र सोमं सोममखे तव
ततः परमसन्तुष्टः शर्यातिः पृथिवीपतिः । च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत्
सम्मान्य च्यवनं राजा जगाम नगरं प्रति । सभार्यश्चातिसन्तुष्टः कुर्वन्वार्तां मुनेः किल
प्रशस्तेहनि यज्ञीये सर्वकामसमृद्धिमान् । कारयामास शर्यातिर्यज्ञायतनमुत्तमम्
समानीय मुनीन्पूज्यान्वसिष्ठप्रमुखानसौ । भार्गवो याजयामास च्यवनः पृथिवीपतिम्
वितते तु तथा यज्ञे देवाः सर्वे सवासवाः । आजग्मुश्चाश्विनौ तत्र सोमार्थमुपजग्मतुः
इन्द्रस्तु शङ्कितस्तत्र वीक्ष्य तावश्विनावुभौ । पप्रच्छ च सुरान्सर्वान्किमेतौ समुपागतौ
चिकित्सकौ न सोमार्हौ केनानीताविहेति च । नाब्रुवन्नमरास्तत्र राज्ञस्तु वितते मखे
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा । शक्रस्तं वारयामास मा गृहाणैतयोर्ग्रहम्
तमाह च्यवनस्तत्र कथमेतौ रवेः सुतौ । न ग्रहार्हौ च नासत्यौ ब्रूहि सत्यं शचीपते
न सङ्करौ समुत्पन्नौ धर्मपत्नीसुतौ रवेः । केन दोषेण देवेन्द्र नार्हौ सोमं भिषग्वरौ
निर्णयोऽत्र मखे शक्र कर्तव्यः सर्वदैवतैः । ग्राहयिष्यामहं सोमं कृतौ तौ सोमपौ मया
प्रेरितोऽसौ मया राजा मखाय मघवन्किल । एतदर्थं करिष्यामि सत्यं मे वचनं विभो
आभ्यामुपकृतः शक्र तथा दत्तं नवं वयः । तस्मात्प्रत्युपकारस्तु कर्तव्यः सर्वथा मया
इन्द्र उवाच - चिकित्सकौ कृतावेतौ नासत्यौ निन्दितौ सुरैः । उभावेतौ न सोमार्हौ मा गृहाणैतयोर्ग्रहम्
च्यवन उवाच - अहल्याजार संयच्छ कोपं चाद्य निरर्थकम् । वृत्रघ्न किं हि नासत्यौ न सोमार्हौ सुरात्मजौ
एवं विवादे समुपस्थिते च न कोऽपि वाचं तमुवाच भूप । ग्रहं तयोर्भार्गवतिग्मतेजाः संग्राहयामास तपोबलेन
रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् व्यास उवाच - दत्ते ग्रहे तु राजेन्द्र वासवः कुपितौ भृशम् । प्रोवाच च्यवनं तत्र दर्शयन्बलमात्मनः
मा ब्रह्मबन्धो मर्यादामिमां त्वं कर्त्तुमर्हसि । वधिष्यामि द्विषन्तं त्वां विश्वरूपमिवाऽपरम्