तां दृष्ट्वा देवकन्याभां गत्वा चान्तिकमादरात् । ऊचतुः समभिद्रुत्य नासत्यावतिमोहितौ
क्षणं तिष्ठ वरारोहे प्रष्टुं त्वां गजगामिनि । आवां देवसुतौ प्राप्तौ ब्रूहि सत्यं शुचिस्मिते
पुत्री कस्य पतिः कस्ते कथमुद्यानमागता । एकाकिनी तडागेऽस्मिन् स्नानार्थं चारुलोचने
द्वितीया श्रीरिवाभासि कान्त्या कमललोचने । इच्छामस्तु वयं ज्ञातुं तत्त्वमाख्याहि शोभने
कोमलौ चरणौ कान्ते स्थितौ भूमावनावृतौ । हृदाये कुरुतः पीडां चलन्तौ चललोचने
विमानार्हासि तन्वङ्गि कथं पद्भ्यां व्रजस्यदः । अनावृतात्र विपिने किमर्थं गमनं तव
दासीशतसमायुक्ता कथं च त्वं विनिर्गता । राजपुत्र्यप्सरा वासि वद सत्यं वरानने
धन्या माता यतो जाता धन्योऽसौ जनकस्तव । वक्तुं त्वां नैव शक्तौ च भर्तुर्भाग्यं तवानघे
देवलिकाधिका भूमिरियं चैव सुलोचने । प्रचलंश्चरणस्तेऽद्य सम्पावयति भूतलम्
सौभाग्याश्च मृगाः कामं ये त्वां पश्यन्ति वै वने । ये चान्ये पक्षिणः सर्वे भूरियं चातिपावना
स्तुत्यालं तव चात्यर्थं सत्यं ब्रूहि सुलोचने । पिता कस्ते पतिः क्वासौ द्रष्टुमिच्छास्ति सादरम्
व्यास उवाच - तयोरिति वचः श्रुत्वा राजकन्यातिसुन्दरी । तावुवाच त्रपाक्रान्ता देवपुत्री नृपात्मजा
शर्यातितनयां मां वां वित्तं भार्यां मुनेरिह । च्यवनस्य सतीं कान्तां पित्रा दत्तां यदृच्छया
पतिरन्धोऽस्ति मे देवौ वृद्धश्चातीव तापसः । तस्य सेवामहोरात्रं करोमि प्रीतिमानसा
कौ युवां किमिहायातौ पतिस्तिष्ठति चाश्रमे । तत्रागत्य प्रकुरुतमाश्रमं चाद्य पावनम्
तदाकर्ण्य वचो दस्रावूचतुस्तां नराधिप । कथं त्वमपि कल्याणि पिता दत्ता तपस्विने
भ्राजसेऽस्मिन्वनोद्देशे विद्युत्सौदामिनी यथा । न देवेष्वपि तुल्या हि तव दृष्टास्ति भामिनि
त्वं दिव्याम्बरयोग्यासि शोभसे नाजिनैर्वृता । सर्वाभरणसंयुक्ता नीलालकवरूथिनी
अहो विधेर्दुष्कलितं विचेष्टितं यदत्र रम्भोरु वने विषीदसि । विशालनेत्रेऽन्धमिमं पतिं प्रिये मुनिं समासाद्य जरातुरं भृशम्
वृथा व्रतस्तेन भृशं न शोभसे नवं वयः प्राप्य सुनृत्यपण्डिते । मनोभवेनाशु शराः सुसन्धिताः पतन्ति कस्मिन्पतिरीदृशस्तव
त्वमन्धभार्या नवयौवनान्विता कृतासि धात्रा ननु मन्दबुद्धिना । न चैनमर्हस्यसितायतेक्षणे पतिं त्वमन्यं कुरु चारुलोचने
वृथैव ते जीवितमम्बुजेक्षणे पतिं च सम्प्राप्य मुनिं गतेक्षणम् । वने निवासं च तथाजिनाम्बर- प्रधारणं योग्यतरं न मन्महे
अतोऽनवद्याङ्ग्युभयोस्त्वमेकं वरं कुरुषावहिता सुलोचने । किं यौवनं मानिनि सङ्करोषि वृथा मुनिं सुन्दरि सेवमाना
किं सेवसे भाग्यविवर्जितं तं समुज्झितं पोषणरक्षणाभ्याम् । त्यक्त्वा मुनिं सर्वसुखापवर्जितं भजानवद्याङ्ग्युभयोस्त्वमेकम्
त्वं नन्दने चैत्ररथे वने च कुरुष्व कान्ते प्रथितं विहारम् । अन्धेन वृद्धेन कथं हि कालं विनेष्यसे मानिनि मानहीनम्
भूपात्मजा त्वं शुभलक्षणा च जानासि संसारविहारभावम् । भाग्येन हीना विजने वनेऽत्र कालं कथं वाहयसे वृथा च
तस्माद्भजस्व पिकभाषिणि चारुवक्त्रे एवं द्वयोस्तव सुखाय विशालनेत्रे । देवालयुषे च कृशोदरि भुङ्क्ष्व भोगान् त्यक्त्वा मुनिं जरठमाशु नृपेन्द्रपुत्रि
किं ते सुखं चात्र वने सुकेशि वृद्धेन सार्धं विजने मृगाक्षि । सेवा तथान्धस्य नवं वयश्च किं ते मतं भूपतिपुत्रि दुःखम्
शशिमुखि त्वमतीव सुकोमला फलजलाहरणं तव नोचितम्
अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् व्यास उवाच - तयोस्तद्भाषितं श्रुत्वा वेपमाना नृपात्मजा । धैर्यमालम्ब्य तौ तत्र बभाषे मितभाषिणी