मुनिमामन्त्र्य तरसा गमनायोद्यतावुभौ । लब्ध्वा तु च्यवनो रूपं नेत्रे भार्यां च यौवनम्
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः । उपकारः कृतोऽयं मे युवाभ्यां सुरसत्तमौ
किं ब्रवीमि सुखं प्राप्तं संसारेऽस्मिन्ननुत्तमे । प्राप्य भार्यां सुकेशान्तां दुःखं मेऽभवदन्वहम्
अन्धस्य चातिवृद्धस्य भोगहीनस्य कानने । युवाभ्यां नयने दत्ते यौवनं रूपमद्भुतम्
सम्पादितं ततं किञ्चिदुपकर्तुमहं ब्रुवे । उपकारिणि मित्रे यो नोपकुर्यात्कथञ्चन
तं धिगस्तु नरं देवौ भवेच्च ऋणवान्भुवि । तस्माद्वां वाञ्छितं किञ्चिद्दातुमिच्छामि साम्प्रतम्
आत्मनो ऋणमोक्षाय देवेशौ नूतनस्य च । प्रार्थितं वां प्रदास्यामि यदलभ्यं सुरासुरैः
ब्रुवाथां वां मनोद्दिष्टं प्रीतोऽस्मि सुकृतेन वाम् । श्रुत्वा तौ तु मुनेर्वाक्यमभिमन्त्र्य परस्परम्
तमूचतुर्मुनिश्रेष्ठं सुकन्यासहितं स्थितम् । मुने पितुः प्रसादेन सर्वं नो मनसेप्सितम्
उत्कण्ठा सोमपानस्य वर्तते नौ सुरैः सह । भिषजाविति देवेन निषिद्धौ चमसग्रहे
शक्रेण वितते यज्ञे ब्रह्मणः कनकाचले । तस्मात्त्वमपि धर्मज्ञ यदि शक्तोऽसि तापस
कार्यमेतद्धि कर्तव्यं वाञ्छितं नौ सुसम्मतम् । एतद्विज्ञाय वा ब्रह्मन्कुरु वां सोमपायिनौ
पिपासास्ति सुदुष्प्रापपा त्वत्तः समुपयास्यति । च्यवनस्तु तयोः प्राह तच्छ्रुत्वा वचनं मृदु
यदहं रूपसम्पन्नो वयसा च समन्वितः । कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिति
तस्माद्युवां करिष्यामि प्रीत्याहं सोमपायिनौ । मिषतो देवराजस्य सत्यमेतद्ब्रवीम्यहम्
राज्ञस्तु वितते यज्ञे शर्यातेरमितद्युतेः । इत्याकर्ण्य वचो हृष्टौ तौ दिवं प्रतिजग्मतुः
च्यवनस्तां गृहीत्वा तु जगामाश्रममण्डलम्
च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् जनमेजय उवाच - च्यवनेन कथं वैद्यौ तौ कृतौ सोमपायिनौ । वचनं च कथं सत्यं जातं तस्य महात्मनः
मानुषस्य बलं कीदृग्देवराजबलं प्रति । निषिद्धौ भिषजौ तेन कृतौ तौ सोमपायिनौ
धर्मनिष्ठ तदाश्चर्यं विस्तरेण वद प्रभो । चरितं च्यवनस्याद्य श्रोतुकामोऽस्मि सर्वथा
व्यास उवाच - निशामय महाराज चरितं परमाद्भुतम् । च्यवनस्य मखे तस्मिञ्छर्यातेर्भुवि भारत
सुकन्यां सुन्दरीं प्राप्य च्यवनः सुरसन्निभः । विजहार प्रसन्नात्मा देवकन्यामिवापरः
कदाचिदथ शर्यातिभार्या चिन्तातुरा भृशम् । पतिं प्राह वेपमाना वचनं रुदती प्रिया
राजन् पुत्री त्वया दत्ता मुनयेऽन्धाय कानने । मृता जीवति वा सा तु द्रष्टव्या सर्वथा त्वया
गच्छ नाथ मुनेस्तावदाश्रमं द्रष्टुमादरात् । किं करोति सुकन्या सा प्राप्य नाथं तथाविधम्
पुत्रीदुःखेन राजर्षे दग्धास्मि सर्वथा हृदि । तामानय विशालाक्षीं तपःक्षामां मदन्तिके
पश्यामि सर्वथा पुत्रीं कृशाङ्गीं वल्कलावृताम् । अन्धं पतिं समासाद्य दुःखभाजं कृशोदरीम्
शर्यातिरुवाच - गच्छामोऽद्य विशालाक्षि सुकन्यां द्रष्टुमादरात् । प्रियपुत्रीं वरारोहे मुनिं तं संशितव्रतम्
व्यास उवाच - एवमुक्त्व तु शर्यातिः कामिनीं शोकसंकुलाम् । जगाम रथमारुह्य त्वरितश्चाश्रमं मुनेः
गत्वाऽऽश्रमसमीपे तु तमपश्यन्महीपतिः । नवयौवनसम्पन्नं देवपुत्रोपमं मुनिम्