कथमम्बुजपत्राक्षि कल्पनीयो मया तव । मरणं मे वरं प्राप्तं सैनिकानां तथैव च
न ते प्रदानमन्धाय रोचते पिकभाषिणि । भवितव्यं भवत्येव धैर्यं नैव त्यजाम्यहम्
सुस्थिरा भव सुश्रोणि न दास्येऽन्धाय कर्हिचित् । राज्यं तिष्ठतु वा यातु देहोऽयं च तथैव मे
न त्वां दास्याम्यहं तस्मै नेत्रहीनाय बालिके । सुकन्या तं तदा प्राह श्रुत्व तद्वचनं पितुः
प्रसन्नवदनातीव स्नेहयुक्तमिदं वचः । सुकन्योवाच - न मे चिन्ता पितः कार्या देहि मां मुनयेऽधुना
सुखं भवतु सर्वेषां लोकानां मत्कृतेन हि । सेवयिष्यामि सन्तुष्टा पतिं परमपावनम्
भक्त्या परमया चापि वृद्धं च विजने वने । सतीधर्मपरा चाहं चरिष्यामि सुसम्मतम्
न भोगेच्छास्ति मे तात स्वस्थं चित्तं ममानघ । व्यास उवाच - तच्छ्रुत्वा भाषितं तस्या मन्त्रिणो विस्मयं गताः
राजा च परमप्रीतो जगाम मुनिसन्निधौ । गत्वा प्रणम्य शिरसा तमुवाच तपोधनम्
स्वामिन् गृहाण पुत्रीं मे सेवार्थं विधिवद्विभो । इत्युक्त्वासौ ददौ पुत्रीं विवाहविधिना नृपः
प्रतिगृह्य मुनिः कन्यां प्रसन्नो भार्गवोऽभवत् । पारिबर्हं न जग्राह दीयमानं नृपेण ह
कन्यामेवाग्रहीत्कामं परिचर्यार्थमात्मनः । प्रसन्नेऽस्मिन्मुनौ जातं सैनिकानां सुखं तदा
राज्ञश्च परमाह्लादः सञ्जातस्तत्क्षणादपि । दत्त्वा पुत्रीं यदा राजा गमनाय गृहं प्रति
मतिं चकार तवङ्गी तदोवाच नृपं सुता । सुकन्योवाच - गृहाण मम वासांसि भूषणानि च मे पितः
वल्कलं परिधानाय प्रयच्छाजिनमुत्तमम् । वेषं तु मुनिपत्नीनां कृत्वा तपसि सेवनम्
करिष्यामि तथा तात यथा ते कीर्तिरच्युता । भविष्यति भुवः पृष्ठे तथा स्वर्गे रसातले
परलोकसुखायाहं चरिष्यामि दिवानिशम् । दत्त्वान्धाय च वृद्धाय सुन्दरीं युवतीं तु माम्
चिन्ता त्वया न कर्तव्या शीलनाशसमुद्भवा । अरुन्धती वसिष्ठस्य धर्मपत्नी यथा भुवि
तथैवाहं भविष्यामि नात्र कार्या विचारणा । अनसूया यथा साध्वी भार्यात्रेः प्रथिता भुवि
तथैवाहं भविष्यामि पुत्री कीर्तिकरी तव । सुकन्यावचनं श्रुत्वा राजा परमधर्मवित्
दत्त्वाजिनं रुरोदाशु वीक्ष्य तां चारुहासिनीम् । त्यक्त्वा भूषणवासांसि मुनिवेषधरां सुताम्
विवर्णवदनो भूत्वा स्थितस्तत्रैव पार्थिवः । राज्ञ्यः सर्वाः सुतां दृष्ट्वा वल्कलाजिनधारिणीम्
रुरुदुर्भृशशोकार्ता वेपमाना इवाभवन् । तामापृच्छ्य महीपालो मन्त्रिभिः परिवारितः । ययौ स्वनगरं राजन् मुक्त्वा पुत्रीं शुचार्पिताम्
अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् व्यास उवाच - गते राजनि सा बाला पतिसेवापरायणा । बभूव च तथाग्नीनां सेवने धर्मतत्परा
फलान्यादाय स्वादूनि मूलानि विविधानि च । ददौ सा मुनये बाला पतिसेवापरायणा
पतिं तप्तोदकेनाशु स्नापयित्वा मृगत्वचा । परिवेष्ट्य शुभायां तु बृस्यां स्थापितवत्यपि
तिलान् यवकुशानग्रे परिकल्प्य कमण्डलुम् । तमुवाच नित्यकर्म कुरुष्व मुनिसत्तम
तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि । बृस्यां वा संस्तरे बाला भर्तारं संन्यवेशयत्
पश्चादानीय पक्वानि फलानि च नृपात्मजा । भोजयामास च्यवनं नीवारान्नं सुसंस्कृतम्
भुक्तवन्तं पतिं तृप्तं दत्त्वाचमनमादरात् । पश्चाच्च पूगं पत्राणि ददौ चादरसंयुता