दत्त्वाजिनं रुरोदाशु वीक्ष्य तां चारुहासिनीम् । त्यक्त्वा भूषणवासांसि मुनिवेषधरां सुताम्
विवर्णवदनो भूत्वा स्थितस्तत्रैव पार्थिवः । राज्ञ्यः सर्वाः सुतां दृष्ट्वा वल्कलाजिनधारिणीम्
रुरुदुर्भृशशोकार्ता वेपमाना इवाभवन् । तामापृच्छ्य महीपालो मन्त्रिभिः परिवारितः । ययौ स्वनगरं राजन् मुक्त्वा पुत्रीं शुचार्पिताम्
अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् व्यास उवाच - गते राजनि सा बाला पतिसेवापरायणा । बभूव च तथाग्नीनां सेवने धर्मतत्परा
फलान्यादाय स्वादूनि मूलानि विविधानि च । ददौ सा मुनये बाला पतिसेवापरायणा
पतिं तप्तोदकेनाशु स्नापयित्वा मृगत्वचा । परिवेष्ट्य शुभायां तु बृस्यां स्थापितवत्यपि
तिलान् यवकुशानग्रे परिकल्प्य कमण्डलुम् । तमुवाच नित्यकर्म कुरुष्व मुनिसत्तम
तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि । बृस्यां वा संस्तरे बाला भर्तारं संन्यवेशयत्
पश्चादानीय पक्वानि फलानि च नृपात्मजा । भोजयामास च्यवनं नीवारान्नं सुसंस्कृतम्
भुक्तवन्तं पतिं तृप्तं दत्त्वाचमनमादरात् । पश्चाच्च पूगं पत्राणि ददौ चादरसंयुता
गृहीतमुखवासं तं संवेश्य च शुभासने । गृहीत्वाऽऽज्ञां शरीरस्य चकार साधनं ततः
फलाहारं स्वयं कृत्वा पुनर्गत्वा च सन्निधौ । प्रोवाच प्रणयोपेता किमाज्ञापयसे प्रभो
पादसंवाहनं तेऽद्य करोमि यदि मन्यसे । एवं सेवापरा नित्यं बभूव पतितत्परा
सायं होमावसाने सा फलान्याहृत्य सुन्दरी । अर्पयामास मुनये स्वादूनि च मृदूनि च
ततः शेषाणि बुभुजे प्रेमयुक्ता तदाज्ञया । सुस्पर्शास्तरणं कृत्वा शाययामास तं मुदा
सुप्ते सुखं प्रिये कान्ता पदसंवाहनं तदा । चकार पृच्छती धर्मं कुलस्त्रीणां कृशोदरी
पादसंवाहनं कृत्वा निशि भक्तिपरायणा । निद्रितं च मुनिं ज्ञात्वा सुष्वाप चरणान्तिके
शुचौ प्रतिष्ठितं वीक्ष्य तालवृन्तेन भामिनी । कुर्वाणा शीतलं वायुं सिषेवे स्वपतिं तदा
हेमन्ते काष्ठसम्भारं कृत्वाग्निज्वलनं पुरः । स्थापयित्वा तथापृच्छत्सुखं तेऽस्तीति चासकृत्
ब्राह्मे मुहूर्ते चोत्थाय जलं पात्रं च मृत्तिकाम् । समर्पयित्वा शौचार्थं समुत्थाप्य पतिं प्रिया
स्थानाद्दूरे च संस्थाप्य दूरं गत्वा स्थिराभवत् । कृतशौचं पतिं ज्ञात्वा गत्वा जग्राह तं पुनः
आनीयाश्रममव्यग्रा चोपवेश्यासने शुभे । मृज्जलाभ्यां च प्रक्षाल्य पादावस्य यथाविधि
दत्त्वाऽऽचमनपात्रं तु दन्तधावनमाहरत् । समर्प्य दन्तकाष्ठं च यथोक्तं नृपनन्दिनी
चकारोष्णं जलं शुद्धं समानीतं सुपावनम् । स्नानार्थं जलमाहृत्य पप्रच्छ प्रणयान्विता
किमाज्ञापयसे ब्रह्मन् कृतं वै दन्तधावनम् । उष्णोदकं सुसम्पन्नं कुरु स्नानं समन्त्रकम्
वर्तते होमकालोऽयं सन्ध्या पूर्वा प्रवर्तते । विधिवद्हवनं कृत्वा देवतापूजनं कुरु
एवं कन्या पतिं लब्ध्वा तपस्विनमनिन्दिता । नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च
अग्नीनामतिथीनां च शुश्रूषां कुर्वती सदा । आराधयामास मुदा च्यवनं सा शुभानना
कस्मिंश्चिदथ काले तु रविजावश्विनावुभौ । च्यवनस्याश्रमाभ्याशे क्रीडमानौ समगतौ
जले स्नात्वा तु तां कन्यां निवृत्तां स्वाश्रमं प्रति । गच्छन्तीं चारुसर्वाङ्गीं रविपुत्रावपश्यताम्