स्थानाद्दूरे च संस्थाप्य दूरं गत्वा स्थिराभवत् । कृतशौचं पतिं ज्ञात्वा गत्वा जग्राह तं पुनः
आनीयाश्रममव्यग्रा चोपवेश्यासने शुभे । मृज्जलाभ्यां च प्रक्षाल्य पादावस्य यथाविधि
दत्त्वाऽऽचमनपात्रं तु दन्तधावनमाहरत् । समर्प्य दन्तकाष्ठं च यथोक्तं नृपनन्दिनी
चकारोष्णं जलं शुद्धं समानीतं सुपावनम् । स्नानार्थं जलमाहृत्य पप्रच्छ प्रणयान्विता
किमाज्ञापयसे ब्रह्मन् कृतं वै दन्तधावनम् । उष्णोदकं सुसम्पन्नं कुरु स्नानं समन्त्रकम्
वर्तते होमकालोऽयं सन्ध्या पूर्वा प्रवर्तते । विधिवद्हवनं कृत्वा देवतापूजनं कुरु
एवं कन्या पतिं लब्ध्वा तपस्विनमनिन्दिता । नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च
अग्नीनामतिथीनां च शुश्रूषां कुर्वती सदा । आराधयामास मुदा च्यवनं सा शुभानना
कस्मिंश्चिदथ काले तु रविजावश्विनावुभौ । च्यवनस्याश्रमाभ्याशे क्रीडमानौ समगतौ
जले स्नात्वा तु तां कन्यां निवृत्तां स्वाश्रमं प्रति । गच्छन्तीं चारुसर्वाङ्गीं रविपुत्रावपश्यताम्
तां दृष्ट्वा देवकन्याभां गत्वा चान्तिकमादरात् । ऊचतुः समभिद्रुत्य नासत्यावतिमोहितौ
क्षणं तिष्ठ वरारोहे प्रष्टुं त्वां गजगामिनि । आवां देवसुतौ प्राप्तौ ब्रूहि सत्यं शुचिस्मिते
पुत्री कस्य पतिः कस्ते कथमुद्यानमागता । एकाकिनी तडागेऽस्मिन् स्नानार्थं चारुलोचने
द्वितीया श्रीरिवाभासि कान्त्या कमललोचने । इच्छामस्तु वयं ज्ञातुं तत्त्वमाख्याहि शोभने
कोमलौ चरणौ कान्ते स्थितौ भूमावनावृतौ । हृदाये कुरुतः पीडां चलन्तौ चललोचने
विमानार्हासि तन्वङ्गि कथं पद्भ्यां व्रजस्यदः । अनावृतात्र विपिने किमर्थं गमनं तव
दासीशतसमायुक्ता कथं च त्वं विनिर्गता । राजपुत्र्यप्सरा वासि वद सत्यं वरानने
धन्या माता यतो जाता धन्योऽसौ जनकस्तव । वक्तुं त्वां नैव शक्तौ च भर्तुर्भाग्यं तवानघे
देवलिकाधिका भूमिरियं चैव सुलोचने । प्रचलंश्चरणस्तेऽद्य सम्पावयति भूतलम्
सौभाग्याश्च मृगाः कामं ये त्वां पश्यन्ति वै वने । ये चान्ये पक्षिणः सर्वे भूरियं चातिपावना
स्तुत्यालं तव चात्यर्थं सत्यं ब्रूहि सुलोचने । पिता कस्ते पतिः क्वासौ द्रष्टुमिच्छास्ति सादरम्
व्यास उवाच - तयोरिति वचः श्रुत्वा राजकन्यातिसुन्दरी । तावुवाच त्रपाक्रान्ता देवपुत्री नृपात्मजा
शर्यातितनयां मां वां वित्तं भार्यां मुनेरिह । च्यवनस्य सतीं कान्तां पित्रा दत्तां यदृच्छया
पतिरन्धोऽस्ति मे देवौ वृद्धश्चातीव तापसः । तस्य सेवामहोरात्रं करोमि प्रीतिमानसा
कौ युवां किमिहायातौ पतिस्तिष्ठति चाश्रमे । तत्रागत्य प्रकुरुतमाश्रमं चाद्य पावनम्
तदाकर्ण्य वचो दस्रावूचतुस्तां नराधिप । कथं त्वमपि कल्याणि पिता दत्ता तपस्विने
भ्राजसेऽस्मिन्वनोद्देशे विद्युत्सौदामिनी यथा । न देवेष्वपि तुल्या हि तव दृष्टास्ति भामिनि
त्वं दिव्याम्बरयोग्यासि शोभसे नाजिनैर्वृता । सर्वाभरणसंयुक्ता नीलालकवरूथिनी
अहो विधेर्दुष्कलितं विचेष्टितं यदत्र रम्भोरु वने विषीदसि । विशालनेत्रेऽन्धमिमं पतिं प्रिये मुनिं समासाद्य जरातुरं भृशम्
वृथा व्रतस्तेन भृशं न शोभसे नवं वयः प्राप्य सुनृत्यपण्डिते । मनोभवेनाशु शराः सुसन्धिताः पतन्ति कस्मिन्पतिरीदृशस्तव