देवौ वां रविपुत्रौ च सर्वज्ञौ सुरसम्मतौ । सतीं मां धर्मशीलां च नैवं वदितुमर्हथः
पित्रा दत्ता सुरश्रेष्ठौ मुनये योगधर्मिणे । कथं गच्छामि तं मार्गं पुंश्चलीगणसेवितम्
द्रष्टायं सर्वलोकस्य कर्मसाक्षी दिवाकरः । कश्यपाच्चैव सम्भूतो नैवं भाषितुमर्हथः
कुलकन्या पतिं त्यक्त्वा कथमन्यं भजेन्नरम् । असारेऽस्मिन्हि संसारे जानन्तौ धर्मनिर्णयम्
यथेच्छं गच्छतं देवौ शापं दास्यामि वानघौ । सुकन्याहं च शर्यातेः पतिभक्तिपरायणा
व्यास उवाच - इत्याकर्ण्य वचस्तस्या नासत्यौ विस्मितौ भृशम् । तावब्रूतां पुनस्त्वेनां शङ्कमानौ भयं मुनेः
राजपुत्रि प्रसन्नौ ते धर्मेण वरवर्णिनि । वरं वरय सुश्रोणि दास्यावः श्रेयसे तव
जानीहि प्रमदे नूनं आवां देवभिषग्वरौ । युवानं रूपसम्पन्नं प्रकुर्यावः पतिं तव
ततस्त्रयाणामस्माकं पतिमेकतमं वृणु । समानरूपदेहानां मध्ये चातुर्यपण्डिते
सा तर्योवचनं श्रुत्वा विस्मिता स्वपतिं तदा । गत्वोवाच तयोर्वाक्यं ताभ्यामुक्तं यदद्भुतम्
सुकन्योवाच - स्वामिन् सूर्यसुतौ देवौ सम्प्राप्तौ च्यवनाश्रमे । दृष्टौ मया दिव्यदेहौ नासत्यौ भृगुनन्दन
वीक्ष्य मां चारुसर्वाङ्गीं जातौ कामातुरावुभौ । कथितं वचनं स्वामिन् पतिं ते नवयौवनम्
दिव्यदेहं करिष्यावश्चक्षुष्मन्तं मुनिं किल । एतेन समयेनाद्य तं शृणु त्वं मयोदितम्
समावयवरूपं च करिष्यावः पतिं तव । तत्र त्रयाणामस्माकं पतिमेकतमं वृणु
तच्छ्रुत्वाहमिहायाता प्रष्टुं त्वां कार्यमद्भुतम् । किं कर्तव्यमतः साधो ब्रूह्यस्मिन्कार्यसङ्कटे
देवमायापि दुर्ज्ञेया न जाने कपटं तयोः । यदाज्ञापय सर्वज्ञ तत्करोमि तवेप्सितम्
च्यवन उवाच - गच्छ कान्तेऽद्य नासत्यौ वचनान्मम सुव्रते । आनयस्व समीपं मे शीघ्रं देवभिषग्वरौ
क्रियतामाशु तद्वाक्यं नात्र कार्या विचारणा व्यास उवाच - एवं सा समनुज्ञाता तत्र गत्वा वचोऽब्रवीत्
क्रियतामाशु नासत्यौ समयेन सुरोत्तमौ । तच्छ्रुत्वा चाश्विनौ वाक्यं तस्यास्तौ तत्र चागतौ
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः । रूपार्थं च्यवनस्तूर्णं ततोऽम्भः प्रविवेश ह
अश्विनावपि पश्चात्तत्प्रविष्टौ सर उत्तमम् । ततस्ते निःसृतास्तस्मात्सरसस्तत्क्षणात्त्रयः । तुल्यरूपा दिव्य देहा युवानः सदृशाः किल । दिव्यकुण्डलभूषाढ्याः समानावयवास्तथा
तेऽब्रुवन्सहिताः सर्वे वृणीष्व वरवर्णिनि । अस्माकमीप्सितं भद्रे पतिं त्वममलानने
यस्मिन्वाप्यधिका प्रीतिस्तं वृणुष्व वरानने । व्यास उवाच - सा दृष्ट्वा तुल्यरूपांस्तान्समानवयसस्तथा
एकस्वरांस्तुल्यवेषांस्त्रीन्वै देवसुतोपमान् । सा तु संशयमापन्ना वीक्ष्य तान्सदृशाकृतीन्
अजानन्ती पतिं सम्यग्व्याकुला समचिन्तयत् । किं करोमि त्रयस्तुल्याः कं वृणोमि न वेद्म्यहम्
पतिं देवसुता ह्येते संशये पतितास्म्यहम् । इन्द्रजालमिदं सम्यग्देवाभ्यामिह कल्पितम्
कर्तव्यं किं मया चात्र मरणं समुपागतम् । न मया पतिमुत्सृज्य वरणीयः कथञ्चन
देवस्त्वाधुनिकः कश्चिदित्येषा मम धारणा । इति सञ्चिन्त्य मनसा परां विश्वेश्वरीं शिवाम्
दध्यौ भगवतीं देवीं तुष्टाव च कृशोदरी । सुकन्योवाच - शरणं त्वां जगन्मातः प्राप्तास्मि भृशदुःखिता
रक्ष मेऽद्य सतीधर्मं नमामि चरणौ तव । नमः पद्मोद्भवे देवि नमः शङ्करवल्लभे