सुकन्योवाच - स्वामिन् सूर्यसुतौ देवौ सम्प्राप्तौ च्यवनाश्रमे । दृष्टौ मया दिव्यदेहौ नासत्यौ भृगुनन्दन
वीक्ष्य मां चारुसर्वाङ्गीं जातौ कामातुरावुभौ । कथितं वचनं स्वामिन् पतिं ते नवयौवनम्
दिव्यदेहं करिष्यावश्चक्षुष्मन्तं मुनिं किल । एतेन समयेनाद्य तं शृणु त्वं मयोदितम्
समावयवरूपं च करिष्यावः पतिं तव । तत्र त्रयाणामस्माकं पतिमेकतमं वृणु
तच्छ्रुत्वाहमिहायाता प्रष्टुं त्वां कार्यमद्भुतम् । किं कर्तव्यमतः साधो ब्रूह्यस्मिन्कार्यसङ्कटे
देवमायापि दुर्ज्ञेया न जाने कपटं तयोः । यदाज्ञापय सर्वज्ञ तत्करोमि तवेप्सितम्
च्यवन उवाच - गच्छ कान्तेऽद्य नासत्यौ वचनान्मम सुव्रते । आनयस्व समीपं मे शीघ्रं देवभिषग्वरौ
क्रियतामाशु तद्वाक्यं नात्र कार्या विचारणा व्यास उवाच - एवं सा समनुज्ञाता तत्र गत्वा वचोऽब्रवीत्
क्रियतामाशु नासत्यौ समयेन सुरोत्तमौ । तच्छ्रुत्वा चाश्विनौ वाक्यं तस्यास्तौ तत्र चागतौ
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः । रूपार्थं च्यवनस्तूर्णं ततोऽम्भः प्रविवेश ह
अश्विनावपि पश्चात्तत्प्रविष्टौ सर उत्तमम् । ततस्ते निःसृतास्तस्मात्सरसस्तत्क्षणात्त्रयः । तुल्यरूपा दिव्य देहा युवानः सदृशाः किल । दिव्यकुण्डलभूषाढ्याः समानावयवास्तथा
तेऽब्रुवन्सहिताः सर्वे वृणीष्व वरवर्णिनि । अस्माकमीप्सितं भद्रे पतिं त्वममलानने
यस्मिन्वाप्यधिका प्रीतिस्तं वृणुष्व वरानने । व्यास उवाच - सा दृष्ट्वा तुल्यरूपांस्तान्समानवयसस्तथा
एकस्वरांस्तुल्यवेषांस्त्रीन्वै देवसुतोपमान् । सा तु संशयमापन्ना वीक्ष्य तान्सदृशाकृतीन्
अजानन्ती पतिं सम्यग्व्याकुला समचिन्तयत् । किं करोमि त्रयस्तुल्याः कं वृणोमि न वेद्म्यहम्
पतिं देवसुता ह्येते संशये पतितास्म्यहम् । इन्द्रजालमिदं सम्यग्देवाभ्यामिह कल्पितम्
कर्तव्यं किं मया चात्र मरणं समुपागतम् । न मया पतिमुत्सृज्य वरणीयः कथञ्चन
देवस्त्वाधुनिकः कश्चिदित्येषा मम धारणा । इति सञ्चिन्त्य मनसा परां विश्वेश्वरीं शिवाम्
दध्यौ भगवतीं देवीं तुष्टाव च कृशोदरी । सुकन्योवाच - शरणं त्वां जगन्मातः प्राप्तास्मि भृशदुःखिता
रक्ष मेऽद्य सतीधर्मं नमामि चरणौ तव । नमः पद्मोद्भवे देवि नमः शङ्करवल्लभे
विष्णुप्रिये नमो लक्ष्मि वेदमातः सरस्वति । इदं जगत्त्वया सृष्टं सर्वं स्थावरजङ्गमम्
पासि त्वमिदमव्यग्रा तथात्सि लोकशान्तये । ब्रह्मविष्णुमहेशानां जननी त्वं सुसम्मता
बुद्धिदासि त्वमज्ञानां ज्ञानिनां मोक्षदा सदा । आज्ञा त्वं प्रकृतिः पूर्णा पुरुषप्रियदर्शना
भुक्तिमुक्तिप्रदासि त्वं प्राणिनां विशदात्मनाम् । अज्ञानां दुःखदा कामं सत्त्वानां सुखसाधना
सिद्धिदा योगिनामम्ब जयदा कीर्तिदा पुनः । शरणं त्वां प्रपन्नास्मि विस्मयं परमं गता
पतिं दर्शय मे मातर्मग्नास्मि शोकसागरे । देवाभ्यां चरितं कूटं कं वृणोमि विमोहिता
पतिं दर्शय सर्वज्ञे विदित्वा मे सतीव्रतम् । व्यास उवाच - एवं स्तुता तदा देवा तथा त्रिपुरसुन्दरी
हृदयेऽस्यास्तदा ज्ञानं ददावाशु सुखोदयम् । निश्चित्य मनसा तुल्यवयोरूपधरान्सती
प्रसमीक्ष्य तु तान् सर्वान्वव्रे बाला स्वकं पतिम् । वृतेऽथ च्यवने देवौ सन्तुष्टौ तौ बभूवतुः
सतीधर्मं समालोक्य सम्प्रीतौ ददतुर्वरम् । भगवत्याः प्रसादेन प्रसन्नौ तौ सुरौत्तमौ