तं विलोक्यामराकारं विस्मयं नृपतिर्गतः । किं कृतं कुत्सितं कर्म पुत्र्या लोकविगर्हितम्
निहतोऽसौ मुनिर्वृद्धस्त्वनयान्यः पतिः कृतः । कामपीडितया कामं प्रशान्तोऽप्यतिनिर्धनः
दुःसहयोऽयं पुष्पधन्वा विशेषेण च यौवने । कुले कलङ्कः सुमहाननया मानवे कृतः
धिक्तस्य जीवितं लोके यस्य पुत्री हि कुत्सिता । सर्वपापैस्तु दुःखाय पुत्री भवति देहिनाम्
मया त्वनुचितं कर्म कृतं स्वार्थस्य सिद्धये । वृद्धायान्धाय या दत्ता पुत्री सर्वात्मना किल
कन्या योग्याय दातव्या पित्रा सर्वात्मना किल । तादृशं हि फलं प्राप्तं यादृशं वै कृतं मया
हन्मि चेदद्य तनयां दुःशीलां पापकारिणीम् । स्त्रीहत्या दुस्तरा स्यान्मे तथा पुत्र्या विशेषतः
मनुवंशस्तु विख्यातः सकलङ्कः कृतो मया । लोकापवादो बलवान्दुस्त्याज्या स्नेहशृङ्खला
किं करोमीति चिन्ताब्धौ यदा मग्नः स पार्थिवः । सुकन्यया तदा दैवाद्दृष्टश्चिन्ताकुलः पिता
सा दृष्ट्वा तं जगामाशु सुकन्या पितुरन्तिके । गत्वा पप्रच्छ भूपालं प्रेमपूरितमानसा
किं विचारयसे राजंश्चिन्ताव्याकुलिताननः । उपविष्टं मुनिं वीक्ष्य युवानमम्बुजेक्षणम्
एह्येहि पुरुषव्याघ्र प्रणमस्व पतिं मम । मा विषादं नृपश्रेष्ठ साम्प्रतं कुरु मानव
व्यास उवाच - इति पुत्र्या वचं श्रुत्वा शर्यातिः क्रोधपीडितः । प्रोवाच वचनं राजा पुरःस्थां तनयां ततः
राजोवाच - क्व मुनिश्च्यवनः पुत्रि वृद्धोऽन्धस्तापसोत्तमः । कोऽयं युवा मदोन्मत्तः सन्देहोऽत्र महान्मम
मुनिः किं निहतः पापे त्वया दुष्कृतकारिणि । नूतनोऽसौ पतिः कामात्कृतः कुलविनाशिनि
सोऽहं चिन्तातुरस्तं न पश्याम्याश्रमसंस्थितम् । किं कृतं दुष्कृतं कर्म कुलटाचरितं किल
निमग्नोऽहं दुराचारे शोकाब्धौ त्वत्कृतेऽधुना । दृष्ट्वैनं पुरुषं दिव्यमदृष्ट्वा च्यवनं मुनिम्
विहस्य तमुवाचाशु सा श्रुत्वा वचनं पितुः । गृहीत्वाऽऽनीय पितरं भर्तुरन्तिकमादरात्
च्यवनोऽसौ मुनिस्तात जामाता ते न संशयः । अश्विभ्यामीदृशः कान्तः कृतः कमललोचनः
यदृच्छयात्र सम्प्राप्तौ नासत्यावाश्रमे मम । ताभ्यां करुणया नूनं च्यवनस्तादृशः कृतः
नाहं तव सुता तात तथा स्यां पापकारिणी । यथा त्वं मन्यसे राजन् विमूढो रूपसंशये
प्रणम त्वं मुनिं राजन् भार्गवं च्यवनं पितः । आपृच्छ कारणं सर्वं कथियिष्यति विस्तरम्
इति श्रुत्वा वचं पुत्र्या शर्यातिस्त्वरितस्तदा । प्रणनाम मुनिं तत्र गत्वा पप्रच्छ सादरम्
राजोवाच - कथयस्व स्ववृत्तान्तं भार्गवाशु यथोचितम् । नयने च कथं प्राप्ते क्व गता ते जरा पुनः
संशयोऽयं महान्मेऽस्ति रूपं दृष्ट्वातिसुन्दरम् । वद विस्तरतो ब्रह्मन् श्रुत्वाहं सुखमाप्नुयाम्
च्यवन उवाच - नासत्यावत्र सम्प्राप्तौ देवानां भिषजावुभौ । उपकारः कृतस्ताभ्यां कृपया नृपसत्तम
मया ताभ्यां वरो दत्त उपकारस्य हेतवे । करिष्यामि मखे राज्ञो भवन्तौ सोमपायिनौ
एवं मया वयः प्राप्तं लोचने विमले तथा । स्वस्थो भव महाराज संविशस्वासने शुभे
इत्युक्तः स तु विप्रेण सभार्यः पृथिवीपतिः । सुखोपविष्टः कल्याणीः कथाश्चक्रे महात्मना
अथैनं भार्गवं प्राह राजानं परिसान्त्वयन् । याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय