तमुवाचासितापाङ्गी लज्जमानाप्यधोमुखी । चन्द्रस्येति शनैरन्तर्जगाम वरवर्णिनी
जग्राह तं सुतं सोमः प्रहृष्टेनान्तरात्मना । नाम चक्रे बुध इति जगाम स्वगृहं पुनः
ययौ ब्रह्मा स्वकं धाम सर्वे देवाः सवासवाः । यथागतं गतं सर्वैः सर्वशः प्रेक्षकैर्जनैः
कथितेयं बुधोत्पत्तिर्गुरुक्षेत्रे च सोमतः । यथा श्रुता मया पूर्वं व्यासात्सत्यवतीसुतात्
सुद्युम्नस्तुतिः सूत उवाच ततः पुरूरवा जज्ञे इलायां कथयामि वः । बुधपुत्रोऽतिधर्मात्मा यज्ञकृद्दानतत्परः
सुद्युम्नो नाम भूपालः सत्यवादी जितेन्द्रियः । सैन्धवं हयमारुह्य चचार मृगयां वने
युतः कतिपयामात्यैर्दर्शितश्चारुकुण्डलः । धनुराजगवं बद्ध्वा बाणसङ्घं तथाद्भुतम्
स भ्रमंस्तद्वनोद्देशे हन्यमानो रुरून्मृगान् । शशांश्च सूकरांश्चैव खड्गांश्च गवयांस्तथा
शरभान्महिषांश्चैव साम्भरान्वनकुक्कुटान् । निघ्नन्मेध्यान् पशून् राजा कुमारवनमाविशत्
मेरोरधस्तले दिव्यं मन्दारद्रुमराजितम् । अशोकलतिकाकीर्णं बकुलैरधिवासितम्
सालैस्तालैस्तमालैश्च चम्पकैः पनसैस्तथा । आम्रैर्नीपैर्मधूकैश्च माधवीमण्डपावृतम्
दाडिमैर्नारिकेलैश्च कदलीखण्डमण्डितम् । यूथिकामालतीकुन्दपुष्पवल्लीसमावृतम्
हंसकारण्डवाकीर्णं कीचकध्वनिनादितम् । भ्रमरालिरुतारामं वनं सर्वसुखावहम्
दृष्ट्वा प्रमुदितो राजा सुद्युम्नः सेवकैर्वृतः । वृक्षान्सुपुष्पितान्वीक्ष्य कोकिलारावमण्डितान्
प्रविष्टस्तत्र राजर्षिः स्त्रीत्वमाप क्षणात्ततः । अश्वोऽपि वडवा जातश्चिन्ताविष्टः स भूपतिः
किमेतदिति चिन्तार्तश्चिन्त्यमानः पुनः पुनः । दुःखं बहुतरं प्राप्तः सुद्युम्नो लज्जयान्वितः
किं करोमि कथं यामि गृहं स्त्रीभावसंयुतः । कथं राज्यं करिष्यामि केन वा वञ्चितो ह्यहम्
ऋषय ऊचुः सूताश्चर्यमिदं प्रोक्तं त्वया यल्लोमहर्षण । सुद्युम्नः स्त्रीत्वमापन्नो भूपतिर्देवसन्निभः
किं तत्कारणमाचक्ष्व वने तत्र मनोहरे । किं कृतं तेन राज्ञा च विस्तरं वद सुव्रत
सूत उवाच एकदा गिरिशं द्रष्टुमृषयः सनकादयः । दिशो वितिमिराभासाः कुर्वन्तः समुपागमन्
तस्मिंश्च समये तत्र शङ्करः प्रमदायुतः । क्रीडासक्तो महादेवो विवस्त्रा कामिनी शिवा
उत्सङ्गे संस्थिता भर्तू रममाणा मनोरमा । तान्विलोक्याम्बिका देवी विवस्त्रा व्रीडिता भृशम्
भर्तुरङ्कात्समुत्थाय वस्त्रमादाय पर्यधात् । लज्जाविष्टा स्थिता तत्र वेपमानातिमानिनी
ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः । परिवृत्य ययुस्तूर्णं नरनारायणाश्रमम्
ह्रीयुतां कामिनीं वीक्ष्य प्रोवाच भगवान्हरः । कथं लज्जातुरासि त्वं सुखं ते प्रकरोम्यहम्
अद्यप्रभृति यो मोहात्पुमान्कोऽपि वरानने । वनं च प्रविशेदेतत्स वै योषिद्भविष्यति
इति शप्तं वनं तेन ये जानन्ति जनाः क्वचित् । वर्जयन्तीह ते कामं वनं दोषसमृद्धिमत्
सुद्युम्नस्तु तदज्ञानात्प्रविष्टः सचिवैः सह । तथैव स्त्रीत्वमापन्नस्तैः सहेति न संशयः
चिन्ताविष्टः स राजर्षिर्न जगाम गृहं ह्रिया । विचचार बहिस्तस्माद्वनदेशादितस्ततः
इलेति नाम सम्प्राप्तं स्त्रीत्वे तेन महात्मना । विचरंस्तत्र सम्प्राप्तो बुधः सोमसुतो युवा